________________
१७०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे दिविचारेण पूर्ववच्चक्रकद्वयप्रवर्तनं तथोपसंहारमेव ।
न, असिद्धत्वात् । यदि हि घटो मृत्पिण्डादन्यः, तद्वदेव पिण्डादेरप्यसर्वत्वं
१२३-१ इति । तद् यदि तावदुभयसत्त्वं सत्त्वाविशेषादेवाविशेषे कार्यव्यावृत्तिवत् कारणव्यावृत्तिरपि स्यात्
सत्त्वाद् घटवत् । अथ न कार्यव्यावृत्तिवत् कारणव्यावृत्तिः सच्च कार्यमिति निश्चितम् , तद्वैलक्षण्यान्न 5 तर्हि सत् कारणम् , असत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निर्वृत्तघटवत् । ननु घटसत्त्वं पटसत्त्व
विलक्षणम् , न, असतो वैलक्षण्यात् । अथैवमपि वैलक्षण्ये कारणसत्त्वविनिश्चयो न निवर्ततेऽनुवृत्त्यात्मकं च तत् , न तर्हि व्यावृत्त्यात्मकत्वात् कार्य सत् , सत्त्वे न व्यावर्तेत सत्त्वात् कारणवत् ; द्वितीयं
चक्रकमविपर्ययेण । शेषं पूर्ववद् विपर्ययेणेत्यादि, अथ न कारणानुवृत्तिवत् कार्यानुवृत्तिः सञ्च कारणमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत् कार्यम् , असत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् , इतरो घटवत् । ननु 10 घटसत्त्वं पटसत्त्वविलक्षणम् , न, असतो वैलक्षण्यात् ; प्रथमं विपर्ययचक्रकम् । अथैवमपि वैलक्षण्ये तत्सत्त्वविनिश्चयो न विनिवर्ततेऽनुवृत्त्यात्मकं च तत् , न तर्हि व्यावृत्त्यात्मकत्वात् कार्य सत्, सत्त्वे न व्यावर्तेत सत्त्वात् कारणवत् ; एतद् द्वितीयं चक्रकं विपर्ययेण । अतोऽनुवृत्तिसतः कारणादन्यत् कार्यम् , व्यावृत्तत्वात् , पङ्क्तेरिवैकः । व्यावृत्तिसतश्च कार्यादन्यत् कारणम् , अनुवृत्तत्वात् , एकस्मादिव पतिः ।
आदिग्रहणादसदनुक्रान्ताविर्भावानाविर्भावचक्रकद्वयमपि योज्यम् । यदि तावदुभयसत्त्वं ततः 15 सत्त्वाविशेषादेवाविशेषे प्राक् कार्यानाविर्भाववत् कारणानाविर्भावोऽपि स्यात्। अथ न प्राक् कार्यानाविर्भाव१२३-२ वत् कारणानाविर्भावः सञ्च कार्यमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत् कारणम् , असत्, सद्विलक्षण
त्वाद् *घंटवत्, इतर* उदुम्बरपुष्यवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम् , न, असतो वैलक्षण्यात् । अथैवमपि वैलक्षण्ये कारणसत्त्वविनिश्चयो न विनिवर्तते नित्याविर्भावात्मकं च तत्, न तर्हि संततानाविर्भावात्मकत्वात् कार्य सत् , सत्त्वे प्रागप्याविर्भवेत् सत्त्वात् कारणवत् ; प्रथमम् । शेषं पूर्ववदेव विपर्ययेण - अथ न 20 कारणसतताविर्भाववत् कार्यसतताविर्भावः सच्च कारणमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत् कार्यम् ,
असत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् , इतरो घटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम् , न, असतो वैलक्षण्यात् ; द्वितीयं चक्रकम् । इत्येवमाविर्भावानाविर्भावविचारेण द्वे चक्रके मते इति ।
अत्रोच्यते-न, असिद्धत्वात् । नैतदुपपद्यतेऽस्मत्पक्षसाधनवत् त्वत्पक्षसाधनम् , किं कारणम् ? असर्वत्वादिहेतूनामसिद्धत्वात् , यस्मादस्माकं 'सर्वमेव अनुवृत्तिरेव कारणमेव उपादानमेव बुद्धिसिद्धमेव'
१वृत्तिस्तत् प्र० ॥ २ इतरो वृत्त भा० । इतरो वृत्त य० ॥ ३ चक्रमवि प्र० ॥ ४ कारमिति प्र०॥ ५ कार्यमसद्विल प्र०॥ ६ चक्रकं पर्ययेण प्र० ॥ ७ योज्यम प्र० ॥ ८ कारणमसद्विल प्र०॥ ९ * *एतचिहान्तर्गतो घटवत, इतर इति पाठो यद्यपि सर्वावपि प्रतिषु दृश्यते तथापि नायं कथञ्चिदपि सङ्गतः प्रतीयते ततः परित्याज्य एव । वस्तुतस्तु सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो घटवत् इत्येवात्र वक्तुमुचितम् , दृश्यतां पृ० १६९ पं० १८,२३, पृ० १७० ५० ५,५,२१ ॥ १० सतताविर्भावात्मकत्वस्याभावादित्यर्थः ॥ ११ प्रथम चक्रकमित्यर्थः ॥ १२ कारणसतताविर्भावः सच्च कारणमिति प्र० ॥ १३ °वत् इतरो घटसत्वविलक्षणं भा० । वत् ननु घटसत्वं पटसत्वविलक्षणं य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org