________________
करणात्मनः कार्यात्मनश्च व्याख्यानम् ] द्वादशारं नयचक्रम्
यथा चैतत् तथानध्यवसायमपि द्रव्येन्द्रियपृथिव्यादि कार्यात्मा ज्ञानमेव, सुषुप्तावस्थात्मकत्वात् , हालाहलानुविद्धमदिरापानापादितनिद्राप्रसुप्तवदनध्यवसायवत् । योऽसौ पुरुषस्तदेव तत्, तेनात्मत्वेन परिणमितत्वात् तदव्यत्वाद् भूम्यबादिव्रीहित्ववत्, तत्कार्यत्वात् पटतन्तुवत् , तेन विनाऽभूतत्वात् तद्व्यतिरेकेणा
मेवानध्यवसायः । अथवा सुप्तवत् , यथा हि सुप्त उच्छासनिःश्वासादिक्रियासु अव्यक्तं चेतयमानोऽपि । ज्ञातैवमनध्यवसायोऽपि करणात्मैव व्यक्ततरः स्वापः विशिष्टस्वाप इत्यर्थः । एवं करणात्मा व्याख्यातः। ..
इदानीं कार्यात्मा व्याख्यायते - यथा चैतदित्यादि । यथा चैतदनन्तरव्याख्यातमनध्यवसायविपर्ययसंशयावितथप्रत्यक्षादि ज्ञानं चैतन्यं तथानध्यवसायमपगताध्यवसायमनध्यवसायमचेतनामिमतं द्रव्येन्द्रियपृथिव्यादि कार्यात्मा आत्मा, आत्मनैवात्मत्वेन परिणमितत्वादित्यादयो हेतवो वॆक्ष्यन्ते । सा १३५-१ च सुप्तावस्था द्रव्येन्द्रियम्, निवृत्त्युपकरणद्रव्येन्द्रिये व्याख्याते प्राक् , ते च पुरुषेणात्मत्वेन परिणमिते । 10 भावेन्द्रियं त्वात्मैव लब्धियुक्त उपयुक्तो वा । पृथिव्यादि च विपरिवर्तमानात्मत्वपरिणामापन्नमेव, पृथिव्य
जोवायुवनस्पतिद्वीन्द्रियादि तत् कार्यात्मा सुषुप्तावस्था, तदपि ज्ञानात्मकमेव सुषुप्तावस्थात्मकत्वात् , हालाहलानुविद्धमदिरापानापादितनिद्राप्रसुप्तवत् , यथा हालाहलेविषेण सद्योमारकेणानुविद्धां मदिरां.. पीत्वा तदापादिताया निद्राया वशमुपगम्य सुषुप्तश्चेतन एव सन्न किञ्चित् चेतयते पुरुषस्तथा द्रव्येन्द्रियपृथिव्यादि कार्यात्मा । अथवा अनध्यवसायवत् , यथा जागरादिपूर्वव्याख्यातावस्थाभ्यो विशिष्टा 15 सुप्तावस्थानध्यवसायाख्या ज्ञानमेव तद्वत् कार्यात्मावस्था द्रव्येन्द्रियपृथिव्यादि ज्ञानमेव । यथा निद्रानिद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानर्द्धिवेदनीयानामुत्तरोत्तरोत्कर्षभेदाँदावृतज्ञानशक्तराचैतन्यविशेषस्तदावरणापगमविशेषापादितचैतन्यविशु त्कर्षपर्यन्तप्राप्तसार्वज्यवद्वा चैतन्यावरणप्रकर्षपर्यन्तप्राप्तं पृथिव्यादि ज्ञानमेव । कर्मणश्चाष्टविधस्य सप्रभेदस्य पुरुषपरिणामैक्यापत्तेर्ज्ञानात्मत्वमिति चैतन्यमेव पृथिव्यादेः । ___अत आह -योऽसौ पुरुषस्तदेव तद् द्रव्येन्द्रियपृथिव्यादि, तेनात्मत्वेन परिणमितत्वात् ।20 को वात्र भेदः परिणामकपरिणम्ययोः ? इत्याह -तद्रव्यत्वात् , स एव द्रव्यं तद्रव्यं सप्रभेदं कर्म, तस्मात् तद्र्व्यत्वात् । म्यबादिव्रीहित्ववत् , यथा भूम्यम्ब्वाद्येव व्रीहि/हित्वेन परिणतत्वात् तद्रव्यत्वाद् व्रीहिभूम्यादिरेव भूम्यादिभिरेवात्मत्वेन परिणमितत्वाद् व्रीहिर्भूम्यादिरेव तथा पृथिव्यादि पुरुष एव चेतनात्मकः । इतश्च योऽसौ पुरुषस्तदेव तत् तत्कार्यत्वात् , यद् यस्य कार्यं तदेव तत् पटतन्तुवत् , यथा तन्तूनां कार्यत्वात् पटस्तन्तुरेव तथा पुरुष एव पृथिव्यादि, पुरुषपूर्वकत्वप्रतिपादनस्य कृतत्वात् । 25 इतश्च तेन विनाऽभूतत्वात् , तदेव तत् तेन विनाऽभूतत्वात् , यद् येन विना न भवति तदेव तत् ,
१ अत्र निद्रासुषुप्तवत् इत्यपि पाठः स्यात् ॥ २ सायेपि प्र० ॥ ३°सायचेतना प्र० ॥ ४ दृश्यता पृ० १८५ पं० ३ ॥ ५°विशेषण वि० विना । विशेषेण वि०॥ ६ यथा निद्रानिद्राप्रचलाप्रचलास्त्यानद्धि प्र० ॥ ७°भेदावृत य० ॥ ८ अत्र षस्तथावरणा इत्यपि पाठः स्यात् ॥ ९°सार्वज्ञवद्वा प्र०॥ १० भूम्यपादि प्र०॥ ११°घेव बहुव्रीहित्वेन परिप्र०॥ १२ यस्य न कार्य नदेव प्र०॥
नय० २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org