________________
१८४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वितीये विधिविध्यरे
चेतनात्मा सुप्तत्वाद् द्रव्यपुरुषवत् । तथानध्यवसायेोऽपि विशिष्टखापो ज्ञानमेव चेतनात्मकत्वाज्जागरितवत्, चेतनाचेतनात् संशयादिवत् सुप्तवत् ।
वस्था करणात्माख्या चेतनात्मा 'चेतना एवात्मा, तस्यैवार्थस्य जागरणात्मत्वात् । द्रव्यपुरुषवत्, द्रव्यपुरुषो भूतो भावी वा येथायं राजासीद् भविष्यति वेति 'राजैव' इत्युच्यते करचरणगतचक्रपद्माद्याकृतिरेखा दिलक्षणदर्शनात्, तदेव हि हि शरीरमनुभूतराज्यं भविष्यद्राज्यं वा राजा तथा करणात्मानः "स्वपन्तो जाग्रतो वा चेतनात्मैव । अनुपयुक्तो वा द्रव्यपुरुषः, तस्मिन् ज्ञेयेऽनुपयुक्तत्वात्, यथानुपयुक्त ओदनेऽनात्मत्वेन परिणमित आत्मस्वरूपज्ञानत्वेनापरिणमितो द्रव्यपुरुषो द्रव्यात्मैव तथा करणात्मा ज्ञानोपयोगरहितोऽपि चेतनात्मैवेति । एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाच्च तस्य करणात्मावस्थानुपपत्तिरिति चेत्, नेत्युच्यते, चैतन्यस्य सर्वात्मकतायामपि सनिद्रग्रहणात् सुप्तोत्थितस्य सावशेषनिर्द्रस्येव 10 यज्ज्ञानं सा जागरावस्था करणात्मा, व्यपगतनिद्रस्येव सर्वज्ञावस्था, इत्यनयो: करणात्मपरमात्मावस्थयोविशेषः । स्यान्मतम् - अर्थस्वरूपग्रहणात् करणात्मावस्थायाः परमात्मात्यन्तवैरूप्यमिति, एतच्चायुक्तम्, कस्मात् ? अर्थस्य च तथा तथा तत्त्वाज्ज्ञानमेव, स ह्यर्थः पुरुषसृष्टेरनेकरूपतायाः प्रतिपादितत्वादेकात्मविपरिवर्तोऽप्यनेकरूप एव तेन तेन प्रकारेण तस्य भवनात् तथा तथा तत्त्वात्, तदपि करणज्ञानं ज्ञानमेव करणमपि ज्ञानमेव वा ज्ञानविपरिवर्तत्वात् । एवं तावज्जाग्रदवस्था करणात्मा ज्ञानमेव ।
5
१३४-१
15
1
यथा चेदं ज्ञानं तथा जाग्रदवस्थाशेषः सुप्तावस्थाप्रारम्भमात्रं सुप्तावस्था, सांपि ज्ञानमेव संशयादि ईषत्सुप्तता, अयमपि करणात्मा संशयादि ज्ञानम्, आदिग्रहणाद् विपर्ययानध्या सुप्तावस्थापि सतीषत्सुप्तता ज्ञानमेव पूर्ववदेव सर्वात्मकतायां वस्तुनस्तथा तथा तत्त्वात् । स्थाणुः १३४-२ स्यात् पुरुषः स्यात् ? इत्यूर्ध्वता सामान्यस्य वरतुत्वात्, यदि स्थाणुर्वयोनिलयनादिविशेषात् यदि उत्थायोपविष्टत्वकरचरणचैलनादिविशेषात् पुरुष इत्युभयथापि तस्य वस्तुनस्तथा तथा तत्त्वात् स्थाणुत्व पुरुषत्वा20 भ्याम् । तथा विपर्ययोऽपि ज्ञानमेव तथा तथा तत्त्वादर्थस्य स्थाणुपुरुषत्वाभ्यां विपर्ययेण चेति सैव व्याख्यात्रापि, साधनम् – चेतनात्मा सुप्तत्वाद् द्रव्यपुरुषवत् पूर्ववदेव व्याख्या सुप्तत्वं जाग्रत्त्रं वा चेतनस्यैव भवति नाचेतनस्य कस्यचित् । यथा चैतज्ज्ञानं तथानध्यवसायोऽपि न अध्यवसायोऽनध्यवसायोऽनभिव्यक्तबोधः, सोऽपि संशयविपर्ययाभ्यां विशिष्यमाणः स्वापः सुप्तत्वाज्ज्ञानमेव, चेतनात्मकत्वाज्जागरितवत् यथा जागरितावस्था ज्ञानमेव चेतनात्मकत्वात् तथानध्यवसायोऽपि । चेतना25 चेतनात्, यस्मात् तदेव चेतनमचेतनं च तस्यैव "बह्वचेतनत्वादल्पचेतनत्वाच्चेतनं च तदचेतनं चेति विग्रहाच्चेतनाया एवाचेतनाद्वा, संशयादिवत्, 'आदि' ग्रहणोद्विपर्ययनिर्णय गृह्येते तद्वच्चेतनाचेतनाज्ञान
"
3
१ चेतनाः एवात्मा चेतनैवात्मा भा० ॥ य० ॥ ५ युक्त उदनो (उन्दने ? ) नात्मत्वेन भा० । ७द्रस्यैव ८ मात्मंतवै य० ॥ १० वलनादि भा० डे० लीं० रं० ही ० ॥
प्र० ॥
Jain Education International
२ यथा राजा य० ॥ ३ त्मनः य० ॥ ४ चेन्नात्मैव युक्त पुदनोनात्मत्वेन य० ॥ ६°स्यैव रं० ही ० ॥ ९ सोपि प्र० । अस्मिंस्तु पाठे खारस्ये 'सोऽपि करणात्मा' इत्यर्थो ज्ञेयः ॥ ११ बहूचेतन भा० । बहुचेतन य० ॥ १२ णात् पर्यय प्र० ॥
For Private & Personal Use Only
www.jainelibrary.org