________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वितीये विधिविध्यरे
वस्तुस्वभावव्यतिक्रमश्च नियतिवशादेव । किञ्चित् सदसाध्यम्, किञ्चिदसदसाध्यम्, किञ्चिदसत् साध्यम्, किञ्चिच्च सत् साध्यम् । सदपि चाकाशं भूगन्धवदनभिभवं सन्तमसस्थघटवत् प्रदीपादिनेव अव्यङ्गम् । इदं तु तद्वयवस्थाविप - रीतनियति वन्ध्यापुत्राद्यसाध्यमेव, क्रिया हि साधनेषु वर्तमाना सन्तमर्थं साध्यमाविशति प्रत्यर्थनियतत्वात् साधनानुषङ्गस्य, साध्यस्याभावाद्वन्ध्यासुतादेः स्त्रीपुंससम्प्रयोगक्रिया किमाविशतु ? इदं पुनरसत् साध्यं घटादि प्राकू तथाऽवृत्तम् । इदम
१९८
दिजन्मानि अभक्ष्यभक्षत्वं ग्राम्यारण्यकजलस्थलजन्मनां तच्चारिणां च वसत्यादिविपर्ययः । रोषक्षमादिशीलविपर्ययः । पलितस्यैवोत्पत्तिरित्याद्यवस्थाविपर्ययः । * वर्णगन्धादिस्वभावविपर्ययः * । इत्येवमादिवैकृतदर्शनान्न नियतिरेव कारणमिति चेत्, नेत्युच्यते, अत्रापि तथानियतिवशेनेत्यादि यावद्वयतिक्रम उपलभ्यत 10 इति सापि तादृशी नियतिरेव कारणमिति ।
"
किञ्चान्यत्, न केवलं प्रसवादिधर्मव्यतिक्रम एव, किं तर्हि ? वस्तुस्वभावव्यतिक्रमश्च नियतिवशादेव । किश्चित् सदसाध्यमित्यादि चतुर्भङ्गी स्फुटार्थत्वान्न वित्रियते, सा चोद्दिष्टा निर्देक्ष्यमाणा चैं । १४५-१ तथा च पुरुषो नियतेरेव तथा वृत्तत्वात् तत्साध्यासाध्यत्वे प्रतिपद्यते । तत्र सदसाध्यत्वे निदर्शनम् - सदपि चाकाशं भूगन्धवदनभिभवम्, नास्याभिभवोऽस्तीत्यनभिभवं सलिलसेकेनेव न साध्यमित्यर्थः । सन्त15 मसस्थघटवत् प्रदीपा दिनेवाङ्गम् किं तत् ? आकाशादि, सत्त्वात् साध्यं भूगन्धवदिति प्राप्तेऽप्यसाध्यमेव । इदं तु स्त्रीपुंसयोगात् साध्यमबन्ध्यापुत्रवदिति प्राप्ते तद्वयवस्थाविपरीत नियति वन्ध्यापुत्राद्यसाध्यमेव नियतिवशादेवासत्त्वात् । तन्न नियैत्या सत् नियत्यैवासत् साध्यतामर्हति । किं कारणम्' साधनाविष्टक्रियासाध्यत्वात् साध्यानां साधनाविष्टायाः क्रियायास्तत्रावेशाभावः, तत्साधनानां साधनशक्तिशून्यत्वात् । तस्माद् वन्ध्यापुत्रादीनामसाध्यत्वं स्त्रीपुंसयोगक्रिययाप्यसाध्यत्वेन नियतत्वात्, साध्यार्थाभावे च 20 साधनानां साधनत्वाभाव इति तद्दर्शयति - क्रिया हीत्यादि, हिशब्दो यस्मादर्थे, यस्मात् क्रिया साधनेषु काष्ठादिषु वर्तमाना सन्तमर्थ साध्यं विक्लेद्यतन्दुलविपरिणामात्मकमोदनादिकमर्थमाविशति प्रत्यर्थनिय - तत्वाज्वलनाद्युपैनिधानार्थेषु प्रत्येकं नियतत्वात् काष्ठादिसाधनानुषङ्गस्यै, साध्यस्याभावाद्वन्ध्यासुतादेः सा स्त्रीपुंससम्प्रयोगक्रिया किमाविशतु ? तस्मात् तद्व्यवस्थाविपरीतनियति असाध्यं वन्ध्यापुत्रादि ।
?
इदं पुनरित्यादि, असत् साध्यं घटादि । इतर आह- यद्यसत् कथं साध्यं खपुष्पवदुक्तासद
१ अत्र 'अभक्ष्यभक्ष्यत्वम्' इति पाठः समीचीनो भाति “अभक्ष्यो ग्रामशूकरः, पञ्च पञ्चनखा भक्ष्याः" इत्यादि - प्रसिद्धेः, अथवा 'नरा अभक्ष्याः, तिर्यञ्चो भक्ष्याः' इत्यर्थो ज्ञेयः ॥ २ ** एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ३ च भा० प्रतौ नास्ति ॥ ३ सेनेव प्र० ॥ ४ धदिति प्र० ॥ नास्य व्यङ्गो व्यक्तिरस्तीत्यव्यङ्गम् । ५ (नियत्याऽसत्) ? ॥ ६ ष्टायास्तत्रा य० ॥ ७ क्रियाया प्र० ॥ ८ दिमर्थ भा० ॥ ९ अत्र निधानाद्यर्थेषु इत्यपि पाठः स्यात् ॥ १० स्यासाध्यस्याभावा भा० । 'स्यासाध्यत्वाभावा पा०वि० रं० ही ० । स्य साध्यत्वाभावा डे० लीं० ॥ ११ तद्विपरीत य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org