________________
अथ नियतिवादः] द्वादशारं नयचक्रम्
१९३ सम्प्रधार्यमेतत् । स यदि ज्ञः स्वतन्त्रश्च, नात्मनोऽनर्थमनिष्टमापादयेद् विद्वद्राजवत् ।
न, निद्रावदवस्थावृत्तेः पुरुषताया एवास्वातत्र्यात्, आहितवेगवितटपातवत् । ननु तज्ज्ञत्वाद्ययुक्ततैवैषा समर्थ्यते, युक्तत्वाभिमतत्वेऽपि चायमेव नियमः कत्र न्तरत्वापादनाय । भवति कर्ता..........''अचेतनोऽपि भवति । तन्नियमकारिणा
भवनस्य क्रियात्वात् , या क्रिया सा भवितुरेव घटादेः परमाण्वादेर्वा, यथा पचिक्रिया पक्तुरेव भवति 5. स्वतत्रस्य । भवनमपि च क्रिया, क्रियात्वाद् भवित्रा विना न भवति, पचिवत् । भविता च कर्ता, कर्ता च स्वतन्त्रः, कर्तृत्वादेव न केनचिदसौ भाव्यते कार्यते वा स्वातव्यात् कर्तृत्वात् । यत्तु स ज्ञ इति सम्प्रधार्यमेतत् , यत् पुनरुच्यते 'स्वातत्र्यात् कर्ता ज्ञ एव' इत्यवधार्य तत्र त्वया सहैतत् सम्प्रधाएं विचार्य-१४१-१ मस्ति, 'सर्वज्ञमेव' इत्ययुक्तमित्यभिप्रायः । किं कारणमयुक्तम् ? सर्वज्ञस्यैव भवनाभ्युपगमे दोषदर्शनात् , कर्तृत्वात् स्वातत्र्यमस्तु, को वारयति ? स यदि ज्ञः स्वतत्रश्चेत्युभयगुणसम्पन्न इष्यते यदि ज्ञः सन् 10 स्वतन्त्रोऽपि स्याद् नात्मनोऽनर्थमनिष्टमापादयेत् ज्ञत्वे सति स्वतन्त्रत्वात् । को दृष्टान्तः ? विद्वद्राजवत् , यथा हि दैवपौरुषगतिज्ञो देशकालसहायसाधनसम्पन्नः पराक्रमवान् राजा नात्मनोऽनर्थमनिष्टमरणपराजयादिमापादयत्येवमसावैपि नात्मनोऽनर्थमनिष्टमापादयेत् , दृष्टस्त्वयमनर्थोऽनिष्टो जन्मजरामरणरोगशीतोष्णादिः शारीरो मानसश्च शोकभयविषादेासूयादिः, तस्मादयुक्तमस्य ज्ञत्वमिति ।।
एतच्च न, निद्रावदवस्थावृत्तरित्यादि । नैतदुपपद्यते 'अनर्थानिष्टापादनानुपपत्तिस्यात्मनः' इति, 15 कस्मात् ? निद्रावदवस्थावृत्तेः, निद्रावत्यवस्था निद्रावदवस्था, तया वृत्तिर्निद्राववस्थावृत्तिः, तस्या वृत्तेः पुरुषताया एवास्वातन्त्र्यात् , ज्ञस्यापि स्वकृतनिद्रवदवस्थावृत्तिवशादस्वातव्यात् । आहितवेगवितटपातवत् , यथा कश्चित् पुरुषः स्वयमेव पूरितवेगस्तं वेगं निवर्तयितुमशक्तो 'वितटे पतति तथा स्वतन्त्रमपि ज्ञमपि तत् परं कारणमात्मनोऽनिष्टमनर्थमापादयेत् , को दोषः ? इति अत्र दोषकुतूहलं चेद् ब्रूमः - ननु तज्ज्ञत्वेत्यादि, नन्वेवं त्वया 'निद्रावदवस्थावृत्तिवशादाहितवेगवितटपातवदवस्थाऽस्वातत्र्यादनानिष्टानयनम्' 20 इति ब्रुवता तज्ज्ञत्वाद्ययुक्ततैवैषा समर्थ्यते, तेन 'अनया पूरितवेगया शीघ्रगमनक्रियया वितटपातो भविष्यति' इत्यज्ञातत्वात्, ज्ञातत्वे वितटपातः स्वतन्त्रस्य नोपपद्यत इति स एव दोषः । तस्मात् तदवस्थमयुक्तत्वम् ।
युक्तत्वाभिमतत्वेऽपि चेत्यादि । यद्यपि स्वातन्त्र्यज्ञत्वाविनाभाविभवनबलोपबृंहितमात्ममयत्वमेवास्य १४१-२ सर्वस्य मन्यसे तथापि तु अयमेव नियमः कत्रन्तरत्वापादनाय भवतीति वाक्यशेषः । कथं कृत्वा तद् 25 भाव्यत इति चेत् , उच्यते-भवति कर्तेति प्रागभिहिताक्षरार्थन्यायं तदीयमेवोच्चारयति यावदचेतनोऽपि भवतीति त्वयैव कारणान्तरास्तित्वमेवं ब्रुवता समर्थितं भवति किञ्चिदासामवस्थानाम् , पचाविव ज्ञाज्ञस्वतन्त्रास्वतत्रस्वविषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनाद् देवदत्तकाष्ठस्थालीतन्दुलोदकादीनां
१ कार्यते क्रियामे(क्रियते ?) वा भा० ॥ २ मस्त प्र० ॥ ३°वप्य य० । वप्या भा० ॥ ४°द्राव. स्थावृत्ति प्र०॥ ५ विपतटे प्र०॥ ६ विटपात प्र०॥ ७ दृश्यतां पृ० १७५ पं० २॥ ८ अत्र 'तन्दुलौदनादीनां इति पाठः स्यात् ॥
नय० २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org