________________
१८०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे तम्यादुत्कर्षवृत्तेः सातिशयपरिमाणकं वस्तु सप्रतिपक्ष भावविशेषत्वाद् घटवत् । असर्वातथ्याभिधायिताभ्यां विपर्ययेण भवितव्यम् , असर्वज्ञताया वक्तृत्वासर्वज्ञताया वा अवस्थात्वाद् वस्तुत्वाद् विशेषत्वात्, ज्ञत्वाज्ञत्वावस्थावद् नीलोत्पलरक्तोत्पलत्ववत् । 5 धूमवत्त्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तत्त्वतः । को विचारः ? निश्चितमेवैतत् , तेनापि तत्त्वतो भवितव्यम् । तेन तु ज्ञानात्मकत्वादात्मनस्तद्विजृम्भितविकल्पत्वाच्च शब्दस्य पुरुषखरूपस्यैव तस्य वचनं युज्यते उक्तत्वाद्
सर्वज्ञतैवेति । एतच्च न, वक्तृत्वस्यापि तारतम्यादुत्कर्षवृत्तेविपर्ययेण भवितव्यमित्यभिसम्बध्यते । १३१.१ वक्तृत्वादेव सार्वश्यं तावद् ब्रूमः, वक्ता वक्तृतरो वक्तृतम इत्युत्कर्षपरम्पराया निरतिशयनिष्ठत्वात् सर्वस्य 10 वक्ता तथ्यस्य चेत्यवश्यमेषितव्यम् । तच्च सर्वस्य तथ्यस्य च वक्तृत्वात् तज्ज्ञ इति वक्तृत्वादेव सार्वज्ञ्यो
त्कर्षसिद्धेरयुक्तः सार्वश्यप्रतिषेधः । यदपि चेन्द्रियविषये तत्पूर्वकानुमानविषये चोत्कर्षतारतम्यमुक्तं तदपि नित्यानुमेयमहापरिमाणाकाशदृष्टान्तसाधाददोषाय । स्यान्मतम् - आकाशासिद्धेरदृष्टान्तमिति, एतच्चायुक्तमनुमानसद्भावात् , सातिशयपरिमाणकं वस्तु संप्रतिपक्षं भावविशेषत्वाद् घटवदिति विभक्तपदार्थवादिमतापेक्षयैतदनुमानम् । अविभक्तैककारणविवर्तनाद्भेदवादे वक्ष्यत्युत्कर्षनिरतिशयत्यम् । तारतम्ययुक्तत्वात् 15 साधितं साधयिष्यमाणार्थानुसारेण प्रतिजानानो भावितार्थोपनयनार्थमाह - असर्वातथ्याभिधायिताभ्यां विपर्ययेण भवितव्यमसर्वज्ञताया वक्तृत्वासर्वज्ञताया वा अवस्थात्वात् , वक्तृत्वाव्यभिचारिण्या असर्वज्ञताया वाक्यरूपेणानुमानात्मकतया स्थिताया इतरस्याः पदार्थतयेष्टाया वा अवस्थात्वात् , सा द्विविधाप्यसर्वज्ञता अवस्थैव, तथा वस्तुत्वाद् विशेषत्वादित्यादि हेतुसौलभ्यं दर्शयति । निदर्शनं ज्ञत्वा
ज्ञत्वावस्थावत् , ज्ञं चेतनं स्थावरजङ्गमम् , अज्ञमरण्यकाष्ठादि, तद्वत् , विधिविधिनयदर्शनेन जाग्रत्सुषुप्ता20 वस्थे ते च, एतत् पदार्थविषयं निदर्शनम् , वाक्यविषयं नीलोत्पलरक्तोत्पलत्ववत् । यथा ज्ञमज्ञेन ,, अज्ञं च ज्ञेन विना न भवति नीलोत्पलमनीलेनानुत्पलेन रक्तोत्पलेन वा विना न भवति तद्विपर्ययेण वाक्यार्थेन तथा सार्वयमसार्वज्येन विना न भवति असार्वज्यं वा सार्वज्येनेति ।
____ इतर आह-धूमवत्त्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तत्त्वतः, धूमस्यावस्थात्मकार्यस्यान्यव्यभिचारिणः क्वचित् कदाचिदप्यनग्नावदर्शनादवस्थात्वं संशयहेतुरित्यभिप्रायः । आचार्य आह25 को विचारः ? निश्चितमेवैतत् , अनग्निरपि भवत्येवेत्यर्थः । तेनापि विपर्ययेणापि तत्त्वतो भवितव्यम् , नन्विदमेव वर्तते ज्ञानात्मकैककारणस्याग्यनग्न्यादिस्वावस्थात्मकत्वप्रतिपादनस्य प्रस्तुतत्वात् , एवमग्निं व्यभिचारयिष्यामः, परमते तावत् प्रतिज्ञार्थ भावयामः-तेन त्वित्यादि, ज्ञानात्मकत्वादात्मनस्तद्विजृम्भितविकल्पत्वाच्च शब्दस्य यदुच्यते यच्छब्द आह तदस्माकं प्रमाणम् [पाँ० म० भा० २।१।१] इति
१३१२
१ दृष्टान्तरहितमित्यर्थः ॥ २ सतिपक्षं य० ॥ ३ यत्वं भावतारतम्य य० । दृश्यतां पृ० १७९ पं० २॥ ४°त्मतया य० ॥ ५ वस्तुतत्वाद् य० ॥ ६ जङ्गमं [अज्ञमचेतनम् ? ] अरण्यकाष्ठादि तद्विधिविधि प्र०॥ ७ तथा सार्वइयेनासावश्यं विना य० । तथा सार्वज्ञोनासर्वज्ञ विना भा० । अत्र 'तथाऽसार्वइयेन सार्वइयं विना न भवति' इत्यपि पाठः कथञ्चित् सङ्गच्छेत ॥ ८ दृश्यतां पृ० १३० दि०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org