________________
१७६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे येन भूयते तदेव । इतरथासौ नैव स्याद् भवितुरभावात् । ज्ञस्यैव सुप्तावस्थत्वाद् न च चक्रदण्डादि करणनिरीहत्वात् , दधीव पयसः, ज्ञशेषसुप्तावस्थत्वात् ।
. यथैव हि रूपादयोऽमूर्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एव वप्रवृत्तिप्रभावावबद्धमूर्तत्वप्रक्रमान् परमाणूनध्यास्य नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते 5 वश्यापेक्ष्यो घटभवनव्यवहारवद् मृत् , यथा पिण्डशिवकाद्यवस्थाक्रमेण घटभवनव्यवहारे मृदेवाद्या भवित्री तथेहापि चक्रभ्रान्तौ भवनव्यवहारत्वाद् मूलभवितृ द्रव्यमपेक्ष्यं परतः परतोऽपि येन भूयते यद् भवति तदेव, मौलं कारणं तदेवेत्यर्थः । तस्माद् घटभवने मृद्वद् भ्रान्तिभवने कुलालोऽपेक्ष्यः, कुलालशेषभ्रान्तिवच्च ज्ञशेषं सर्वम् , इतरथासौ नैव स्याद् भवितुरभावाद् बन्ध्यापुत्रवदमूलत्वादित्यर्थः ।।
स्यान्मतम् - अचेतनानामपि अभ्रादीनां चेष्टादर्शनाज्ज्ञप्रयोगमन्तरेण प्रवृत्तिर्दण्डादीनामिति । एतच्चा10 युक्तम् , ज्ञस्यैव सुप्तावस्थत्वात् न च चक्रदण्डादि करणनिरीहत्वात् , न च चक्रदण्डादि स्वत
एव भवति करणनिरीहत्वात् , करणत्वान्निरीहाणि, निरीहत्वान्न स्वत एव ज्ञातुर्यनमन्तरेण तद्यत्नशेषं वान्तरेण
तस्यैव सुप्तावस्था दण्डचक्रादि निष्पन्दभूता निश्चेतनीभूता भवितुमर्हति । तस्मात् सापि सुप्तावस्था ज्ञस्य १२८-१ चेतनस्यैव वृत्तिर्भवितुमर्हति, दधीव पयसः, यथा दधि पयसोऽवस्था तथा दण्डचक्रादि ज्ञस्यैव कुलालस्य ।
एतेन दध्याद्यपि ज्ञभवनमाख्यातमेव, ज्ञशेषसुप्तावस्थत्वात् तस्यापि दध्यादेः कुलालयत्नशेषचक्रदण्डादिव15 ज्ज्ञयत्नं ज्ञयत्नशेषं वान्तरेण प्रवृत्त्यभावाप्रवृत्तिमात्रत्वमेवेत्यर्थः .
एतस्यार्थस्य भावनार्थं दृष्टान्तमाह - यथैव हीत्यादि । यथैव रूपरसगन्धस्पर्शशब्दा अमूर्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एवेत्यादि, सूक्ष्मपूर्वकत्वात् स्थूलस्य सूक्ष्मतां निरूप्य स्थूलत्वं निरूपयति, न हि ते रूपादयः प्रतिनियतचक्षुरादिविज्ञानप्रभावितस्वरूपा मूर्ताः स्थूला इति वा केनचिदिष्टास्तस्मादमूर्ताः, तद्भावो
ऽमूर्तत्वम् , तेन अमूर्तत्वेन वृत्तिः, सैव च सूक्ष्मा, तामत्यजन्तोऽजहत एव स्वप्रवृत्तिप्रभावावबद्ध20 मूर्तत्वप्रक्रमान् स्वया प्रवृत्त्या प्रभावेन चावबद्धो मूर्तत्वेन प्रक्रमो येषां ते स्वप्रवृत्तिप्रभावावबद्धमूर्तत्व
प्रक्रमाः परमाणवः, रूपादीनामात्मीयया प्रवृत्त्यावबद्धो मूर्तत्वेन प्रक्रमः परमाणूनां सभेदानाम् , तान् परमाणूनध्यास्येति सृष्टेः क्रमं दर्शयति दृष्टान्तरूपेण । तत उत्तरकालं नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते रूपादय एव । पृथिव्या अश्म-लोष्ट-सिकता-वज्रादयः प्रभेदाः, हिमकरकादयो
ऽपाम् , ज्वालाङ्गारमुर्मुरादयस्तेजसः, उत्कलिका-मण्डल-गुञ्जा-झञ्झादयो वायोः, वृक्षगुल्मवल्लीलतावितान25वीरुधो वनस्पतेः, कृमि-पिपीलिका-भ्रमरादि-मनुष्य-देव-नारका जङ्गमानाम् । एतत् प्रवृत्तेर्निदर्शनम् । १२४२ प्रभावो ह्यचिन्त्यः, प्रभावस्याचिन्त्यत्वादमूर्तेर्मूर्तसम्भवः । रस-वीर्य-विपाक-प्रभावाश्च वस्तुनः प्रवर्तमानस्य विपरिणामाः, तत्र निदर्शनम् -
'चित्रकः कटुकः पाके वीर्योष्णः कटुको रसे।
तद्वद् दन्ती, प्रभावात्तु विरेचयति सा नरम् ॥ [चरकसं० १।२६।६८ ] इति । 30 यथैते पृथिव्यादयः सूक्ष्मा मूर्तरूपादिपूर्वकाः स्थूलत्वात् तन्तुपूर्वपटवदेवं ततोऽपि परतोऽपि परं
१°वस्थात् भा० ॥ २°वस्थान्यस्य चेतन य० । °वस्थान्यचेतन भा० ॥ ३ °वस्थात्वात् भा० ॥ ४ °ज्ज्ञवृत्ति य० ॥ ५ मूर्तेमूर्त प्र०॥ ६ “कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः।” इति चरकसंहितायां पाठः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org