________________
पुरुषवादो विधिवादनिरासश्च ]
१७३
नाम्, घटग्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत् । एवं च कल्प्यमानं सर्वसर्वात्मकत्व सत्कार्यत्वमूलरहस्यानतिक्रमेण कल्पितम् । अविचारोऽपि च तत्त्वेनैक्यमाश्रित्य न्याय्यः, नाज्ञानप्रतिबन्धात् ।
अयं तस्य प्रवृत्तिपर्यायस्य विधेर्विधिः, एवं प्रवृत्तिरित्यर्थः । विधिना भवतीति
द्वादशारं नयचक्रम्
ग्रहणम्, किं तर्हि ? अतति सततं गच्छति तांस्तानवस्थानविशेषान् स्वरूपापरित्यागेनेति आत्मा, स एव सामान्यं चैतन्यलक्षणम् । एवं तर्हि विशेषाभावे कस्य सामान्यम् ? इति सामान्याभावप्रसङ्गः, स मा १२५-२ भूदिति विशेष वक्तव्याः । उच्यते - सामान्यं पुरि शयनात् पुरुषः, विशेषास्तु तस्यैवावस्थावतोऽवस्था जाग्रत्सुप्तसुषुप्ततुरीयाख्याः । तासां स्वावस्थानां पुरुषः सामान्यमिति । किं निदर्शनमिति चेत्, घटग्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत् यथा घटस्य स्थूला ग्रीवाबुनमध्यावस्थाः सूक्ष्माच रूपादयो देशभेदभिन्नाः कालभेदभिन्नाच नवपुराणावस्था:, तेषामेवावस्थाभेदानामभेदेन समवस्था घट इति तद्वदा - 10 त्मैव स्वावस्थानां सामान्यम् । एवं च कल्प्यमानं सर्वसर्वात्मकत्वसत्कार्यत्वमूल रहस्यानतिक्रमेण कल्पितमिति गुणश्चात्र विद्यते, एवं हि 'सर्वं सर्वात्मकं सच्च कार्यम्' इति मूलरहस्यमेतन्नातिक्रान्तं भवति पुरुषात्मकत्वात् सर्वस्य तद्विकारमात्रत्वाच्च भेदानां तत्रैवान्तर्लयाविर्भावात् सर्वकार्याणां कृकलासवर्णविशेषाणामिव कृकलासे ।
,
अविचारोsपि चेत्यादि । यदपि च 'अनर्थको विवेकयत्नः शास्त्रेषु' इत्यविचारे इष्यते सोऽप्यने- 15 नैव युक्तिमार्गेण तत्त्वेनैक्यमाश्रित्य न्याय्यः, तस्य भावस्तत्त्वम्, आत्मनो भावेनैक्यमाश्रित्य न्यायादनपेतो न्याय्यः, नाज्ञानप्रतिबन्धात् । यद्यज्ञानप्रतिबन्धादविचारस्ततः स्वयमविज्ञाते प्रमाणप्रमेयभावाभावादयुक्तमित्युक्तम् । इह तु ज्ञानात्मकपुरुषस्वरूपैक्यापत्तिसैन्निश्चये निश्चितमेवैतत् किं विचारेण गतार्थत्वात्, न तु ज्ञातुमशक्यत्वादिति ।
१२६-१
अयं तस्य प्रवृत्तिपर्याय विधेर्विधिः । विधिः स्थितिराचारः प्रवृत्तिर्मर्यादा इत्यस्य विधि - 20 नयस्यायमेव विधिराचारः स्थितिरित्यादि । एवं प्रवृत्तिरित्यर्थः, या चैतन्यात्मस्वरूपा प्रवृत्तिः सा 'विधेर्विधिरित्येतमर्थं व्याचष्टे । यः पुनर्विधिः प्राक्तनः स न युज्यते, यस्माद् विधिनेत्यादि । भवतीति भावो भूप्रकृतिः कर्त्रर्थः, प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः [ पा० म० भा० ३ | १ | ६७ ] इति वचनात् । भावे विहितत्वाद् भूयत इति भावः, न 'भवति' इति कर्त्रर्थ इति चेत्, तत्रापि येन भूयते समानेन समानो भवतीति भावो णैप्रकरणे भुवश्चोपसङ्ख्यानमिति वा कर्ता सामान्यमित्येवं व्यवस्थितेऽर्थे सर्वतत्र- 25
१ दृश्यतां पृ० ११ पं० ४ ॥ २ रयिष्यते य० । रद्वयि ( रस्त्वये ? ) ध्यते भा० ॥ ३ सन्निये भा० ॥ ४स्य विधिर्विधिविधिः स्थितिः य० । स्य विधिः स्थितिः भा० ॥ ५ दृश्यतां पृ० १० पं० १ ॥ ६ विधेर्विधिरि वि० विना ॥ ७ भवती भावः भा० पा० । भवति भावः भा० पा० विना ॥ ८ भूप्रकृतिकर्त्रर्थः भा० ॥ ९ " विभाषा ग्रहः [ पा० ३।१।१४३ ] व्यवस्थितविभाषा चेयम् । एतज्जलचर इत्यादिना स्पष्टीकरोति । भवतेश्चेति वक्तव्यम् । भवतेश्व विभाषा णो भवतीत्येतदर्थरूपं व्याख्येयम् । व्याख्यानं तु विभाषेति योगविभागात् कर्तव्यम् । " इति पाणिनीय व्याकरणस्य जिनेन्द्र बुद्धि विरचितायां काशिकावृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org