________________
१७७
पुरुषस्वरूपनिरूपणम्]
द्वादशारं नयचक्रम् एवं ततोऽपि परं कारणं रूपादिभावमापद्यत इति रूपादिप्रविभक्तमप्रविभक्तखतत्त्वं यत् तद् भवति तदेव तत्त्वम् ।
तत् किम् ? ननु ज्ञानखतत्त्व आत्मेति रूपादिभिरेव निरूपितं तत्, तद्धि रूपणं रूपं ज्ञानमेव विभक्ताविभक्तं ग्रहणमेव, न तु रूप्यते तत् तेन तस्मिन् वेत्यादि रूपम् , रसादेगुणगणाद् द्रव्याद्वा विभक्तस्यानवस्थानाद्रूपस्य पुरुषभिन्नपुत्रत्वादिवत् ।।
द्विधापि रूपस्याविभक्ततत्त्वात्मकतायामपि रूपादन्येषां रसादीनां प्रत्यक्षतो रूपादिभ्यः परतोऽप्यपरमन्यत् परं वरिष्ठं प्रधानं कारणं रूपादिभावमापद्यते इति प्रतिपत्तव्यम् । तच्च परं यत् कारणमात्मानममूर्तसूक्ष्मरूपादित्वेन स्थूलमूर्तपरमाणुद्विप्रदेशादिस्कन्धपृथिव्यादित्वेन च प्रविभजमानं प्रवर्तते । किञ्च, इति रूपादिप्रविभक्तमप्रविभक्तस्वतत्त्वं परमाणुद्विप्रदेशादिपृथिव्यादिष्वप्रविभक्तस्वरूपादितत्त्ववत् । किं पुनस्तस्य स्वतत्त्वम् ? तस्य भावस्तत्त्वम् , स्वार्थिको भावप्रत्ययः, तद्दर्शयति-यत् 10 तद् भवति तदेव तत्त्वम् । स्वं च स्वप्रभेदापेक्षया, तत्त्वता अनुसृतत्वात् , परतत्त्वाभावेन विशेष्यते स्वतत्त्वमिति परमतापेक्षया चेति ।।
इतर आह-तत् किमिति निरूप्यम् । आचार्य आह - ननु ज्ञानस्वतत्त्व आत्मेति रूपादिभिरेव निरूपितं तत् परं कारणम् । आत्मा ज्ञानस्वतत्त्वः, सँ पुना रूपादिभिरेव निरूपितः, रूप रूपक्रियायाम् [पा० धा० १९३४ ], रूपितं 'निर्णीतं तु ज्ञातम् , निर्णयो रूपणमित्येकोऽर्थः । तद्धि रूपणं 15 रूपमिति यस्मात् कारणाद् रूपणं रूपमित्येकोऽर्थः । आदिग्रहणाद् रसनमास्वादनं रसः, एवं शेषाणामपि रूपणकृतात्मलाभनिरुक्तत्वाद् रूपणता, ज्ञानमेव रूपणपर्यायत्वाज्ज्ञानस्य, विभक्ताविभक्तं ग्रहणमेव, १२९-१ विभक्तग्रहणं रूपं रसो गन्धः शब्दः स्पर्श इति ज्ञानम् , रूपमित्यविभक्तं सर्वेषु, तद् द्विविधमपि ग्रहणमेव रूपं भावसाधनत्वाद् रूपशब्दस्य । न तु रूप्यते तत् तेन तस्मिन् वेत्यादि रूपम् , न तु कर्मकर्तृकरणाधिकरणसाधनत्वम् , आदिग्रहणात् [.] तस्मै तस्माद् रूपमिति सम्प्रदानापादानकारकभेदेभ्यो 20 रूपमिति भवितुमर्हति । किं कारणम् ? रस्यते स्पृश्यत इत्यादेरपि तत्रैव दर्शनाद् रुंपणोपलक्षितस्य ज्ञानात्मनो वस्तुनो रसादेर्गुणगणाद् द्रव्याद्वा गुणगणव्यतिरिक्ताद्विभक्तस्यानवस्थानाद् रूपस्य पुरुषभिन्नपुत्रत्वादिवत् , अनेकसम्बन्धिनः पुरुषात् पितृपुत्रभ्रातृभागिनेयमातुलत्वादिधर्माः पृथग् नावतिष्ठन्ते तथा रूपणात्मकं रूपं रसादिगुणव्यतिरेकेण तद्वयतिरिक्तपरमाण्वादिद्रव्यव्यतिरेकेण वा नावतिष्ठते परमार्थतः । तस्मादविभक्तरूंपणतत्त्वात्मका रसादिपरमाण्यादिपृथिव्यादिभेदाः ।।
एवं तर्हि रूपणाविभक्ततत्त्वात्मकानां रूपवदविभक्तग्रहणं चक्षुषैव स्यात् , रसनादिभिश्च ग्रहणदर्शनात् प्रत्यक्षविरुद्धेयं कल्पनेति चेत् , न, तस्य तत्त्वस्यानेकात्मकत्वाभ्युपगमाद् द्विधापि रसाद्यभेदेन द्रव्याभेदेन वा रूपस्याविभक्ततत्त्वात्मकतायामपीत्यादि यौवद्रव्या(द्रसा?)दीति शक्यं वक्तुम् ,
१ यच्च य० ॥ २ स्वतंत्र प्र० ॥ ३ अत्र वेति इत्यपि स्यात् ॥ ४ स्वपुनरूपा प्र० ॥ ५ निर्णीतं य० प्रतिषु नास्ति ॥ ६ अथवा 'न तु कर्मकर्तृकरणाधिकरणसाधनत्वमादिग्रहणात्तस्मै तस्माद्रूपमिति' इति यथाश्रुतपाठोऽपि 'न तु' इत्यस्य अनुवृत्तिं विवक्ष्य सङ्गमनीयः ॥ ७ रूपेणों प्र० ॥ ८ गुणगण्य द्रप्र० ॥ ९ °म्बन्धेन प्र०॥ १० रूपेण य० ॥ ११°त्मत्वाभ्यु य० ॥ १२ यद्यपि सर्वावपि प्रतिषु यावद्रव्यादीति इति पाठ उपलभ्यते तथापि यावद्रसादीति इति पाठश्चेत् स्यात् तर्हि समीचीनमिति भाति । दृश्यतां पृ० १७८ पं० ११ । अथवा कश्चित् पाठोऽत्र त्रुटित इति भाति ।।
25
नय० २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org