________________
देशकालभेदे भवनाभावदोषाभिधानम् ] द्वादशारं नयचक्रम्
१८९ तथास्मदुपवर्णनवदेवाभिहितं भवति । ज्ञानस्यापि त्वभावाभ्युपगमे रूपाद्यपलापबीजनिरूपणादिनिर्मूलत्वात् प्रत्यक्षादिविरोधाः।
___ अत एवोक्तवत् सर्वत्र सन्निपत्यारादूरादुपकारित्वेभ्य आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्तिर्भवति । अन्वाह च
पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [ शुक्लयजु० सं० ३१।२]
10
नान्यत्किश्चिदिति व्यवस्थाप्यते । यथा तु तद् व्यवस्थाप्यते तथास्मदुक्तवदुपवर्णितमभिन्नमेकं विज्ञान-१३८-१ मित्युक्तं भवति, ततश्च रूपरसादिघटपटादिविश्वभेदात्मकत्वात् तस्य, रूपादिपरस्परविविक्तत्वे तु तद्विज्ञानान्वयाभावाद् रूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञानमात्रता न भवति ।
अथ कश्चिद् ब्रूयात् – तदपि 'विज्ञानमसत् सर्वभावशून्यत्वादिति, एतच्चायुक्तम् , ज्ञानस्यापि त्वभावाभ्युपगमे रूपाद्यपलापबीजनिरूपणादिनिर्मूलत्वात् प्रत्यक्षादिविरोधाः, रूपादयो न सन्तीति यदपलापबीजं निरूपणं तदपि नास्तीति रूपादिप्रतिषेधो न सिध्यति, प्रत्यक्षतश्च स्वानुभवेन रूपस्य निरूपणमुपलभ्यते प्रतिस्वम् , आदिग्रहणादास्वादनघ्राणस्पर्शनश्रवणानुभवा उपलभ्यन्ते, अतः प्रत्यक्षविरोधः । तदनुस्मरणदर्शनादनुमानविरोध आदिग्रहणात् , अनुस्मरणं हि स्वयमनुभूतस्यार्थस्य नाननुभूतस्य । तस्माद-15 वश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्तमानोऽवस्थितः कारणमिति सिद्धम् ।
अत एवोक्तवदित्यादि । एतस्मादेव आत्मव्याप्तिविपरिवृत्तिव्यवस्थितत्वाद्धेतोरुक्तेन तुल्यमुक्तवद् रूपादीनां तत्त्वाद् रूपणात्मकत्वाज्ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् सर्वत्र सर्वभावेषु एष विशेषस्तस्यैव कारणपदार्थस्योपकारविशेषेभ्योऽपरो द्रष्टव्यः - सन्निपत्योपकारिणी बुद्धिरात्मनः साक्षादव्यवहिता भावानां १४२.२ स्वपरिवर्तविशेषाणामुपभोगे, भोक्ता तु स्वयमेव स्वपरयोः । आरादिन्द्रियाणि करणत्यत् दूरात् प्रकाशाद-20 योऽनुग्राहका इन्द्रियाणां दवीयांसो रूपादयो दविष्ठा घटादय औषधव्यञ्जनादीनि इन्द्रियाणां पाटवजननादुपकार्युपकारित्वेन तदुपोद्वलकराश्चाहाराः सर्वभावगतासु ज्ञानवृत्तिष्वित्यत आह - सर्वत्र सन्निपत्यारादूरादुपकारित्वेभ्यो हेतुभ्य आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्तिर्भवतीति । ____ अन्वाह चेति ज्ञापकम् , एतस्मिन्नर्थे पूर्वोक्तमेव जैनैर्वक्ष्यमाणज्ञापकार्थम् ‘एकोऽप्यहमनेकोऽप्यहम्' [भगेवतीसू० १८।१०।६४७ ] इत्यादिकम् , अतोऽपि लौकिकस्तदनुसारेणाह न स्वमहिम्नेति । पुरुष एवेद-25 • मित्यादि, एवेत्यवधारणे, भवितुरन्यस्याभावादुक्तवत् तस्यैव च भवनात् । इदमिति दृश्यस्पृश्यादि इन्द्रिय
१ विज्ञानसत् य०॥ २°स्थितत्वा(त्व?)हेतो प्र० ॥ ३ औषधाव्य(न्य?)अनादीनि प्र०॥ ४ अत्राह य० ॥ ५“एगे भवं दुवे भवं अक्खए भवं अव्बए भवं अवट्ठिए भवं अणेगभूयभावभविए भवं ! सोमिला | एगे वि अहं जाव अणेगभूयभावभविए वि अहं" इति भगवतीसूत्रे पाठः १८११०१६४७ । “एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवढिए भवं अणेगभूयभावभविए वि भवं? सुया ! एगे वि अहं दुवेवि अहं जाव अणेगभूयभावभविए वि अहं" इति ज्ञाताधर्मकथासूत्रे पञ्चमाध्ययने पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org