________________
नियतिस्वरूपनिरूपणम् ]
द्वादशारं नयचक्रम् तेर्यनप्रतिपाद्यत्वमस्ति । प्रयत्नसाध्येष्वर्थेषु कृतकेष्वपि च तद्विषयक्रियाफलस्य तथानियतेापिता नियतिकारणत्वस्य ।
परमार्थतोऽभेदासौ कारणं जगतः, भेदवबुद्धयुत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषत्ववत् । कथम् ? अभेदबुद्धयाभासभावेऽप्यभेदाभ्यनुज्ञानाद् भेदबुद्धयाभासभावेऽप्यभेदाभ्यनुज्ञानादेव व्यवच्छिन्नस्थाणुपुरुषत्ववत् ।
तथ्यम् , तेन याथातथ्येन तस्य तस्यार्थस्य सर्वस्य नियमेन तिष्ठतः प्रयोजकत्वं हेतुकर्तृत्व स्थापनम् , तच्चैकरूपमेव सर्वत्र तस्या नियतेः, तस्माद्धतोस्तथातथाप्रविभक्ताप्रविभक्तसर्वार्थयाथातथ्यस्थापनैकरूपत्वान्नियतेर्नेदानीं नियमनमात्रैकव्यापाराया नियतेर्हेतुत्वप्रतिपादनाय यत्नः कश्चिदास्थेयः। १४२-२
प्रयत्नसाध्येष्वर्थेषु कृतकेष्वपि च तद्विषयक्रियाफलस्य तथानियतेयं पिता नियतिकारणत्वस्य । स्यान्मतम् - नियतिनिबद्धत्वात् सर्वभावानां क्रियाक्रियाफलयोरनियम इति, तन्न भवति, 10 तद्विषयस्य घटादिविषयस्य मृत्पिण्डदण्डचक्रादिसाधनस्य प्रयत्नसाध्यस्य घटात्मनिर्वृत्तिरूपस्य क्रियाफलस्य तेन प्रकारेण नियतेर्नियतिरेवात्र कारणमिति ।
इदानीं तस्या नियतेः स्वरूपं चिन्त्यते - किं तावत् तेषामेव भावानां स्वं स्वं रूपं प्रतिभावं भिन्नं नियतिरुच्यते, उत अभेदा सा ? इति । अत्र परमार्थतोऽभेदासौ कारणं जगतः, नास्या भेद । इत्यभेदा । कस्मात् ? भेदव(ड्युत्पत्तावपि परमार्थतोऽभेदात् । अथवा कोऽसौ भेदो नाम 15 नियतेरपि ? क्रियासाध्यासाध्यार्थरूपत्वाद् भावानां नियम इति चेतनाचेतनत्वादिबुद्ध्युत्पत्तीवपि सत्यां परमार्थतो नियतिरित्येवा भिन्नत्वादभेदा, भेदबुद्धिस्तु तद्विकल्पमात्रभावापेक्षा । किमिव ? बालादिभेदपुरुषत्ववत् , यथा बाल्यकौमारयौवनमध्यमावस्थाभेदबुद्ध्युत्पत्तावपि पुरुषत्वमभिन्नमेवं नियतिरपि 'क्रियाक्रियानियतफलभेदबुद्ध्यादिभेदेष्वभिन्नेति ।
आह-कथं परमार्थतो नास्ति भेदो भेदबुद्ध्याभासभावेऽस्याः ? दृश्यमाने हि भेदबुद्ध्याभासभावे 20 किश्चित् क्रियया साध्यं किञ्चिन्नेति किञ्चित् स्वत एव किञ्चित् परत इति । अथवा परमार्थतस्तु भेद एवास्तु सत्यप्यभेदबुद्ध्याभासभावे सतीति आचार्यो द्विधापि चोदिते परिहारमाह - कथमित्यादि । यदि भेदोऽभिमतस्तत्र कथं परमार्थतो भेदः ? अभेदबुद्ध याभासभावेऽप्यभेदाभ्यनुज्ञानात् त्वयैव, १०३-१ अभेदवदाभासते भेद एवेति । अथाभेद इष्टः कथमभेदः ? भेदबुद्धयाभासभावेऽप्यभेदाभ्यनुज्ञानादेव । यद्येकान्तबुद्धिस्त्वमतेन परमार्थविषयत्वे तदा तदाभासाद् द्विधापि चाभेदस्याभ्यनुज्ञानादेवा- 25
१ "तत्प्रयोजको हेतुश्च । १ । ४ । ५५॥ कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ।" इति पाणिनीयव्याकरणसिद्धान्तकौमुद्याम् ॥ २ प्रविभक्तस
मुद्याम् ॥ २ प्रविभक्तसर्वार्थ प्र०॥ ३खं स्वरूपं पा० डे. ली. । स्वस्वरूपं वि० । स्वरूपं रं० ही० ॥ ४क्रियासाध्यसाध्यार्थ भा० पा० । क्रियाक्रियासाध्यसाध्यार्थ भा० पा० विना ॥ ५त्ताधसत्यां प्र० ॥ ६ वि० २० ही. विनान्यत्र कियाक्रियाक्रियानियत पा० डे० ली० । क्रियानियत भा० ॥ ७°ड्यावभास प्र० ॥ ८°न्मते परमार्थविषयत्वे तदा तदाभासा द्विधापि य० । 'न्मतेन परमार्थविषये तदातदातदाभासा द्विधापि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org