________________
१९४
न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वितीये विधिविध्यरे कारणेनावश्यं भवितव्यं तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका की । न हि तस्यां कदाचित् कथञ्चित् तदर्थान्यरूप्यमेकत्वव्याघाति । अन्वाह च
प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा।
भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ [ ] इन च मूर्ताभूर्तादितथातथाप्रविभक्तापविभक्तसर्वार्थयाथातथ्यस्थापनैकरूपत्वान्निय
तन्नियमकारिणा कारणेनावश्य भवितव्यम् । किं कारणम् ? तेषां तथाभावान्यथाभावाभावात् , देवदत्तोऽधिश्रयणोदकसेचनतन्दुलावपनधोऽपकर्षणादिव्यापारस्वातन्त्र्य एव नियतो न ज्वलनसम्भवनधारणविक्लित्त्यादिव्यापारस्वातन्त्र्ये, एवं शेषाणामपि काष्ठादीनां करणादिस्वव्यापारविषयस्वातन्त्र्यनियमस्तथाभावः । तेषामेव कारकाणां स्वव्यापारविपरीतशक्तिः परस्परतोऽन्यथाभावः । तयोस्तथाभावान्यथा10 भावयोरभावादभावप्रसङ्गादिति यावत् । दृष्टौ चेमौ तथाभावान्यथाभावौ। तस्मानियतत्वान्नियमकारिकारणापेक्षनियमा एव भावाः, तच्च कारणं नान्यदतो भवितुमर्हति नियतेरित्यत आह - इति नियतिरेवैका
की, 'इति'शब्दो हेत्वर्थे, अस्मार्तोर्नियमकारिकारणाविनाभावाद् भावनियमस्य 'नियतिरेवैका की १४२-१ इत्यस्तु निर्दोषा कल्पना । कथम् ? यस्माद् न हि तस्यां कदाचित् कथञ्चित् तदर्थान्यरूप्यमेकत्व
व्याघाति । ज्ञानात्मकैककारणवादे पृथिव्याद्यचेतनमकारणानुरूपमित्यस्ति व्याघातोऽवस्थासु चतसृष्वपि 15 कल्पितासु, कारणपूर्वत्याभ्युपगमात् कार्याणाम् । न हि नियतेनियममात्रस्य का भावानां सारूप्यवैरूप्यभेदेऽपि व्याघातोऽस्ति । कदाचिदित्यवस्थान्तरेऽपि, कथञ्चिदिति प्रकारान्तरेऽपि । तस्मात् कारणैकत्वेऽपि बैरूप्यदोषपरिहारसमर्थत्वान्नियतिकारणकल्पना श्रेयसीति। अन्वाह चेति जिनवचनोपजीवनमेतदपि ज्ञापकं पूर्ववत् । प्राप्तव्यो नियतिबलेत्यादि, कृतेऽपि यत्ने कार्यविपत्तिदर्शनादकृतेऽपि निध्यादिदर्शनसम्पत्तिदर्शनात् कार्यस्य कारणानुरूपगुणस्तद्वैरूप्यविरोधपरिहारसमर्थोऽस्ति । 20 किमयमेव गुणः ? अन्योऽप्यस्ति ? अस्तीत्युच्यते । कतमोऽसौ ? अयत्नप्रतिपाद्यतागुणः, स च मूर्तामूर्ताद्ययुक्तविरुद्धधर्मापत्तिपरिहारेणेति तदर्शयति-न च मूर्तामूर्तेत्यादि यावद् यत्नप्रतिपाद्य[व]मस्तीति । तत्रोपपत्तिः - उभयथा तथातथाप्रविभक्तेत्यादि यावद् नियतेः । तेन तेन प्रकारेण तथा तथा मूर्तत्वेन अमूर्तत्वेन चेतनत्वेन अचेतनत्वेन सौक्ष्म्येण स्थौल्येन च ऐश्वर्येण दारिद्येण चेत्यादिना प्रविभक्तानामर्थानां सर्व वस्तु ज्ञेयं सदर्थः' इत्यादिना चाप्रविभक्तानां सर्वेषामर्थानां यथातथाभावो याथा
१ "कोऽसौ प्रतिकारक क्रियाभेदः पचादीनाम् ? अधिश्रयणोदकासेचनतण्डुलावपनधोऽपकर्षणक्रियाः प्रधानस्य कर्तुः पाकः । अधिश्रयणोदकासेचनतण्डुलावपनेधोऽपकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । तत्र तदा पचिर्वर्तते । एष प्रधानस्य कर्तुः पाकः । एतत् प्रधानकर्तुः कर्तृत्वम् । द्रोणं पचत्याढकं पचतीति सम्भवनक्रिया धारणक्रिया चाधिकरणस्य पाकः । द्रोणं पचत्याढकं पचतीति सम्भवनक्रियां -ग्रहणक्रियां] धारण क्रियां च कुर्वती स्थाली 'पचति' इत्युच्यते । तत्र तदा पचिर्वर्तते । एषोऽधिकरणस्य पाकः । एतदधिश्रयणस्य कर्तृत्वम् । एधाः पक्ष्यन्ति आ विक्लित्तेज्व. लिष्यन्तीति ज्वलनक्रिया करणस्य पाकः । एधाः पश्यन्ति आ विक्लित्तेवलिष्यन्तीति ज्वलनक्रियां कुर्वन्ति काष्ठानि 'पचन्ति' इत्युच्यन्ते । तत्र तदा पचिर्वर्तते । एतत् करणस्य कर्तृत्वम् ।" इति पातञ्जलमहाभाष्ये १।४।२३ ॥ २°नियतत्वाभा० प्रतौ नास्ति ॥ ३°चिदिति व्यवस्था य०॥४°जीविनमें प्र० ॥ ५ अत्र रूपयगुण इति पाठः स्यात् ॥ ६ मूर्ताद्ययुक्त प्र० ॥ ७ तथाप्रविप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org