________________
१८८
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे - देशभेदप्रत्ययेन तावद् ग्रीवादिभेदभावे घटभवनं न । श्वेतिकायेकदेशभावे न मृत् । अश्मादिभेदान्न पृथिवी । पृथिव्यादिभेदान्न द्रव्यं गुणकर्मभेदादा । द्रव्यादिभेदान्नैकं सत्त्वम् । कालभेदप्रत्ययेनापि प्रतिक्षणमव्यपदेश्यभवनात् कतरद् घट
भवनम् , मृद्भूतवीह्याद्यम्ब्वादिकालभिन्नभावभेदे मृदभावात् परतोऽपि कपालादि5पांशुव्रीह्यादिभूतेः। घटादिसर्वात्मकस्यैकस्य सत्त्वस्याभावात् प्रत्येकत्वस्य चेतरेतरासत्त्वात्मकत्वात् कुतो भवनं भवितुर्घटादेः?
यथा तु रूपादिभेदेन सर्वभेदपर्यन्तं भेदं विधाय विज्ञानमात्रमेव व्यवस्थाप्यते
तत् कथम् ? देशभेदप्रत्ययेन तावदित्यादि, ग्रीवापृष्ठकुक्षिबुनौष्ठादीनां देशभिन्नानां कपालशकलादीनां च यावत् परमाणुशो रूपादिशो निरुपाख्यत्वशश्च भेदभावे घटभवनं न, सिध्यतीति 10 वर्तते । एवं न श्वेतिकापीतिकाद्येकदेशभावे मृत् । अश्मादिभेदान्न पृथिवी । पृथिव्यप्तेजोवाय्यादिभेदान्न द्रव्यं गुणकर्मभेदाद्वेति, तदेव हि द्रव्यं रूपगमनादिगुणकर्मभेदाद् यावन्निरुपाख्यत्वभेदात् समुदायाभावाञ्चासम्बन्धान्न द्रव्यम् । द्रव्यादिभेदाद् द्रव्यगुणकर्मनानात्वाद् नैकं सत्त्वम् । एवं तावद् देशभेदे घटभवनं न स्यात् , द्रव्यादीनामनुपपत्तेः।
____ कालभेदप्रत्ययेनापि प्रतिक्षणमव्यपदेश्यभवनात् कतरद् घटभवनं क्षणे क्षणेऽयन्तमसम्बद्धा15 यःशलाकाकल्परूपाद्यात्मकत्वानुपपत्तेः ? किं कारणम् ? मृद्भूतबीह्याद्यम्ब्वादिकालभिन्नभावभेदे मृद१३७२ भावात् , अस्मन्मतेन मृद्भूतो व्रीह्यादिरम्ब्वादिश्चैक एव कालान्तरावस्थाने सति तत्परिणामोपपत्तेः, त्वन्म
तेन तु कालभिन्नभावभेदे क्षणे [क्षणे ] नवनवार्थासम्बन्धादू भावभेदे ब्रीहिरेव विनष्टो मृन्न भवति, न चोदकादि विनष्टं मृद् भवतीति निर्बीजत्वान्मृदभावः । मृदभावाच्च को घटः ? भवनं वा किं स्यात् ?
अस्माकं तु सामान्यान्वयाद् व्रीह्यादय उदकादय एव वा मृद् भवति घटो भवतीत्यादि युज्यते, परतोऽपि 20 कपालादिपांशुव्रीह्यादिभूतेः, घटभवनात् परतोऽपि घट एव कपालादि भवति, कपालादेरपि परतो यावच्छर्कराभवनात्, पाँश्वादेरपि परतो बीयाँदेर्भवनात् । तस्माद् घटादि सर्वात्मकमेव भवति । न चेदेतदिष्यत एवम्प्रकारकं भवनं तत एवं घटादिसर्वात्मकस्यैकस्य देशकालव्यापिनः सत्त्वस्याभावात् त्वन्मतेनैव प्रत्येकत्वस्य चेष्टस्य त्वया इतरेतरासत्त्वात्मकत्वात् कुतो भवनं भवितुघंटादेः ? घटः पटात्मना नास्ति पटोऽपि घटात्मनेति देशतः कालतश्च प्राक् पश्चाद्वा [ न ] स एवेति न पटोऽस्ति न घट 25 इति प्रत्येकं भिन्नत्वे भावानामभावात् को घटः ? किं वा भवनम् ?
यथा तु रूपादीत्यादि यावदस्मदुपवर्णनवदेवाभिहितं भवति । यैश्च वर्ण्यते विज्ञानमात्रत्वं देशभेदाद् घटो भिद्यमानो रूपादिभेदेन भिद्यते यावद् निरुपाख्यशः कालभेदेन च भिद्यमानः परमनिरुद्धक्षणोत्पत्तिविनाशनिरुपाख्यशो भिद्यत इति तैः सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेव
१ चसंबंधाद्रव्यम् प्र० ॥ २ वोदकादि भा० ॥ ३ पांवा भा० ॥ ४ व्रीह्यादिर्भ(भ?)वनात् भा० ॥ ५ चेष्टस्य य० प्रतिषु नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org