________________
१७८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वितीये विधिविध्यरे
दर्शनाद् 'रूपमेव न रसादि' इति शक्यं वक्तुम्, न रूपादिभ्यो भिन्नमिदमेकं द्रव्यमेवेति, रूपादिव्यतिरिक्तादर्शनात् । आत्मतत्त्वाविभक्तग्रहे तु प्रत्यक्षाविरोधः । चैतन्यमेकमेव रूपादिविभक्तमप्यविभक्तम्, तथा तदनुभवदर्शनात् । स एव तु व्यतिरेकस्यानुपपत्तेर्ज्ञानस्वतत्त्वात्मैव ग्राह्यो ग्राहकश्चैषितव्यः, अभिमतात्मप्रतिपत्तिवत् । बुद्धयादिरूपादीनां सूक्ष्मस्थूलत्वादि क्षीराद्यत्यन्तापरिदृष्टतत्त्वप्रविभागव्यवस्थावत् तत्त्व एव ।
रूपं रस इति प्रत्यक्ष भेदेन दर्शनात् तस्यानेकात्मकस्य स्वप्रवृत्तिप्रभावावबद्धस्य प्रभेदानामुक्तत्वात् । एवं १२९-२ तावद् रसादिगुणगणसमुदायो नास्त्यन्यः परस्परतस्ते चान्ये रूपादयः, किन्तु रूपणस्वरूपभेदा एवेत्युक्तम् ।
स्यान्मतम् - रूपादिभ्यो भिन्नमेकं द्रव्यं पृथग्ग्रहणापदेशादिति, एतच्च न रूपादिभ्यो भिन्नमिदमेकं द्रव्य10 मेवेति, शक्यं वक्तुमिति वर्तते । कस्मात् ? रूपादिव्यतिरिक्तादर्शनात् । पूर्वत्र रूपादन्येषां रसादीनां प्रत्यक्षतो दर्शनाद् रूपमेव न रसादय इति शक्यं वक्तुम् इह तु रूपादिभ्यो भिन्नं द्रव्यमिति प्रत्यक्षेणादर्शनादशक्यमिति ।
कस्यां पुनः कल्पनायां प्रत्यक्षविरोधो नास्ति ? उच्यते - आत्मतत्त्वाविभक्तग्रहे तु प्रत्यक्षाविरोधः । तत् कथम् ? भाव्यते - चैतन्यमेकमेव रूपादिविभक्तमप्यविभक्तं चैतन्याव्यवच्छेदान्वयाद् 15 रूपणसामान्येनाविभक्तमेवैकत्वात्, रूपादिरूपेण ग्रहणविभागाद् विभक्तमपि सत् तदेकमेव । अनेकात्मकत्वाद् विभक्तमविभक्तं चेति प्रत्यक्षदर्शनं रसादिभेदरूपं रूपणाभेदरूपं च न विरुध्यते रूपादिरूपत्वाच्चैतन्यस्य । Fears यथा परैः परिकल्पितं भिन्नमिति तत्र च रूपादि चैतन्येभ्यो भिन्नमत्र दर्शनविरोधकारि सम्भवति बाह्यं रूपरसादिगुणसमुदायात्मकं तदाश्रयद्रव्यात्मकं वा । किन्तु तदेव रूपादि चैतन्यात्मतत्त्वाविभक्तहेतु दर्शनाविरोधकारि, चैतन्यस्यैव विभक्ताविभक्तात्मकत्वात् तथा तदनुभवदर्शनात् स्वपरिच्छेदे ततोऽन्यस्य 20 प्रमाणस्यासम्भवात् । किं तर्हि ? स एव तु व्यतिरेकस्यानुपपत्तेर्ज्ञानात् पृथग्भूतार्थस्यानुपपत्तेर्ज्ञान स्वतत्त्वात्मैव ग्राह्य ग्राहकश्चै षितव्योऽभिमतात्मप्रतिपत्तिवत् यथा दभिमतः प्रतिशरीरं शरीरादि१३०-१ व्यतिरिक्तमात्मैव आत्मानं शरीरादींश्च बाह्यानर्थान् प्रतिपद्यमानोऽपि स्वात्माधिगमे प्रमाणान्तराभावाद् ग्राह्यो ग्राहकच [ तथा ] रूपादिभेदेन ज्ञानसुखादिभेदेन च स्वयमेव विपरिवर्तमान इति ।
"
निदर्शनमध्याह - बुद्ध्यादीत्यादि, बुद्धिसुखदुःखेच्छाद्वेषादिकालाकाश दिगात्माद्यमूर्त सूक्ष्ममुच्यते, 25 रूपादयस्तु स्थूला एव प्रत्यक्षत्वात् । सूक्ष्मस्थूलत्वादि च तेषां यथासङ्ख्यं बुद्ध्यादीनां रूपादीनां च तत्त्व एवेत्यभिसम्भन्त्स्यते । क्षीराद्यत्यन्तापरिदृष्टतत्त्वेत्यादि, युगपद्भाविनः क्षीरावस्थायामत्यन्तापरिदृष्टा धर्मा
१ नास्त्यन्यो प्र० ॥ २ द्रव्यमेवेति डे० लीं० ॥ ३ प्रत्यक्षविरोधः प्र० ॥ ४ यस्माच्च भा० प्रती नास्ति ॥ ५ दर्शनाविरों प्र० 11 ६ स्व [रू ? ] पपरिच्छेदे वि० विना ॥ ७स्यसम्भ प्र० ॥ ८ स्वभि य० ॥ ९ बुद्ध्यादीनां रूपादीनां रसतत्व एवें भा० । बुद्ध्यादीनां रतत्व एवें य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org