________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् ... [द्वितीये विधिविध्यरे भावात् तद्देशत्वाच घटखतत्त्वप्रत्यग्रादित्ववत् ।। . चैतन्यादात्मा पृथिव्यादिसुषुप्तावस्थाया विपर्ययेण वृत्तो रागाधुपयुक्त उपयोगस्वातन्त्र्येण बद्ध्वात्मनात्मानमवतन्त्रीकरोति, कर्मबन्धेन रूपादिमत्त्वमनाद्यनन्तश आपद्यते । अनाद्यनन्तशः सूक्ष्मस्थूलशरीरादिरूपादिमत्त्वं प्रतिपद्यते
5 यथा रूपादय एव पृथिव्यादयः पृथिव्यादय एव रूपादयः, तेऽन्योन्यैर्विना न भूतत्वादन्योन्यात्मकास्तथा पुरुष एव काष्ठाद्यपि । किश्चान्यत् , तद्वयतिरेकेणाभावात् , यद्धि यद्यतिरेकेण न भवति तदेव तत् , यथा घटस्वतत्त्वप्रत्यग्रादित्वम् । तद्देशत्वाच्च , तस्य देशस्तद्देशः, तत्पुरुषस्यैव देशोऽवयवः स्वात्मा रथ्यापुरुषपाण्यादिवत् , तद्देशत्वं सृष्टेस्तत्पूर्वकत्वादिति हेतुः । यो यद्देशः स तत्स्वतत्त्व एव, किमिव ? घंटस्वतत्त्वप्रत्यग्रादित्ववत् , यथा घटस्य प्रत्यग्रयुवमध्यमपुराणता च घटस्वतत्त्वमेव तथा पृथिव्याद्य 10चेतनमपि चेतनपुरुषस्वतत्त्वमेव । यदुक्तमचिन्त्यप्रभावामूर्तसूक्ष्माज्ञकारणरूपादिमूर्तस्थूलविपरिवर्तवत् पुरुषविपरिवर्तमात्रं पृथिव्यादीति युक्त्योपपादितम् ।
तत्रैव पुनः संसारसिद्धयै युक्त्योपपादनार्थं प्रस्तूयते - चैतन्यादात्मेत्यादि यावद् विपरिवर्ता१३६- नन्त्यवत् । चेतनभावश्चैतन्यम् , तस्माच्चैतन्यादात्मा पृथिव्यादिसुषुप्तावस्थाया विपर्ययेण वृत्तस्तत
ईषद्विशुद्धावस्थ इत्यर्थः, चैतन्यस्य रागादिविपरिणामाद् रागादेर्बन्धकारणत्वात् तदुपयुक्त उपयोगस्वा15 तन्त्र्येण, उपयोगो हि चेतना, तस्य स्वातन्त्र्यं कर्तृत्वात् , मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्ध
हेतवः [तत्त्वार्थ० ८.१] इति वचनाद् रागाद्यात्मककषायविकल्पात्मकत्वान्मिथ्यादर्शनादीनां तेन स्वातन्त्र्येण बद्धवात्मनात्मानमस्वतन्त्रीकरोति, तेनैव च स्वयं कृतेन बन्धेन अस्वतन्त्रीक्रियते मद्येनेव स्वयं पीतेन मद्यपः, स्वयं पूरितवेगया डोलयेव वा पुरुषो भ्रम्यते कर्मडोलया, कर्मबन्धेन रूपादिमत्त्वमनाद्यनन्तश
आपद्यते । एवमेतदुभयं सन्तत्याऽनाद्यनन्तं च द्रव्यार्थतया, यथोक्तम् – पुच्विं भंते ! कुक्कुडी पच्छा 20 अंडए ? पुवि अंडए पच्छा कुक्कुडी? रोहा! जा सा कुक्कुडी सा कतो? अंडगातो। जे से अंडए से कतो? कुक्कुडीतो । एवं रोहा ! पुवि पि एते पच्छा वि एते, दो वि एते सासता भावा, अणाणुपुब्बी एसा रोहत्ति' [भगवतीसू० १।६।५३] । तथा सव्वजीवा णं भंते ! एकमेकस्स मातत्ताए "पितित्ताए भातित्ताए भजत्ताए पुत्तत्ताए धीतित्ताए ? गोतमा ! असति अदुवा अणंतखुत्तो [भगवतीसू० १२।७।४५८]
इत्यादि । तच्च द्विविधं रूपादि - सूक्ष्मं स्थूलं च । कर्मादि सूक्ष्मम् , आदिग्रहणादुच्छासनिःश्वास25 भाषामनस्त्वादिकार्मणतैजसाहारकशरीरादि च तदात्मत्वगत्या । स्थूलं पृथिव्यादि औदारिकवैक्रिय
१ घटवस्वतत्वप्रत्ययादि प्र०॥ २ मध्यपुरा य० ॥ ३ पुरुषत्वमेव प्र०॥ ४ दृश्यतां पृ० १७६ पं० ३ ॥ ५ सूक्ष्मज्ञ प्र० ॥ ६ कुतो प्र० । “पुचि भंते ! अंडए पच्छा कुक्कुडी ? पुवि कुक्कुडी पच्छा अंडए ? रोहा ! से गं अंडए कओ? भयवं| कुक्कुडीओ । सा णं कुक्कुडी कओ? भंते ! अंडयाओ। एवामेव रोहा! से य अंडए सा य कुक्कुडी पुग्वि पेते, पच्छा पेते, दुवेते सासया भावा, अणाणुपुव्वी एसा रोहा" इति भगवतीसूत्रे पाठः॥ ७ कुतो कुक्कुडीओ य०॥ ८ सासया य० ॥ ९ दृश्यतां पृ० ४ टि० २॥१०पितत्ताए भा०॥ ११ असई भा०॥ १२ “अयं णं भंते ! जीवे सव्वजीवाणं माइत्ताए पितित्ताए भाइत्ताए भगिणित्ताए भजात्ताए पुत्तत्ताए धूयत्ताए सुण्हताए उववण्णपुवे? हंता गोयमा ! जाव अर्णतखुत्तो" इति भगवतीसूत्रे पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org