________________
असत्कार्यवादिन आक्षेपः] द्वादशारं नयचक्रम् ___ एवं तर्हि मयापि शक्यं वक्तुम् - यदेतत् सन्नाम ततोऽन्यत् कार्य तद्विकल्पासामर्थ्याद् घटपटवत् । चतुर्पु विकल्पेषु द्वयोः प्रतिपक्षवादापत्तेस्त्यागादुभयसत्त्वमन्यतरसत्त्वं च स्यात् । तद्यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेष सर्वत्वैकत्वभेदो न स्यात्, कार्यकत्ववत् कारणैकत्वमपि स्यात् । अथ न कार्यैकत्ववत् कारणैकत्वं सच कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कारणम् , असत्, । सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निवृत्तघटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न असतो वैलक्षण्यादितरेतरासत्त्वात् । अथैवमपि वैलक्षण्ये कारणसत्त्वनिश्चयो न निवर्ततेऽनेकात्मकं च तत्, न तःकात्मकत्वात् कार्य सत् । सत्त्व एकात्मकं न भवेत्, सत्त्वात् , कारणवत् । शेषं पूर्ववद्विपर्ययेण । तथानुवृत्तिव्यावृत्त्या
एवं तहीत्यादि यावत् तथोपसंहारमेव । इतर आह - त्वदुक्तसाधनप्रपञ्चस्य कार्यासत्त्वेऽपि 10 तुल्यत्वाद् मयापि शक्यं वक्तुम् , कार्यसत्त्वस्य कारणे त्वन्मतस्य निवारणे कृते कार्यासत्त्वं भवितुमर्हति । तत्साधनं श्रूयताम् – यदेतत् सन्नाम कारणं ततोऽन्यत् कार्यम् , तद्विकल्पासामर्थ्यात् , घटपटवत् । अत्रापि १ कारणं सत् कार्य सत् , २ कारणं सत् कार्यमसत् , [ ३ कारणमसत् कार्य सत्, ] ४ कारणमसत् कार्यमसदिति चतुषु विकल्पेषु द्वयोः पूर्ववत् प्रतिपक्षवादापत्तेस्त्यागादुभयसत्त्वमन्यतर-१२२-२ सत्त्वं च स्यात् । तत्रोभयसत्त्वे तावत् तद् यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे सर्व-15 त्वैकत्वभेदो न स्यात्। मृदेव सर्वं पिण्डशिवकादिघटपिठरकपालादि, कार्यं त्वेकमेव पिण्ड इति वा शिवक इति वाऽनन्यदेकम् । एवं तु कार्यैकत्ववत् कारणैकत्वमपि स्यात् । अथ न कार्यैकत्ववत् कारणैकत्वं सच्च कार्यमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत् कारणम् , असत् , सद्विलक्षणत्वादुदुम्बरपुष्पवत् , इतरो निवृत्तघटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम् , न, असतो वैलक्षण्यादितरेतरासत्त्वात् । अथैवमपि वैलक्षण्ये कारणसत्त्वनिश्चयो न निवर्ततेऽनेकात्मकं च तत् सर्वा- 20 त्मकमित्यर्थः, न तर्येकात्मकत्वात् कार्य सत् । सत्त्व एकात्मकं न भवेत् सत्त्वात् कारणवत्, एतत् प्रथमचक्रकम् । शेषं पूर्ववद्विपर्ययेणेत्यादि यदुक्तं तदपि, अथ न कारणसर्वत्ववत् कार्यसर्वत्वं सञ्च कारणमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत् कार्यम् , असत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् , इतरो घटवत् । ननु र्घटसत्त्वं पटसत्त्वविलक्षणम् , न, असतो वैलक्षण्यादितरेतरासत्त्वात् ; एतद् द्वितीयं चक्रकम् । अतः सर्वात्मकत्वसतः कारणादन्यत् कार्यमेकात्मकत्वात् कुम्भादिव एककणः । एकात्मकत्वसतश्च 25 कार्यादन्यत् कारणं सर्वात्मकत्वात् कणादिव कुम्भ इति ।
तथानुवृत्तिव्यावृत्ती, अनुवृत्तिः 'मृद् मृद्' इति पिण्डशिवकादिषु, व्यावृत्तिः 'घटः पिठरः'
१ समानकारणं य० । दृश्यतां पृ० १६० पं० ४ ॥ २ अससतद्विलक्ष पा० भा० । असतद्विलक्ष डे० लीं० २० ही० । असद्विलक्ष वि० ॥ ३ घटत्वं प्र० ॥ ४ कारण कार्यसत्व प्र० ॥ ५ कार्यमसद्विलक्ष प्र०॥ ६ घटसत्त्वविलक्षणं प्र०॥ ७ तरात् सत्वात् भा० । 'तरातसत्त्वात् य० ॥
नय० २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org