________________
१९६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे सा च तदतदासन्नानासन्ना, तस्या एव तदतदासन्नानासन्ननानावस्थद्रव्यदेशादिप्रतिबद्धभेदात् , मेघगर्भवत् । नाभाविभावो न भाविनाशः।
न कालादयं विचित्रो नियमः, वर्षारावादिष्वपि कचिदयथर्तुप्रवृत्तेः । न च खभावात् , बाल्यकौमारयौवनस्थविरावस्थाः सर्वस्वभावत्वाद् युगपत् स्युः, भेदक्रम5 नियतावस्थोत्पत्त्यादिदर्शनान्न स्वभावः कारणम् । तथा तु तत् तथानियति वस्तु ।
भेदा सेति गृह्यताम् । किमिव ? व्यवच्छिन्नस्थाणुपुरुषत्ववत्, परमार्थतः स्थाणुरेव वा पुरुष एव वेति व्यवच्छिन्ने वस्तुनि यथोर्ध्वतासामान्यस्याभेदस्य दर्शनादभेद एवं सर्वनियतिषु क्रिया-क्रियाफलरूपास्विति ।
___ सा पुनर्नियेतिर्भेदाभेदरूपा, कस्मात् ? इति सकारणं स्वरूपनिरूपणमस्या उच्यते - सा चेत्यादि । सा च नियतिस्तदेव, सर्वनियतिषु तस्या एवाविशेषात् । अतच, 'क्रियाऽक्रियानियत्यादिवैलक्षण्यात् । 10 आसन्ना, प्रत्यक्षोपलभ्येष्वर्थेषु प्रत्यासत्त्या नियतत्वात् । अनासन्ना, कार्यानुमानागमगम्येषु दूरत्वात् । इह
च स्वर्गादिषु च तथानियतेरासन्नानासन्ना च । किं कारणम् ? तस्या एव तदतदासन्नानासन्ननानावस्थद्रव्यदेशादिप्रतिबद्धभेदात् , सा च असा च आसन्नानासन्ना च नानावस्था येषां ते तदतदासन्नानासन्ननानावस्था द्रव्यदेशादयः, तैः प्रतिबद्धायास्तस्या एव नियते.दाद्रव्यादित्वेन । आदिग्रहणात् काल
भावाभ्यां च । सैव नियतिव्यतो घटरूपेण सा भवति, पटरूपेणासा । घटान्तरस्यासन्ना आकारप्रत्यासत्त्या, 15 पटाकारेणाप्रत्यासन्ना । क्षेत्रतो यस्मिंश्चक्रमूर्धनि क्रियते तस्मिन्नेव यत्र वा भूप्रदेशे तिष्ठति ग्रीवादिदेशे वा
तत्रैव नान्यत्रेति, कालतो यावत्कालेन निर्वर्तते यावन्तं वा कालं तिष्ठति सा कालनियतिः, भावतो यैर्वर्णा१४३-२ कृत्यादिभिर्यथा भवति तथैवेति नियतिः, एवं द्रव्यदेशादिप्रतिबद्धभेदाद् वस्तुविरचना नियत्येकत्वेऽपि ।
किमिव ? मेघगर्भवत् , यथा मेघा गर्ने गृह्णन्तो यादृग् यावच्च जलं गृह्णन्ति यथा च तादृक् तावत्
तथैव च विसृजन्ति द्रव्यतः, क्षेत्रतो यत्र गृह्णन्ति देशे तत्रैव निसृजन्ति, कालतो मार्गशिरमासे गृहीतं 20वैशाखे निसृजन्तीत्यादि, भावतो यथा गृहीतं क्षारमधुरादि तथैव विसृजन्ति सत्त्वौषधिवनस्पतिशोषपोषकरादीति । तदुपसंहरति-नाभाविभावो न भाविनाश इति प्राक्तनेन वृत्तेन गतार्थम् ।
__ स्यान्मतम् - अयं नियमः कालात्, कालस्य क्रमाख्यत्वात् पूर्वोत्तरादिकालक्रमनियतपरिणामत्वाच्च भावानामिति । एतच्च न कालादयं विचित्रो नियमः । कस्मात् ? वोरात्रादिष्वपि क्वचिदयथर्तुप्रवृत्तेः। दृश्यते ह्यङ्कुरकिशलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पत्यादीनां सत्त्वानां च स्वतः प्रयोगतश्च 25 वर्षाशरद्धेमन्तशिशिरवसन्तनिदाघेषु स्वपरिणामकालेष्वप्रवृत्तिदर्शनादस्वकालेषु च क्वचित् प्रवृत्तिदर्शनात् ।
यद्यपि मन्येत स्वभावादिति, तन्न च स्वाभावादित्यादि यावदभ्युपगमविरोधः । वनस्पतिसत्त्वादेर्बाल्यकौमारयौवनस्थविरावस्थाः सर्वोऽसावस्य स्वो भावः स्वभाव इत्यतो बालादिकाल एव
१ एवेति प्र०॥ २°ति दादभेदरूपा वि. विना ॥ ३ क्रियाक्रियानि प्र० ॥ ४°बंध भा० वि० । 'बध भा० वि० विना ॥ ५ असा च प्रतिषु नास्ति ॥ ६°द्धाया एव य० ॥ ७ यावकालेन भा० पा० रं० डे० ॥ ८ तत्रैवेति प्र०॥ ९ दृश्यतां पृ० १९४ पं० ३ ॥ १० त्वाच्च पूर्वो प्र० ॥ ११ यच्चतुप्रवृत्तेः प्र०॥ १२ दृश्यतां पृ० २०६ पं० १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org