________________
१८७
स्वतन्त्रस्याप्यात्मनो बन्धप्रतिपादनम्], द्वादशारं नयचक्रम् चैतन्य कार्यात्मत्वाद् मृद्धटकपालशकलशर्कराधूलिपांशुत्रुटिपरमाणुरूपादिपरमाप्रवादिद्रव्यादित्वविपरिवर्तानन्त्यवत् । ____नन्वेवमनाद्यनन्तत्वे सति अविवेके चैतन्यरूपादिमत्त्वयोस्तुल्ये किमर्थं ज्ञानात्मकमित्युच्यते, किं रूपादिमदात्मकमिति नोच्यते सर्वम् ? नैवं परिग्रहेऽपि कश्चिदोषः, अस्यैवार्थस्य सिसाधयिषितत्वात् । तथाहि-ज्ञस्यैव भवनस्योपपत्तेस्तदन्वयाच देशकालाभ्यां भवनं सिध्यति । तद्भिन्नपदार्थपरिग्रहे तु घटभवनं न सिध्यति ।
शरीरात्मकत्वगत्या तदात्मत्वात् । एतत् प्रक्रिययैव प्रतिपादितमपि सुखग्रहणार्थं प्रतिज्ञायते - अनाद्यनन्तशः १३६-२ सूक्ष्मस्थूलशरीरादिरूपादिमत्त्वं प्रतिपद्यते चैतन्यमिति । कुतः ? कार्यात्मत्वात् , कार्यात्मत्वं च तस्य सिद्धं रूपादिपृथिव्यादिभेदरूपेण विपरिवृत्तेः साधितत्वात् , इह त्वनाद्यनन्तशः सेति साध्यते, यो यः कार्यात्मा स सोऽनाद्यनन्तशो विपरिवर्तमानो दृश्यते, तद्यथा मृद्घटेत्यादि, द्रव्यं मृद् भवति, मृद् घटो 10 भवति, घटः कपालानि, ततः क्रमेण शकल-शर्करा-धूलि-पांशु-त्रुटि-परमाणवः, ततो रूपादयः, रूपादिभ्यः पुनरुत्क्रमेण परमाण्वादयो यावद्व्यादित्वविपरिवर्तानन्त्यम् । 'आदि'ग्रहणाद् गुणकर्मसत्तादित्वेन विपरिवर्तवत् । एवंप्रकारस्य भवनस्य स्वजात्यपरित्यागरूपस्य देशकालभेदैकान्ताभ्युपगमेऽनन्तरं र्वेक्ष्यमाणदोषत्वान्नान्यथैतदिति प्रतिपत्तव्यम् । - अत्राह - नन्वेवमित्यादि । नन्वेवमनादित्वात् कुकुट्यण्डकयोरिवानन्तत्वाच्च कुत्सिता कुटिः कुक्कुटि-15 रित्यर्थे कुकुटिशब्दस्य शरीरार्थव्याख्यानाच्च मुक्तस्यापि रूपाद्यर्थज्ञानपरिणामादविवेके चैतन्यरूपादि- । मत्त्वयोस्तुल्ये किमर्थ ज्ञानात्मकमित्युच्यते, किं वा कारणं रूपादिमदात्मकमिति नोच्यते सर्वम् ? विशेषहेतुर्वा वाच्य इति तद्दर्शयन्नाह परः - नन्वेवमनाद्यनन्तत्वे सतीति गतार्थम् । आचार्य आह-नैवं परिग्रहेऽपि कश्चिद्दोषः, किं कारणम् ? अस्यैवार्थस्य सिसाधयिषितत्वाच्चतुरवस्थात्मकत्वात तस्य, तत एव रूपादिद्रव्येन्द्रियपृथिव्यादिरूपः स एवोच्यते, तथा च सृष्टेः पूर्वमुक्तत्वात् । . 20
आह - चेतनाचेतनयोरैक्यापादनप्रस्तुतेः 'ज्ञः पुरुषः, तन्मयं चेदम् , स एव स्वतत्रो भवति' इति १३७-१ च' विशेष्य ज्ञग्रहणं स्वतन्त्रग्रहणं च किमर्थमिति । आचार्य आह - तथाहीत्यादि, भावयिष्यते । भवतीति भाव इत्युक्तम् , भावस्वरूपप्रदर्शनार्थं तु यो भवति स वाच्य इति ज्ञग्रहणम् , तदपि तथाहीत्यादिना च एवं च कृत्वा यत् प्रागुक्तं 'देशकालभेदे भवनाभावदोषो वक्ष्यमाणः' इति तत्परिहारेण ज्ञस्यैव भवनस्योपपत्तेस्तदन्वयाच्च सर्वदेशकाला मसान्निध्याद् देशकालाभ्यां भवनं सिध्यति, 25 तथा हि वस्तु भवतीति शक्यं वक्तुम् । तद्भिन्नेत्यादि, देशकालभिन्नपृथिव्यादिभेदभूतपदार्थपरिग्रहे तु अन्यथा तु घटभवनं यदेतत् प्रत्यक्षसम्प्रसिद्धं तदपि न सिध्यति ।
१रात्मगत्या भा० ॥ २'त्मत्वा प्र० ॥ ३°तुर्टि भा०॥ ४ दृश्यतां पृ० १८८ पं० १॥ ५ नन्विद(त्य?)मनादित्वात् प्र०॥ ६ (भाव इष्यते,)?॥ ७ दृश्यतां पं० १४ ॥ ८°भेदभवनाभावदोषे य० ॥ ९त्मस्यन्निव्याद् भा० । 'त्मस्यन्निद्याद् य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org