________________
जाग्रत्सुप्तसुषुप्ततुरीयावस्थानिरूपणम् ] द्वादशारं नयचक्रम्
महामोहनिद्राक्षयोपशमशक्त्या निर्वृत्त्युपकरणेन्द्रियप्रत्ययं चैतन्यं प्रत्यक्षादिप्रत्यवेक्षणात्मकत्वाजाग्रदवस्था करणात्मा चेतनात्मा द्रव्यपुरुषवत्, अर्थस्य च तथा तथा तत्त्वाज्ज्ञानमेव । तथा सुप्तावस्थापि ज्ञानमेव संशयादि ईषत्सुप्तता वस्तुनस्तथा तथा तत्त्वात् । तथा विपर्ययोऽपि ज्ञानमेव तथा तथा तत्त्वात् ,
स्त्यानद्धर्युदयसद्भावाद्विशेषेण स्वापः, अविशेषेण तु सर्वप्राणिनां समोहानां मिथ्यादृष्टयचारित्राणां स्वापात् , 5 यथोक्तम् - सुत्ता अमुणी संया, मुणिणो संया जागरंति [आचारागसू० १॥३॥] इति । तच्च तुरीयं कैवल्यं विगतावरणमोहविघ्नं रागद्वेषमोहप्रतीघातेभ्यो विविक्तता दर्शनं विशुद्ध प्रतिपूर्णमेकत्व मिति तत्पर्यायाः । किंरूपं तदिति चेत्, निद्रावियोग आत्यन्तिकः। तद्वयाख्यानम् - निद्रासम्बन्धिजायदाद्यवस्थाविलक्षणमात्मस्वतत्त्वम् , निद्रासम्बन्धिन्यस्तिस्रोऽवस्था जाग्रत्सुप्तसुषुप्ताख्याः, तत्तद्विलक्षणमात्मनः स्वं तत्त्वं शुद्धं चैतन्यम् । स एवानेन व्याख्याविकल्पेन परमात्मा विमुक्तः सर्वज्ञ एव व्याख्यातो 10 वेदितव्यः ।
करणात्मानं कार्यात्मानं च व्याख्यास्यामः, तत्र तावन्महामोहेत्यादि यावत् करणात्मा । दर्शन- १३३-२ चारित्रमोहोदये यस्मात् सुप्ता मिथ्यादृष्टयोऽचारित्राश्च प्राणिनस्तस्माद् महामोह एव निद्रा, तदुदये स्वापः, तत्क्षये विबोधः । यथोक्तम् -
यदा तु मनसि क्लान्ते बुद्ध्यात्मानः श्रमान्विताः।
विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ॥ [चरकसं० १।२१।३५] इति । तस्या निद्रायाः क्षयोपशमोऽनन्तानां पुरुषपरिणत्यापन्नाष्टादशविधतद्घातिकर्मणामुदितानां क्षयादनुदितानामुपशमाल्लब्धिशक्तिरुत्पद्यते तस्मिन्नेव पुरुषे ज्ञानदर्श वीर्यविकल्या, तया घातिकर्मक्षयोपशमशक्त्या निर्वर्तितानि कृष्णसारशबलपक्ष्मपुटाकारेण चक्षुः शेषेन्द्रियाणि च यथास्वमाकारैः, तान्येव चोपकतानि उपकरणत्वेन मसूरकक्षुरप्रातिमुक्तचन्द्रकयवनालिकानेकसंस्थानैः, ततस्तत्प्रत्ययं लब्धिजनितनिर्वृत्त्यु- 20 पकरणेन्द्रियप्रत्ययं चैतन्यमुपयोगो जायते, लब्ध्युपयोगी भावेन्द्रियम् [ तत्त्वार्थ० २।१८ ] इति वचनात् । तञ्च प्रत्यक्षादिप्रत्यवेक्षणात्मकत्वात् , 'आदि'ग्रहणादनुमानागमात्मकत्वाजाग्रदवस्था, सैव करणात्मा । सुप्तजाअवस्थयोश्चान्तरावस्था सुप्तजागरिका, तत्र स्वप्नदर्शनं भवति । यथोक्तम् - णो सुत्ते सुमिण पासति, सुत्तजागरियार वट्टमाणे सुमिणं पासति [भगवतीसू० १६॥ १५७७ ] । सा चापि जाग्रद
15
१सदा भा० ॥ २ कस्वमिति य० ॥३ एवान्येन प्र० ॥ ४ "कर्मात्मानः क्लमान्विताः" इति चरकसंहितायां पाठः॥ ५ नाष्टाविध भा० । नाष्टविध य० । “य उक्तः क्षायोपशमिको भावोऽष्टादश विकल्पस्तद्भेदनिरूपणार्थमाह ---ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥२॥५॥.."चत्वारि ज्ञानानि त्रीण्यज्ञानानि त्रीणि दर्शनानि पञ्च लब्धय इति । सर्वघातिस्पर्धकानामुदयक्षयात् तेषामेव सदुपशमाद् देशघातिस्पर्धकानामुदये क्षायोपश
को भवति" इति तत्त्वार्थाधिगमसूत्रस्य पूज्यपादाचार्यदेवनन्दिविरचितायां सर्वार्थसिद्धिवृत्तौ २१५॥ ६वीर्याविकल्प प्र० ॥ ७°त्यपेक्ष प्र० ॥ ८पासइ सुत्तजागरिआए य० ॥ ९ "सुत्ते ण भंते ! सुविणं पासति, जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति? गोयमा! नो सुत्ते सुविणं पासइ, नो जागरे सुविणं पासइ, सुत्तजागरे सुविणं पासइ' इति भगवतीसूत्रे पाठः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org