________________
१९२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे तेन तत्र तथा तस्मात्तदा तदर्थं च प्रवृत्तिः। तदन्तरेव तस्य, न ततो व्यतिरिक्तम् , स एव हीदं वृत्तमविवृत्तं च बहुधानकं चेतनाचेतनादिमभेदरूपम् । अन्वाह च
तदेजति तन्नैजति तद् दूरे तंदुपान्तिके।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ [ शुक्लयजु० वा० सं० ४०।५] ॐ अणबोधनेत्यादेविशुद्धिप्रकर्षविशेषाद् देवता अपि स एव, यावदर्हन्नपि भवतीति सम्भाव्यते।
सत्यम् । भवनं कर्तुः, भवनस्य क्रियात्वात्, पचिवत् । यत्तु स ज्ञ इति
येन हेतुना यत्र क्षेत्रे यथा येन प्रकारेण यस्मादाश्रयाद् वरतुनो यदा यस्मिन् काले यदर्थ च यत् प्रयोजनमुद्दिश्य प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थं च प्रवृत्तिः, तद्यथा- राज्ञाज्ञप्तः 10 सूपकारः स्थाल्यामोदनं कुशूलात् तण्डुलानाहृत्य मृदुविशदमोदनं पेयात्यैपूर्वकं क्षुत्प्रशमनार्थं च पचतीति । तत् पुनः प्रवर्तनं तदन्तरेव तस्य पुरुषस्य, न ततो व्यतिरिक्तं बहिर्भूतम् । स एव हीदम्, स एव पुरुषो यस्मादिदं सकलं जगदू वृत्तं ततः प्रसृतं नानाभेदेन विवर्तमानम् , अविवृत्तं च तत्स्वरूपापरित्यागात् । बहुधानकं बहूनामाश्रयः । चेतनाचेतनादिप्रभेदा रूपमस्येति चेतनाचेतनादिप्रभेदरूपम् ,
यच्च चेतनं नरतिर्यगमरनारकादि तत्प्रभेदाश्च रूपमस्य काष्ठकुड्यघटपटाद्यचेतनं च सप्रभेदमस्य रूपम् । 15 अन्धाह चेति जैनमतानुसारेणैवेत्यर्थः । तदेजति चलति स्पन्दते, नजति न चलति न स्पन्दते । १४०२ तद् दूरे तिर्यग्लोकेऽधोलोकेऽलोके च । तदुपान्तिके 'तदेवास्मिन् प्रदेशे दृश्यरपृश्यादि । तद
न्तरस्य घटपटादेः सर्वस्य वस्तुनः साकारानाकारोपयोगलक्षणस्यात्मनस्तत्परिणतेरप्रतिघातात् । तदु सर्वस्यास्य बाह्यतः, तस्यैवालोकेऽपि सद्भावात्, 'सर्वस्यास्य' इति लोकगतभावनिर्देशात् तस्य बाह्यमलोक इति ।
अर्हणबोधनेत्यादेविशुद्धिप्रकर्षविशेषाद् देवता अपि स एव, अर्हति सर्वलोकातिशयपूजा इत्यर्हन् , बुध्यत इति बुद्धः, वर्धनाद् बृहत्त्वाद् ब्रह्मा वर्धमानो वा, व्याप्नोतीति विष्णुर्ज्ञानात्मनैव सर्वानर्थान् , ईशनादीश्वरः, एतेभ्यश्च ज्ञानविशुद्ध्युत्कर्षभेदेभ्यस्तत्पर्यन्तप्राप्तेर्यावदहन्नपि भवतीति सम्भाव्यते, दुष्प्रापत्वादार्हन्त्यस्य सम्भावनयोच्यते, शेषपदप्राप्तिस्तु सुलभैवेति, तामपि च दुरापां सर्वज्ञावस्था परमविशुद्धां परमाख्यां स एव प्राप्तुमर्हतीति । एवं विधिविधिनयविकल्पः पुरुषवादः ।
अधुना नियतिवादो विधिविधिनयदर्शनाश्रयोऽभिधीयते - सत्यम् , भवनं कर्तुरित्यादि । सत्यं युक्तमेतदुच्यते त्वया - तन्न भवतः स्वातव्यमुपलभ्यमानं पचाविव शक्यमपह्नोतुम् । किं कारणम् ?
१“अथापरे विवृत्ताविवृत्तं बहुधानकं चैतन्यमित्याहुः ।" इति भर्तृहरिविरचितायां वाक्यपदीयवृत्तौ १ । ८ ॥ २ प्रवृत्तिस्तथा प्र० । अत्र 'प्रवृत्तिः, यथा राज्ञाज्ञप्तः' इत्यपि पाठः स्यात् ॥ ३तंदुलाकृत्य मृदुविशद य० । तंदुविशद भा०॥ ४ अत्र ‘पेयापूर्वकम्' इति पाठः सम्भाव्यते ॥ ५ रेचेतस्य प्र० ॥ ६ पुरुषस्य य० प्रतिषु नास्ति ॥ ७बहुधानामांश्रयः भा० । बहधानाश्रयः य०॥ ८ यच्चेतनं य०॥ ९ अत्र तद्वन्तिके इति यजुर्वेदे पाठः, एवं चात्र नयचक्रवृत्तौ: न्तिके इत्यपि पाठः स्यात् ॥ १० तदेकस्मिन् प्र०॥ ११ सर्वस्य बाप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org