________________
पुरुषप्रतिपादनम्] द्वादशारं नयचक्रम्
१७५ तद्यथा-पुरुषो हि ज्ञाता ज्ञानमयत्वात् । तन्मयं चेदं सर्वं तदेकत्वात् सर्वैकत्वाच्च भवतीति भावः । को भवति ? यः कर्ता । कः कर्ता ? यः खतन्त्रः। कः खतन्त्रः ? यो ज्ञः।
ननु क्षीररसादि दध्यादेः कर्तृ, न च तज्ज्ञम् , न, तत्प्रवृत्तिशेषत्वाद् गोप्रवृत्तिशेषक्षीरदधित्ववत् , ज्ञशेषत्वाद्वा चक्रभ्रान्तिवत् ।
ननु चक्रभ्रान्तावपि को भविता ? इति प्रत्यपेक्षायां घटभवनव्यवहारवद् मृद्
कोऽसौ ? निदर्यतामिति चेत् , उच्यते - तद्यथा पुरुषो हीत्यादि । उक्तनिरुक्तः पुरुषशब्दः, १२७-१ हिशब्दो यस्मादर्थे, यस्मादसौ ज्ञाता ज्ञानशीलो ज्ञानधर्मा साधुज्ञायी वा पुरुष एव । ज्ञातृत्वं च ज्ञानमयत्वात् , ज्ञानावयवो ज्ञानविकारो वा ज्ञानमयः स उपयोगलक्षणत्वात् । ततः किमिति चेत्, तन्मयं चेदं सर्व देवमनुजतिर्यङ्नरकपृथिव्यादिघटादिभेदभिन्नं जगत् , तदेकत्वात् तस्य पुरुषस्यैकत्वात् 10 वस्तुत्वात् तदेकत्ववत् सर्वैकत्वम् , सर्वैकत्वाच्चैकं स च जगच्च सर्वं भवतीति भावः, न तु घटपटादिभेदेन भवति ज्ञानमयपुरुषात्मकत्वात् । येन भूयते स एव भवतीति भावः । स आत्मैव सामान्य समानो भवतीति । तन्निर्णयार्थ प्रश्नोत्तरक्रमेण ग्रन्थः-को भवतीत्यादिर्गतार्थो यावत् कः स्वतन्त्रः ? यो ज्ञ इति, अज्ञस्यास्वातत्र्यादेव कर्तृत्वाभावात् , काष्ठादिविप्रकीर्णपचननिर्वर्तनवत् , यथा काष्ठैः स्थाल्यामोदनं देवदत्तः पचतीत्यत्र देवदत्त एव पचनस्य निर्वतको ज्ञातृत्वात् न काष्ठादीनि तथा पुरुष एव भवतीति भावः । 15
इतर आह - ननु क्षीररसादि दध्यादेः कर्तृ । क्षीरादधि भवत्येज्ञात् कर्तृणः, स्साद् गुडः, न च तत् क्षीरं रसो वा ज्ञमिति ज्ञकर्तृत्वमनैकान्तिकमिति । एतच्च न, तत्प्रवृत्तिशेषत्वात् , तस्यैव ज्ञस्य प्रवर्तमानस्य प्रवृत्तेरपरिसमाप्तायाः शेषत्वात् । कालक्रमभेदकृतस्तु विशेषो न निवार्यते । यथोक्तम् - .
शर्करासमवीर्यस्तु दन्तनिष्पीडितो रसः।।
दन्तनिष्पीडितः श्रेष्ठो यान्त्रिकस्तु विदाहकृत् ॥ [ ] इति । गोप्रवृत्तिशेषक्षीरदधित्ववत्, यथा गोर्धेनोः प्रवृत्तरपरिसमाप्तायाः क्षीरदधिनवनीतघृतनिष्पन्दनादि १२०-२ शेषस्तथा पुरुषप्रवृत्तिशेष एव जगदिति । ज्ञशेषत्वाद्वा चक्रभ्रान्तिवत् । का वा सा प्रवृत्तिः प्रवर्तमानपुरुषव्यतिरिक्ता, सर्वस्य ज्ञशेषत्वात् ? दृष्टान्तश्चक्रभ्रान्तिः, यथा कुलालप्रयत्नभ्रमितस्य चक्रस्य भ्रान्तौ कुलालप्रवृत्तिशेषत्वं ज्ञशेषत्वमेवं दध्यादेरपि ज्ञशेषत्वम् , गोर्जस्य शेषत्वं दनः, गोमुक्ततृणाद्याहारस्य रसरुधिरादिपरिणतस्य ज्ञमन्तरेण क्षीरदध्यादिभावो नास्ति । .
नन्वित्यनुज्ञापने, चक्रभ्रान्तावपि को भविता? इति प्रत्यपेक्षायां जिज्ञासायां मूलभविता
20
25.
१ यस्मादर्थे प्रतिषु नास्ति ॥ २ °त्यादिग प्र० ॥ ३ कर्तृभावात् प्र० ॥ ४ काष्ठादीति वि० विना ॥ ५ शादकर्तृणः भा० । ज्ञाचकर्तृणः वि० डे० ली० । ज्ञानकर्तृणः २० ही० ॥ ६ “वक्त्रप्रह्लादनो हृष्यो दन्तनिष्पीडितो रसः । गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः ॥ १।४५।१५७ ॥” इति मुद्रितायां सुश्रुतसंहितायां पाठः । जेजटविरचितायां तद्वृत्तौ तु “शर्करासमवीर्यस्तु दन्तनिष्पीडितो रसः ।" इति पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org