________________
१९०
न्यायागमानुसारिणीवृत्त्यलङ्कतम् .. .. .. .[द्वितीये विधिविध्यरे ... अत एव तस्य सर्वत्वसम्प्रसिद्ध्या आत्माद्याख्यता, मृदनुत्तीर्णघटपिठरादिवद् भ्वस्त्यथोदिभ्यः सर्वस्यानुत्तरात् सर्वस्यासावात्मा स्वरूपं तत्त्वमित्यर्थः ।
गोचरं लिङ्गगम्यं वा निर्दिशति । सर्वमित्यशेषं तस्यैव सामान्यविशेषभेदप्रभेदानन्त्येऽपि सङ्ग्रहीतं बुद्ध्या । इदं च देशतः प्रदर्शनम् - इदं सर्वमिति । कालतस्तु भूतं भाव्यमिति अतीतानागतवर्तमानानां प्रदर्शनम् , 5 भूतशब्दस्य वर्तमानातीतवाचित्वात् । उत पश्य प्रेक्षस्वेत्यर्थः । अमृतत्वस्य अक्षयत्वस्य ईशानः प्रभविता, स ह्यक्षयोऽजरोऽमरः पुरुषो ज्ञानस्याविनाशित्वात् सोऽक्षयत्वमनुभवतीत्यर्थः । यथोक्तम् - अक्खरस्स अणंतभागो णिचुग्धाडितओ सव्वजीवाणं [ नन्दिसू० ४२] ति । तद्वयाख्याननिदर्शनं च
तं पि जदि आवरिजिज तेण जीवो अजीवयं पावे।
__सुटु वि मेहसमुदये होइ पभा चंदसूराणं ॥ [ नन्दिसू० ४२ ] ति। 10 यदिति यस्मात् कारणादन्नेनातिरोहति, अद्यते भुज्यतेऽश्यत इत्यन्नं पुद्गलद्रव्यं तेनैवात्मनानाद्यनन्त१३९-१ शोऽपि विपरिवर्तितत्वात् , तेनान्नेनासावतिरोहति वर्धत उपचीयते तत्स्वारूप्याद् बालक इव नवनीताहारेण
तेन ज्ञानक्रिययोरुपष्टम्भोपलम्भात् करणकायविवृद्धेश्च । यथोक्तम् - अन्नं वै प्राणाः, अन्नमयो ह्ययं पुरुषः, पुरि शयनात् पुरुषः [ ], नाज्ञस्यैतत् सर्वं घटतेऽतिरोहति भृशं रोहतीति ।
किश्चान्यत् , अत एवेत्यादि । एतस्मादेव कारणात् सर्वत्वसिद्धिस्तस्य तत्त्वज्ञानस्वरूपस्य, तया च 15 पुनः सर्वत्वसम्प्रसिद्ध्या आत्माद्याख्यता । सततमतति गच्छति जानीते परिणमतीति चात्मा । सतो
भावः सत्त्वम् , स एव सन् भवति चेत्यर्थः । भूतस्तथा सदा भवतीति वा । पुरि शयनात् पुरुषः शरीरे जगति वा स्वविजृम्भितविकल्पात्मके। पूरणाद् गलनाच्च पुद्गलः पुमांसं गिलतीति वा पुद्गलः, जीवशरीरतया विभज्य भोक्तेभोग्यभावाद् वृद्धिहानिभ्यामुत्पत्तिविनाशाभ्यां पूरणगलनाभ्यामित्यर्थः । जायते तैस्तैर्भावैरिति जन्तुः । पञ्चेन्द्रियमनोवाकायबलायुरुच्छासनिःश्वासाख्यदशप्राणधारणात् प्राणी जीव इति चोच्यते 20 इत्येवमाद्यभिख्याः सर्वत्वे सति घटन्ते तेन तेन धर्मेण व्यपदेशाविरोधात् । मृदनुत्तीर्णघटपिठरादिवत् ,
यथा मृदोऽनुत्तीर्णा घटपिठरादयो भवन्ति सन्ति वर्तन्त इत्यादिभ्यो भ्वस्त्याद्यर्थेभ्यो नोत्तरन्ति भवनानुत्तरात् सर्वधातूनां च भ्वाद्यर्थत्वादेवं ज्ञानस्वरूपः कर्ता भवति अस्ति वर्तते ज्ञानस्वरूपभवनानुत्तरात् । ..अत आह - भ्वस्त्यर्थादिभ्यः सर्वस्यानुत्तरात्, अस्तिभवतिविद्यतिपद्यतिवर्ततयः सन्निपातषष्ठाः
सत्तार्थाः, भ्वादयश्च सर्वधातवस्तदर्थं नातिवर्तन्त इति यावदेव किञ्चिदुत्पद्यते विनश्यति व्यवस्थितं वा 25 तस्य सर्वस्यासावात्मा स्वरूपं तत्त्वमित्यर्थ इति पर्यायैः स्वरूपोपनयः ।
स्यान्मतम् - स्वात्मनि वृत्तिविरोधात् कथमात्मनात्मानं सृजत्युपसंहरति च बध्यते मुच्यते च ? न. यैङ्गुल्यग्रमङ्गुल्यग्रं स्पृशति नासिरात्मानं छिनत्तीति, एतच्चायुक्तम् , शक्तिभेदात् कारकभेदोपपत्तेः, तन्त्र। १ दृश्यतां पृ० ४ टि० २ ॥ २ वरं भा० ॥ ३ शोविपरिवर्त्तत्वात् भा० ॥ ४ योपष्ट य० ॥ ५ “अन्नं वै चन्द्रमाः, अन्नं प्राणाः, उभयमेवोपैत्यजामित्वाय” इति तैत्तिरीयब्राह्मणे ३।२।३।१९॥ ६ नान्यस्यै भा०॥ ७ द्याख्याता प्र० ॥ ८°मति चात्मा य० ॥ ९ भोज्यभावाद् २० ही० विना ॥ १०°त्तारात् प्र०॥ ११ दृश्यतां पृ० ३४ पं० २०॥ १२ पनय भा० । पनय य० । १३ ांगुल्यग्रं स्पृशति पा० भा० २० ही० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org