________________
१७१
असत्कार्यवादिकृताक्षेपस्य निरसनम्] द्वादशारं नयचक्रम् सर्वस्मादन्यत्वात् । तस्मात् सर्वस्याप्यसर्वत्वात् सर्वत्वैकत्वभङ्गचतुष्टयाभावः । तथानुवृत्त्याद्यभावश्च तत एव नास्ति ।
खोक्तविरोधादि च । यदि कार्य कथमसत् ? अथासत् कथं कार्यम् ? मृदेव हि घटः क्रियते घटतया व्यज्यते दीपेनेव क्रियया । तथा च विशेषणविशेष्याप्रसिद्धिरपि।
इतीष्टं तस्मादसर्वत्वादेरसिद्धत्वात् तद्विकल्पाभावात् तदसमर्थविकल्पत्वासिद्धिः । ततः कारणात् कार्यमन्यदित्येतन्न सिध्यतीति । तत्रासर्वत्यासिद्धौ प्रतिपादितायां व्यावृत्त्यादीनामप्यसिद्धिरापादितैव भविष्यतीत्यसर्वत्वाभावमेवापादयितुमाह -यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् संत्त्वाभिमतादन्य इतीष्यते तद्वदेव घटवदेव कार्यवेदेव पिण्डादेरप्यसर्वत्वं विप्रकृष्टस्यापि, किमुत सन्निकृष्टस्य शिवकादेः ? सर्वस्मादन्यत्वाद् घटवत् । तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यसर्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्व-10 भङ्गचतुष्टयाभावः । तदसमर्थविकल्पत्यमप्यत एव नास्ति । तथानुवृत्त्याद्यभावश्च तत एव नास्ति, १२४-१ यथैकस्य घटस्य मृदनुवृत्त्यभावस्तथा सर्वघटेषु तथा शिवकादिष्वप्यभाव इत्यनुवृत्त्यभावादनुवृत्तिव्यावत्तिकृतविकल्पाभावश्च । एवं कारणोपादानबुद्धिसिद्धसामान्यैः सँप्रतिपक्षैर्विकल्पचतुष्टयासिद्धिस्तदसमर्थविकल्पासिद्धिश्चापादनीया । ततः कारणादन्यत् कार्यमित्येतन्न सिध्यति ।
किश्चान्यत् , स्वोक्तविरोधादि च, स्ववचनाभ्युपगमलोकव्यवहारप्रत्यक्षानुमानविरोधा आदिग्रहणात्। 15 प्रेमाणग्रहणात् प्रत्यक्षानुमानग्रहणम् । विशेषस्वरूपविरोधौ च कण्ठोक्तौ वक्ष्यति । तत्र स्ववचनविरोधस्तावद् यदि कार्य घटवत् क्रियते तत् कथमसत् खपुष्पवत् कार्यं च ? स्वेन वचनेन वमेव वचनं विरुध्यते । अथासत् खपुष्पवत् कथं कार्य घटवत् ? इति सैव स्ववचनविरोधभावना विपर्ययेण तयोरेव शब्दयोविरोधदर्शनार्था । यस्माद् मृदेव हि घटः क्रियते । हिशब्दो यस्मादर्थे, यस्मात् सर्पस्फटाटोपर्कुण्डलीभवनवद् मृद एव घटीभवनं तथा प्रकार्शनं व्यक्तिर्विमलता क्रियते । करणं यथा 'पृष्ठं कुरु पादौ कुरु' 20 इति । तद्दर्शयन्नाह - घटः क्रियते घटतया व्यज्यते विद्यमान एव व्यक्तीभवति । को दृष्टान्तः ? स एव घटो दीपेनेव क्रियया व्यज्यते दण्डादिव्यापारणात्मिकया । तथा च विशेषणविशेष्याप्रसिद्धिरपि, 'कार्यमसत्' इति व्याधीतात् प्रोक्तस्ववचनविरोधभावनात एव खपुष्पनिर्वृत्तघटयोरिव न कार्यमसता विशेष्यं नाप्यसत् कार्येणेति न परस्परतो विशेषणं विशेष्यं 'वेति विशेषणविशेष्याप्रसिद्धिरस्मादेव 25 कारणात् ।
१२४-२
१ सत्वाभि प्र० । अत्र सर्वत्वाभि इति पाठः समीचीनतर इति भाति ॥ २ वदेव दण्डादेरप्य प्र० । अत्र सर्वप्रतिषु दण्डादे इति पाठोपलम्भेऽपि पिण्डादे इत्येव पाठः समीचीनो भाति ॥ ३ सत्प्रति य० ॥ ४ दृश्यतां पृ० १७२ पं० २॥ ५ दृश्यतां पृ० १६५ पं० १२॥ ६ स्वयमेव भा०॥ ७°कुण्डलकीभव भा० ॥ ८°शनां २० ही। शतां रं० ही. विना ॥ ९ “करोतिरभूतप्रादुर्भावे दृष्टो निर्मलीकरणे चापि वर्तते । पृष्ठं कुरु । पादौ कुरु । 'उन्मृदान' इति गम्यते।” इति पातञ्जलमहाभाष्ये १।३।१।, ६।१।९१, ६।१।४५॥ १० °घाताप्रोक्त वि० विना । 'घातः प्रोक्त वि०॥ ११ चेति वि० २० ही०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org