________________
१७२
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे . अत एव यत्नेन महता प्रतिपादनार्थं न क्रियायां खेदः कर्तव्यो भवति ।
अज्ञानप्रतिबद्धैकान्तेऽपि च स्ववचनविरोधः । प्रमाणविरोधस्तु प्रस्तुत एव । ज्ञापकत्वाद्विशेषविरोधः। अप्रयोगप्रसङ्गात् स्वरूपविरोधः।
अतः पूर्वोदितदोषासम्बन्धेनेदं प्रतिपत्तव्यम् - आत्मैव सामान्यं वावस्था
5 अत एवेत्यादि यावत् खेदः कर्तव्यो भवति । यत् त्वया व्याख्यानमनुष्ठितम् 'इतिकर्तव्यतैव कर्तव्यता' इति यत्नेन महता पूर्वोत्तरचोद्यपरिहारपक्षाव्यवच्छेदवता प्रतिपादनार्थ न क्रियायां क्रियाव्याख्यानार्थः खेदः कर्तव्यः । किं कारणम् ? सामान्यादिवस्तुविचारखेदस्याव्यवस्थितपरमार्थत्वात् सर्वस्य क्रियाया एवोपदेशो न्याय्य इत्यस्याभ्युपगमस्योपरोधात् । एवं तावज्ज्ञानपूर्वकक्रियोपदेशपले स्ववचनविरोध उक्तः । यस्मिन्नपि 'अग्निहोत्रं जुहुयात्' इत्यादि क्रियोपदेशोपजीवनं नास्ति 'अज्ञानप्रतिबद्धमेव सर्वम्' 10 इत्येकान्तस्तस्मिन्नज्ञानप्रतिबद्धैकान्तेऽपि चौज्ञानप्रतिबद्धत्वे स्ववचनस्य विरोधः, 'असत् कार्यम्' इति ज्ञात्वोक्तं चेन्न तर्हि सर्वमज्ञानप्रतिबद्धमे वास्य ज्ञानप्रसिद्धत्वात् । अथाज्ञात्वा कथं प्रतिपादकं साधकं च? इति स्ववचनविरोधः । त्वयापि 'एतदेवम्' इति निश्चित्याभ्युपगम्योक्तत्वादज्ञानप्रतिबद्धाभ्युपगमस्य च तेन विरोधात् 'एवम्' इत्यवगमादभ्युपगमविरोधः कृतः । लोके ज्ञानव्यवहारात् तद्विरोधः, ज्ञानपूर्वको हि लोकव्यवहारः, ततस्तस्याज्ञानप्रतिबन्धाभ्युपगमाप्रतीतेर्लोकरूढिविरोधः । प्रमाणविरोधस्तु प्रस्तुत 15 एवेति, प्रत्यक्षविरोधस्तावत् तथा लोके दृष्टत्वात् , क्रिययाभिव्यज्यमानस्य घटादेः कार्यस्य दीपेनेव सत
उपलब्धेरनुमानविरोधः । ज्ञापकत्वाद् विशेषविरोध इति, अस्य 'असत् कार्यम्' इति ज्ञापकवाक्यस्य १२५-१ ज्ञापकत्वविशेषेष्टेः प्रत्यक्षस्ववचनादिविरोधेषु धर्मविशेषविपर्ययसिद्धेर्विशेषविरोधः । तेष्वेवाप्रयोगप्रसङ्गाद्
धर्मस्वरूपस्य प्रतिपिपादयिषितस्य निराकरणाद् धर्मस्वरूपविरोधः । एवं धर्मिस्वरूपविरोधस्तदुभयस्वरूपविरोधश्च यथायोगमापाद्य इत्यलमतिप्रसङ्गिन्या कथया । तस्मादयुक्तोऽसत्कार्यवादः 'अग्निहोत्रं 20 जुहुयात् , इतिकर्तव्यतैव कर्तव्यता, कुर्यात्' इति चाभ्युपगतः परेणेति ।
अत इत्यादि । अत एतेभ्यो दोषेभ्यो निःसृत्य किं प्रतिपत्तव्यम् ? उच्यते - अतः पूर्वोदितदोषासम्बन्धेन, ये पूर्वमुदिता विधिवादिना सामान्यैकान्तवादे विशेषैकान्तवादे सामान्यविशेषनानात्ववादे दोषा मयापि च ये दोषा उक्ताः सामान्यादिविचारप्रत्याख्यायिनः क्रियोपदेशवादिनोऽज्ञानवादिनश्च तेषामुभयेषामपि दोषाणामसम्बन्धेन इदं प्रतिपत्तव्यम् - आत्मैव सामान्यमिति । ननु पूर्वत्र दूषितमेवैतद् 25 मतम् 'आत्मैव सामान्यम्' इति 'सुखं सुखं च सुखादिसमुदयश्च' इत्यादिपूर्वोत्तरपक्षप्रपञ्चेनेति, अत्रो
च्यते - न, आत्मशब्दस्य पुरुषपर्यायत्वादवयवानभ्युपगमात् समुदायवादपरिहारेणास्य पुरुषसामान्यस्यावस्थावतोऽवस्थाभ्योऽनन्यस्य तत्स्वरूपावस्थानात् 'तद्वैधात् । 'आत्मा' इति न वस्तुस्वरूपपर्यायवाचिनोऽत्र
१ यावखेदः वि० विना ॥ २ दृश्यतां पृ० १४२ पं० १॥ ३ दृश्यतां पृ० ४५ पं०२॥ ४ दृश्यतां पृ० ११२ पं० १॥ ५च ज्ञान प्र०॥ ६ दृश्यतां पृ० ४७८-२॥ ७°धास्तदुभयस्वरूपविरोधाश्च प्र० ॥ ८ पाद्या भा०॥ ९ दृश्यतां पृ० १४२ पं० १॥ १० दृश्यतां पृ० १२६ पं०२॥ ११ दृश्यतां पृ० १२ पं० ३ ॥ १२ दृश्यतां पृ० १३ पं० १॥ १३ पूर्वविवक्षितात्मतो वैधादित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org