________________
१८२
न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वितीये विधिविध्यरे .. तस्य च चतस्रोऽवस्था जाग्रत्सुप्तसुषुप्ततुरीयान्वख्याः । ताश्च बहुधा व्यवतिष्ठन्ते । सुखदुःखमोहशुद्धयः सत्त्वरजस्तमोविमुक्त्याख्या ऊर्ध्वतिर्यगधोलोकाविभागाः संश्यसंज्यचेतनभावा वा। नियता एवैता विमुक्तिक्रमात्, सर्वज्ञता वा तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिको निद्रासम्बन्धिजाग्रदाद्य5 वस्थाविलक्षणमात्मखतत्त्वम् । स एव परमात्मा।
१३२-२ रूपादयः, ते हि परस्पराविनिर्भागवृत्तयः, तेषु रूपमात्रग्रहणं कथं यथार्थं प्रत्यक्षं स्यात् ? इति नास्ति प्रत्यक्षम् । तस्मात् स्थितमेतत् – सर्वं सर्वात्मकं ज्ञानस्वतत्त्वैककारणविजृम्भितमानं चेति ।
तस्यैवेदानी स्वरूपोपदर्शनार्थमुच्यते-तस्य च चतस्रोऽवस्थाः । तस्य अनन्तरप्रतिपादितचैतन्यतत्त्वस्य इमाश्चतस्रोऽवस्था जाग्रत्सुप्तसुषुप्ततुरीयान्वर्थाख्याः, जाग्रदवस्था सुप्तावस्था सुषुप्तावस्था तुरीया10वस्था, एताश्चान्धर्थाः । ताश्च बहुधा व्यवतिष्ठन्ते, चतुर्थीमवस्थां मुक्त्वा तिसृणामेकैकस्याः प्रतिप्रक्रियं संज्ञादिभेदाल्लोकव्यवहारभेदाच्चानेकभेदत्वात् । चतुर्थी पुनरेकैस्वरूपैव विशुद्धत्वात् , अथवा सापि स्वरूपसामर्थ्यात् सर्वात्मनैवानेकधा विपरिवर्तते, तद्यथा
जं जं जे जे भावे परिणमति पंयोगवीससादव्वं ।
__ तं तह जाणाति जिणो अपजवे जाणणा णत्थि ॥ [आव० नि० ७९४] 15 कास्ताः ? उच्यन्ते-सुख-दुःख-मोह-शुद्धयः सत्त्व रजस्-तमो-विमुक्त्याख्याः । कार्याणि चासो
यथासङ्ख्यं तिसृणां तद्यथा- प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्षप्रीतयो दुःखशोषतापभेदापस्तम्भोद्वेगापद्वेषा वरणसदनापध्वंसनवीभत्सदैन्यगौरवाणि । चतुर्थ्यास्तु शुद्धं चैतन्यं सकलस्वपरिवर्तप्रपञ्चसर्वभावावभासनम् । अथवा ऊर्ध्वतिर्यगधोलोकॉविभागा वा, यथासङ्ख्यमेव, ऊर्ध्वलोको जाग्रदवस्था, तिर्यग्लोकः सुप्तावस्था, सुषुप्तावस्था अधोलोकः, अविभागावस्था तुरीयावस्था । संश्यसंड्यचेतनभावा वा, संज्ञिनः 20 समनस्का देवमनुष्यनारकपञ्चेन्द्रियतिर्यञ्चो जाग्रति, सुप्ता असंज्ञिनः पृथिव्यवग्निवायुवनस्पतिद्वित्रि१३३-१ चतुरिन्द्रियामनस्कपञ्चेन्द्रियाः, काष्ठकुड्यादयः सुषुप्ताः, भवनमात्रं भावः सर्वत्राविभागा तुरीयावस्थेति ।
अंबाह - अविभागात्मनस्तस्यैवात्मनश्चतुरवस्थत्वात् कालभेदाभावाच्च चतस्रोऽपि प्रथमद्वितीयतृतीयतुरीयाख्याः स्युरिति, एतदयुक्तम् , यस्मानियता एवैता विमुक्तिक्रमात् , सर्वज्ञता वा तुरीयमिति, सुषुप्तावस्थायाः स्थिरीभूतचैतन्यायाः सुप्तावस्था विमुक्तमलत्वाद् द्वितीया मिथ्यादृष्टयादिका, तृतीया 25 सम्यग्दर्शनज्ञानचारित्रात्मिका मुक्तिप्रत्यासत्तेः, सर्वज्ञता चतुर्थी । तत् पुनस्तुरीयं निरावरणमोहविघ्नम् , निर्गता ज्ञानदर्शनावरणमोहविना अस्मिन्निति निरावरणमोहविघ्नम् , मोहस्यैव महास्वापत्वात् , एकेन्द्रियादिषु
१ तस्य चतस्रो य० ॥ २ रेकरूपैव भा०॥ ३ अथवापि स्वरूप प्र० ॥ ४ पओग य० ॥ ५ दृश्यतां पृ० १२ पं० १९॥ ६°लोकाअविभागा प्र० ॥ ७ संज्ञिअसंज्ञिअचेतनभावा प्र०॥ ८ अत्राह विभागा' य० ॥ ९ सुषुप्तावस्था प्र० ॥ १० त्वाद्वितीया २ य० । त्वाद्वितीयाद्वितीया भा० । अत्र 'विमुक्तमलत्वाद् द्वितीया, द्वितीया मिथ्यादृष्ट्यादिका' इत्यपि पाठः स्यात् ॥ ११ सर्वता य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org