________________
१७४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे भावो भेदाभेदनानातासु न भावो भवितुरभाव इति विविच्यते, न च विविच्यते च । तथा न भवत्येव विधित्वं विधेः, लोकवदिति विधानाद्विधिरुत्सर्ग एवं न भवति। यथा तत् तथान्यथा च भवति तथा वक्तव्यमिति विधिर्विहितो भवत्युत्सृष्टः ।
सिद्धान्तेन व्याकरणेन तत्र विशेषमात्रवादे देशकालभेदे परस्परविविक्तद्रव्यदेशकालभावभिन्ने भवनेऽभेदे च 5 द्रव्यादितया भवनमात्रे सामान्यवादे नानाभावे च सामान्यविशेषयोर्भेदाभेदनानातासु यथासङ्घयं बौद्धसाङयवैशेषिकमतासु दोषान्न भावः, भवितुरभावात् तत्प्रकृत्यर्थकर्तुरभावात् , इतिशब्दस्य हेत्वर्थत्यात् पञ्चमीमप्रयुज्य भवितुरभाव इत्युक्तं प्रागुक्तन्यायेन भवितुरभावात् । भवतीति भावो घटादिरिति व्याकरणदृष्टेन निरुक्त्यर्थेन समर्थितो विधिना 'विविच्यते च सादृश्यासादृश्याभ्याम् । सादृश्यात्
समानो भवतीति पृथक् प्रतिज्ञायते, तेषु विकल्पेषु दोषाणामभिहितत्वाद् निर्दोषभवनोक्तश्च विविच्यते 10 विधिना । किमेवं विविच्यत एव ? नेत्युच्यते, [न च विविच्यते ] चेति, प्रतिज्ञा सा पुनरविविक्तैव कृता १२६-२ 'को ह वैतवेद, किं वानेन ज्ञातेन' इति वचनात् । स एष विधेविधिर्न भवति विविच्यमानार्थविधानात्
स्ववचनविरोधदोषादंशेन विवेकादविवेकाच्च । यत्राप्यंशेन विवेकस्तत्र विविच्यमानांशेऽपि च यथा भवता विधिनयवादिनाभिहितं तद्वद् विविच्यते न च विविच्यते चापि परमतदूषणात् स्वमतसाधनाच्च घटादि
र्भावो विविच्यते न च विविच्यते तथा न भवत्येव विधित्वं विधेः, न विधिर्विहित एवमित्यभिप्रायः। 15 कथं पुनर्विधीयते इति चेत् , लोकवत् , लोक इव लोकवत् , लोकवदिति विधानाद् यदि लोकवदेव विधीयते विधिरुत्सर्ग एवं न भवति । कथं न भवति ? "किं न एतेन यदि कारणम् ? यदि न च विविच्यते प्रतिज्ञापि तदंशद्वारिका न कार्या इत्याद्यविचार्य विधानान्न भवति । किं तर्हि ? यदुक्तसूक्ततया सर्वात्मकत्वेन 'विधिरुत्सर्गः सिध्यति, तद्यथा यथा तत् तथान्यथेत्यादि । अथवा यथा लोके दृष्टं तथा "विधेविधिर्भवति । कथं पुनर्लोके 'विधेर्विधिः ? उच्यते - इति विधिरित्यादि । इति इत्थमनन्तरं वक्ष्यमाणो 20"विधिर्विधिर्भवति लोके, यथा तत् तथान्यथेत्यादि, मृत्पिण्डशिवकादिप्रकारेण तथान्यथा च भवति
यथा तथा वक्तव्यम् , तच्चातच्च ययोपपत्त्या भवति तथा वक्तव्यम्, एष विधेविधिः । एवं सोऽविवक्षितव्यावृत्तिरनङ्गीकृतभेद स्तिरकृतविशेषो निर्व्यावृत्तिरेव विधिर्विहितो भवत्युत्सृष्ट इति पर्यायशब्देनोत्सर्गो विधिरिति सर्वत्रौस्य विधिलक्षणस्य दर्शयति ।
१ विविद्यते च सादृश्याभ्यां सादृश्या समानो भवतीति प्र० । अत्र 'विविच्यते च सादृश्यासादृश्याभ्याम् । समानो भवतीति' इत्यपि पाठः स्यात् ॥ २ दृश्यतां पृ० ३५ पं० ४ ॥ ३ दंशेनविवेकात् २ च यत्राप्यंशेन विवेकस्तत्र पा० डे० ली० वि० । दंशेन विवेकात् च यत्राप्यंशेन विवेकस्तत्र २० ही० । दंशेनाविकेस्तत्र भा० । अत्र "दंशेन विवेकाच्च । यत्राप्यंशेन विवेकस्तत्र' इत्यपि पाठः स्यात् ॥ ४°च्यते वपि प्र० ॥ ५ लोके भा० ॥ ६ एव य० ॥ ७ दृश्यतां पृ० ३४ पं० ४ ॥ ८ तदर्शद्वारिका प्र ० ॥ ९ विधेरु' य० ॥ १० विधिर्विधि प्र० ॥ ११ विधिर्विधिः भा० । विधिः य० ॥ १२ विधि(धे ? )विधि भा० वि० । विधिविधि पा० डे० ली० । विधि रं० ही० ॥ १३ विधिर्विधिः भा० । विधिविधिः य० ॥ १४ 'त्युत्सृ इति प्र०॥ १५ त्रास्या प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org