________________
सर्वज्ञतासाधनम्]
द्वादशारं नयचक्रम् एवं च सार्वज्यमयत्नेन लब्धं पुरुषात्मकत्वात् सर्वस्य । ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं तारतम्यात् पर्वतोन्नतिवत् क्षेत्रप्रमाणवत् प्रत्यवगमकात्मकत्वात् खद्योतादितारतम्यवृत्तोद्दयोतवत्।
ननु वक्तृत्वादीनामसार्वश्याव्यभिचारादसर्वज्ञतैव, न, वक्तृत्वस्यापि तार
स्तत्त्व एव दृश्यन्ते, तद्यथा - आ द्रवो रसः, आ कठिनं दधि, मूलमहुः कठिनः, मस्तु द्रवमेव । आदि-5 ग्रहणात् क्षीरमपि धेनावत्यन्तापरिदृष्टम् , धेन्वभ्यवहृततृणगोरक्तादावत्यन्तापरिदृष्टा धेनुगतरसरुधिरादिपरिणतिविशेषक्रमागतप्रश्रवादयस्तत्त्व एव विभागेन व्यवस्थिताः, तेषां व्यवस्थावत् सर्वस्य चेतनाचेतनस्य जगतश्चेतनात्मनि पुरुषेऽत्यन्तापरिदृष्टस्य व्यवस्था युगपदेव । यथा च तस्यैव क्रमभुवोऽन्ये धर्मा माधुर्याम्लादयस्तथा पर्यायास्तत्त्व एव ज्ञानात्मके तस्यैव चावस्थाः । नैताः स्वमनीषिका उच्यन्ते, किं तर्हि ? जिनवचनार्णवविष एवैताः, तद्यथा-से किं भावपरमाणू? भावपरमाणू वण्णवंते गंधवंते रसवंते 10 फासवंते [भगवतीसू० २०।५।६७० ] इति वर्णादीनां तत्त्व एवानेकात्मके तदात्मनां भावात् ।
एवं चेत्यादि । अस्मिन् ज्ञानात्मकैककारणविवर्तमात्रभेदवादे युक्त्यन्तरप्रतिपाद्यं सार्वज्ञ्यमयत्नेन लब्धं पुरुषात्मकत्वात् सर्वस्य, न हि पुरुषः कश्चिदात्मानं न वेत्ति, यथा तृणादिष्वत्यन्तापरिदृष्टं दधित्वं तत्कारणत्वात् तदात्मकं तथा सर्वज्ञताप्यस्य । का सा सर्वज्ञता ? ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तम् , तदेव १३०-२ ज्ञत्वमुत्कर्षपर्यन्तं निरतिशयं क्वचित् प्राप्नोति, तारतम्यात् , तरतमभावस्तारतम्यं ज्ञतरो ज्ञतम इति परस्पैरत 15 उत्कर्षभेदः, तेन तारतम्येन युक्तत्वात् तत्पर्यन्तेन निरतिशयेन विना न भवितुमर्हति । पर्वतोन्नतिवत्, यथा पर्वतानामुन्नतिस्तारतम्ययुक्तत्वाद् विन्ध्यसह्योजयन्तपारियात्रेन्द्रपदमलयमहेन्द्रहिमवत्कैलाशादीनामन्यतमस्य उत्कर्षपर्यन्तं प्राप्तया निरतिशययोन्नत्या विना न भवत्येवं ज्ञत्वमपि । योऽपि कैलाशं मन्दरं वा नाभ्युपगच्छति तस्यापि शुषिरस्यावकाशदानसमर्थस्य पृथिव्याद्याश्रयस्य क्षेत्रस्य सद्भावात् तस्य च समन्ततोऽनन्तत्वाद् महद् महत्तरं महत्तममिति प्रमाणोत्कर्षस्य तत्र निरतिशयस्य दर्शनात् क्षेत्रप्रमाणवदिति 20 दृष्टान्तः । अस्यामेव प्रतिज्ञायां हेत्वन्तरम् -प्रत्यवगमकात्मकत्वात् , प्रत्यवगमयतीति प्रत्यवगमकं तदेव ज्ञत्वम् , ततश्च निरतिशयोत्कर्षपर्यन्तं तत् । दृष्टान्तः खद्योतादितारतम्यवृत्तोड्योतवदिति, यथा खद्योतमण्यग्निप्रदीपतारकादिषु तारतम्येन वृत्तत्वादुझ्योतो भास्करे निरतिशयोत्कर्षपर्यन्तो दृष्टस्तथा ज्ञानमपि क्वचिदिति ।
इतर आह - ननु वक्तृत्वादीनामित्यादि । ननु वक्तृत्वशरीरित्वनामवत्त्वजातिमत्त्वादीनां धर्माणा- 25 मसार्वझ्याव्यभिचारादसर्वज्ञतैव । किश्चान्यत्, अत्रैवेन्द्रियप्रत्यक्षानुमानयोर्विषये प्रकर्षनिकर्षदर्शनाच्चा
१स्तत्तत्व भा०॥ २ मूलमः भा० वि० विना ॥ ४ प्रतिभा य०॥ ५ तावस्थाः प्र० ॥ ६ रसवंते प्रतिषु नास्ति । “भावपरमाणू णं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते, तं जहा वण्णमंते गंधमते रसमंते फासमंते” इति भगवतीसूत्रे पाठः ॥ ७ तदात्मना भा० ॥ ८ स्पर उत्क प्र० ॥ ९ पर्वतानन्नति प्र०॥ १०°मप्यग्नि य०॥ ११ दृष्टः यथा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org