________________
पुरुषस्यैवात्मादिशब्दवाच्यत्वाभिधानम्] द्वादशारं नयचक्रम् , तवायककोशकारककीटवञ्च तदात्मका एवैते संहारविसर्गबन्धमोक्षाः । यथा च सुदीप्तात् पावकाद्विस्फुलिङ्गा भवन्ति ।
स एव कलनात् कालः । प्रकरणात् प्रकृतिः। रूपणादिनियमनान्नियतिः । खेन रूपेण भवनात् खभावः । येन यत्र यथा यस्माद् यदा यदर्थं च प्रवर्तितव्यं
वायककोशकारककीटवच्च तदात्मका एवैते संहारविसर्गबन्धमोक्षाः, यथा तत्रवायकीटः । स्वशरीरजयैव लालया तत्रं प्रसारयत्युपसंहरति च न चान्यतः कुतश्चित् तथात्मन एव संहारविसौ । उक्तं हि - यथोर्णनाभिः सृजते गृह्णीते च यथा पृथिव्यामौषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानीति वा, यथा सुदीप्तात् पावकाद्विस्फुलिङ्गा भवन्ति तथाक्षरात् सम्भवतीह विश्वम् [मुण्डकोप० ] इति । बन्धमोक्षावपि यथा कोशकारकीटक आत्मानं वेष्टयति स्वशरीरविनिर्गतेन कोशेन पुनश्च तत्रैव प्रलीयते कश्चिच कोशकं छिद्रीकृत्य निर्गच्छत्येवमात्मनो बन्धमोक्षौ नान्यत इति । किञ्चा- 10 न्यत् , यथा च सुदीप्तादित्यादि, अयमपि दृष्टान्तोऽग्निस्वतत्त्वानंतिवृत्त्याग्निरूपसम्भवात् पुरुषस्य तत्साधर्म्यप्रदर्शनार्थम् , यथाऽन्वाह - यथा सुदीप्तात् पावकादित्यादि । एवं तावत् पुरुष एव सर्वमित्युक्तम् ।
स एवोच्यते कालोऽपि, स एव ज्ञत्वात् कलनात् कालः, कल सङ्ख्याने [पा० धा० ४९७, १८६६], कलनं ज्ञानं सङ्ख्यानमित्यर्थः । यथा 'चाहुरेके - कालः पचति भूतानि [
] इति श्लोकः । प्रकरणात् प्रकृतिः स एवेति वर्तते । सत्त्वरजस्तमःस्वतत्त्वान् प्रकाशप्रवृत्तिनियमार्थान् गुणा-15 नात्मस्वतत्त्वविकल्पानेव भोक्ता प्रकुरुते इति प्रकृतिः, यथाहुरेके
१४०-१ अजामेकां लोहित शुक्लकृष्णां बह्वीः प्रजाः सृजमानां सँरूपाः।
अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ [श्वेताश्व० ४।१।५५] इति । रूपणादिनियमनान्नियतिः, रूपणाच्चक्षुषो विषयो रूपमेव न रसादयः, रसनाद् रसो रसनविषयो न रूपादय इत्यादि नियमनान्नियतिः । वो भाव आत्मनैव स्वेन रूपेण भवनात् 20 स्वभावः । यथाहुरेके- -
१६*कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः॥[ ] इति* ।
१ वायकाशभा०॥२°नाभः य० ॥३ अथा प्र०॥४“यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम् ॥ १।१।७॥"तदेतत् सत्यम्- यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥२॥११॥" इति मुण्डकोपनिषदि पाठः ॥ ५ अत्र 'यथा च सुदीप्तात् पावकाद् विस्फुलिङ्गा भवन्ति तथाक्षरात् सम्भवतीह विश्वम् ।' इति मूलं सम्भाव्यते ॥ ६°नविवृत्त्याविरूप प्र०॥ ७°नार्थ भा० ॥ ८ यथात्वाह प्र० ॥ ९ज्ञात्वा कल प्र० ॥ १० यथा बहुरेके प्र०॥ ११ “कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥” इति संपूर्णः श्लोकः ॥ १२ प्रकाशवत्ति प्र०॥ १३ तकृष्णशकांप्र०॥ १४ विरूपाः प्र०॥ १५ दिनिय प्र० ॥ १६ ** ** एतच्चिह्नान्तर्गतस्य पाठस्य स्थाने कः कण्टकानामित्यादि इत्येव य० प्रतिषु पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.