________________
नियतिसमर्थनम्] द्वादशारं नयचक्रम्
१९७ तदनभ्युपगमे सर्वाविवेकेऽवस्थास्वभावाद्यभावादभ्युपगमविरोधः।
यथा लोक इत्येकत्व एव पर्वताद्याकारावग्रहो यथा ज्ञानमेकत्वेऽप्यनेकबोध्याकारं भवति अन्यथा ज्ञानात्मलाभाभावात् तथा नियमात्मकत्वात् सा व्रीहिरित्येकस्मिन् वस्तुन्येका अनेका चाङ्कुरादि भवति ।
उत्पातादिष्वनियमदर्शनादनियतिकारणत्वम् , दृष्टं हि प्रसवादिवैकृतमिति चेत्, न, अत्रापि तथानियतिवशेन...''प्रसवादिधर्मव्यतिक्रम उपलभ्यते ।
१४४-२
युवताद्यवस्था युगपत् स्युः, न च भवन्ति । तस्माद् बालकाल एवं युवादियुगपदभावे भेदक्रमेण नियता यास्तासामवस्थानामुत्पत्तेः स्थितेश्युतेश्च दर्शनान्न स्वभावः कारणम् । किं तर्हि ? नियतिरेव कारणम-१४४-१ भ्युपगन्तव्यम् , तथा तु तेन हेतुना तेन प्रकारेण दृष्टोत्पत्त्याद्यवस्थाभेदक्रमनियमेन तत् तथानियति वस्तु । तदनभ्युपगमे सर्वाविवेके सर्वावस्थानामविवेकेऽभ्युपगम्यमाने स्वभावाद्यभ्युपगमे सति ता 10 अवस्था न स्युः, ते चावस्थारूपाः स्वभावा न स्युर्देवदत्तादेबील्याद्याः सुप्ताद्या वा, ततोऽवस्थास्वभावाद्यभावादभ्युपगत एव स्वभावो न स्यात् । ततोऽभ्युपगमविरोधस्ते जायते स्वभाववादिनः । आदिग्रहणात् तत्तदवस्थासहवर्तिनः पाण्याद्यवयवस्वभावस्य रूपादिबाह्यगुणस्वभावस्य पटुजडताद्यान्तरगुणस्वभावस्य वाऽभावादभ्युपगमविरोधः । अथवा आदिग्रहणात् कालस्यापि पूर्वोक्तन्यायेन युगपदभावेन वाऽभावादभ्युपगमविरोधः कालकारणिनोऽपि । तस्मादिदं प्राप्तमभ्युपगन्तुं तद्विनियमो नियतेरन्यतो नावतिष्ठत इति । 15
___तस्या एव नियतेरेकत्वानेकत्वविरोधपरिहारार्थं दृष्टान्तमाह -यथा लोक इत्येकत्व एव पर्वताद्याकारावग्रहः । एक एव लोकः सरित्समुद्रमहीमहीध्रप्रामारामादिभिराकारैरवगृह्यमाणो भिद्यते [ तथा]... भेदाभेदरूपेण नियतिः, एतद् बाह्यं निदर्शनम् । आन्तरं तु यथा ज्ञानमेकत्वेऽप्यनेकबोध्याकारं भवति । किं कारणम् ? अन्यथा घटपटाद्याकारमन्तरेण ज्ञानात्मलाभाभावात् । एतस्योदाहृतस्यार्थस्य भेदाभेदस्वरूपभावनेयमुच्यते-तथा नियमात्मकत्वादित्यादि यावदकरादि भवतीति । सा नियति-20 वीहिरित्येकस्मिन् वस्तुन्येका मूलादिभेदे वाङ्कर इत्येवाभिन्ना । अङ्करकिशलयपत्रकाण्डादित्वाद्यवस्थाभेदाद भिन्ना रूपरसादिभेदाद्वा भिन्ना । अनेकस्मिंश्च पृथिव्यम्बुवाय्वादिस्वरूपेऽर्थे पृथिव्यादीनामेव तद्भावापत्तेहिरित्येकत्वादभेदा । एकापि सती भिन्ना, अनेकापि संती न भिन्ना तथातथानियतार्थवशात् ।।
द्रव्यदेशकालभावानामुत्पातादिष्वनियमदर्शनार्दनियतिकारणत्वम् , दृष्टं हि प्रसवादिवैकृतम् , 'आदि'ग्रहणात् प्रसवनिलयाहारक्रियाप्रकृतिवैकृतानि, नरतिरश्च विपर्ययेण सङ्ख्याकृतिवर्णावयवा- 25
१ स्युः न चाव वि० विना । स्युः न वाव वि०॥ २ ल्यादौ य । ल्यादोः भा० ॥ ३ चाभावा' भा० वि०॥ ४ चाभावा भा० डे० ली० ॥ ५न्यतोवतिष्ठत भा० . न्यतावतिष्ठत वि० २० ही० । न्यततवतिष्ठत पा० डे० ली०॥ ६"एकत्वस्याविरोधेन शब्दतत्त्वे ब्रह्मणि समुच्चिता विरोधिन्य आत्मभूताः शक्तयः । तद्यथा-भिन्नार्थप्रत्यवभासमात्रायामेकस्यामुपलब्धावकारकप्रत्यवभासमात्राः पृथिवीलोका इति । न हि ज्ञेयगतो वृक्षाद्याकारावग्रहो ज्ञानस्यैकत्वेन विरुध्यते, नास्याकारात् तदाकारस्यात्मभेदोऽस्ति तेषामेकज्ञानतत्त्वानतिकमात् ।” इति भर्तृहरिविरचितायां वाक्यपदीयवृत्तौ १२॥ ७ अत्र 'भिद्यते, भेदाभेदरूपेण नियतेरेतद् बाह्यं निदर्शनम् ।' इत्यपि पाठः स्यात् ॥ ८नियतात्मक भा०॥९ रूपर्थे भा० । रूपमर्थ यः॥ १० सतीना य० ॥ ११ नियतकार भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org