________________
सर्वज्ञतासाधनम्] द्वादशारं नयचक्रम्
१८१ व्याकरणवत् पौरुषेयं सर्वस्य तदात्मकत्वात् तदवस्थामात्रत्वाद् वस्तुत्वादपि । इतरथा स नैव स्यात् ।।
ननु तस्यैवैकस्य वस्तुनोऽग्नित्वमनग्नित्वं च प्रत्यक्षादिविरुद्धम् । ननु प्रत्यक्षत एव ब्रीह्यादि एकं वस्तु एकस्मिन्नेव काले भूम्यबादि, सर्वात्मकत्वाद् व्रीहेः।
तत्काले तथाऽग्रहणादप्रत्यक्षतेति चेत्, सर्वाप्रत्यक्षता तर्हि सदापि । न हि: यद् यथा भवति तथेन्द्रियैर्गृह्यते, तुषकणादिरूपादिमात्रग्रहणवृत्तत्वाद् व्रीह्यादिचक्षुरादिप्रत्यक्षस्य यावद्रूपग्रहणवृत्तत्वाद्रूपादिप्रत्यक्षस्य ।
सोऽपि शब्दो न पुरुषप्रवृत्तिमन्तरेण भवितुं वक्तुं वाईतीति पुरुषस्वरूपस्यैव तस्य वचनं युज्यते नान्यथेत्यस्मिन्नर्थे कारणमाह - उक्तत्वाद् वचनत्वाद् व्याकरणवत् पौरुषेयमिति *सर्वस्य पुरुषात्मकत्वं दर्शयति । हेतु सौलेभ्यं च यावद् वस्तुत्वादपीत्यनेन दर्शयति* । सर्वस्य तदात्मकत्वात् तदवस्था-10 मात्रत्वादित्यादि सर्वो हेतुरस्मिन्नर्थे भवति । इतरथा स नैव वचनं स्याच्छब्दोऽपौरुषेयत्वात् खरविषाणयत् । किं वा वचनं न वचनमित्यनेन ? नैव वा स्यादपुरुषात्मकत्वाद् बन्ध्यापुत्रवत् ।
आह - नन्वित्यादि । यदुच्यते त्वया एकस्मिन्नेव काले तस्यैवैकस्य वस्तुनोऽग्नित्वमनग्नित्वं चेति [तत् ] प्रत्यक्षादिविरुद्धं सामस्त्येनाभावात् । आदिग्रहणादनुमानागमलोकव्यवहारविरुद्धमिति । आचार्य आह - ननु प्रत्यक्षत इत्यादि, सर्वप्रमाणज्येष्ठमूलप्रत्यक्षत एव व्रीह्यादि, 'आदि'ग्रहणादाम्रजम्बूफलादि 15 एकं वस्त्वेकस्मिन्नेव व्रीह्यवस्थानकाले भूम्यबादि, सर्वात्मकत्वाद् व्रीहेः । कतमोऽसौ व्रीहिः १३१-३ क्षित्युदेकबीजादिगतवर्णगन्धरसस्पर्शादिधर्मपरिणतिमन्तरेण ? इति भूम्यादेः परस्परधर्मापत्तेः सर्वात्मकत्वम् । सर्वात्मकत्वात् तन्मयस्य व्रीहेरप्यबादिवत् सर्वात्मकत्वम् । तस्मादबादिरेव व्रीहिस्तेन विनाऽभावात् तस्य तथा भवनात् व्रीहिस्वात्मवत् । तस्मान्नास्ति प्रत्यक्षादिविरोधः ।
तत्काले तथाऽग्रहणादप्रत्यक्षतेति चेत् । स्यान्मतम् - व्रीहिकाले भूम्यवाद्यात्मकस्य वस्तुनस्तथा 20 भूम्यबादिप्रकारेणाग्रहणान्न तर्हि तद्वस्तुप्रत्यक्षं स्यात् , न हि तद्वस्तु व्रीहिमात्रमेवेति । उच्यते - सर्वाप्रत्यक्षता तर्हि सदापीत्यादि, सर्वस्य वस्तुनः सदापि सर्वेणात्मस्वरूपेण ग्रहणाभावाद् न कस्यचित् प्रत्यक्षत्वं स्यात् । तदर्शयति- न हि यद् यथा भवतीत्यादि । व्रीहेरपि प्रत्यक्षत्वं नास्ति यथा विद्यते तथेन्द्रियैर्ग्रहणाभावात् , इन्द्रियेण तु तुषमात्रदर्शनात् तन्मात्रस्याव्रीहित्वात् कणाद्यदर्शनात् , कणमात्रस्याप्यव्रीहित्यात् कुण्डकाद्यदर्शनादित्यादि, रूपरसगन्धस्पर्शानामन्यतमस्यैवेन्द्रियविषयत्वात् , अत आह-तुषकणादि-25 रूपादिमात्रग्रहणवृत्तत्वाद् व्रीह्यादिचक्षुरादिप्रत्यक्षस्य । स्यान्मतम् -रूपस्य रूपमात्रत्वात् तहि प्रत्यक्षत्वमिति, एतच्चायुक्तम् , यावद्रूपग्रहणवृत्तत्वाद् रूपादिप्रत्यक्षस्य, रूपरसगन्धशब्दस्पर्शा
१* * एतच्चिह्नान्तर्गतः पाठो भा० प्रतौ नास्ति ॥ २ लभ्यं च यावप्रस्तुत्वा डे० ली. रं० ही० । लभ्य वयोवद्वस्तुत्वा पा० । लभ्यं यथावद्वस्तुत्वा वि०॥ ३ किंचा पा० डे० लीं० वि०॥ ४°पादि प्र०॥ ५°दकगतवर्ण' भा०॥ ६ भूम्याबाद्या य० । भूम्यावाद्या भा०॥ ७ भूम्यांवा(म्यम्ब्वा ?)दि प्र० ॥ ८ तथेन्द्रिय य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org