________________
१६८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे तस्मात् कार्य सत् कारणवत्। ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते, न, अव्यक्तत्वाद् वितटीखातहस्तीव पूर्व खननाद् भूगन्धवत् । अत एव च प्रकरणचिन्ता-किं घटादि कार्य सत् ? असत् ? अप्रत्यक्षत्वस्य सत्यसति च दर्शनादनेकान्तात्।
5 विरोधापत्तिः। पुनरपि अंसदेवकारे त्वसदनवधृतेः पूर्वदोषः । अथोच्यत इत्यादि यावत् कार्यासत्त्ववैल
क्षण्याद्वा कारणवदिति स एव ग्रन्थः । उपादानादिमत्त्वविशेषणकृतो विशेष इति, अतः कार्य सदु१२१-२ पादानादिमत्त्वात् कारणस्वात्मवत् , वैधयेणाकाशघटवत् । असञ्च खपुष्पमनुपादानत्वात् खघटवत् , इतरो
निवृत्तघटवत् । तथा सत् कार्य बुद्धिसिद्धत्वाद् निर्वृत्तघटवत्, इतरो नभोघटवत् । असञ्च खपुष्पं बुद्ध्यसिद्धत्वात् खघटवत् , इतरो निर्वृत्तघटवत् । एवं सामान्यविशेषाभ्यामपि योज्यम् । तस्मात् कार्य सत् 10 कारणवत्, न तु खपुष्पमित्यर्थः ।।
आह - ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते । त्वत्परिकल्पितं मृत्पिण्डावस्थायां कार्य घटाख्यं प्रत्यक्षं स्यात्, सत्त्वात् , कारणवत् मृत्पिण्डवदित्यर्थ इति । अत्रोच्यते - न, अव्यक्तत्वात् । नैष दोषः, कस्मात् ? अव्यक्तत्वात् , तस्यां हि मृत्पिण्डावस्थायां घटोऽनभिव्यक्तत्वादिन्द्रियैर्नोपलभ्यते वितटी
खातहस्तीव पूर्व खननात्, त एव हि मृदवयवा भित्तिगताः खननात् प्रागपि विद्यमानाः खननोत्तर15 कालं हत्याकारव्यपदेशं लभन्ते, न च ते प्रागभिव्यक्तेरनुपलब्धत्वान्न सन्ति । अथवा कार्य सत्यपि १२२-१ ह्यव्यक्ते भूगन्धवदप्रत्यक्षत्वं कार्यस्य, यथा भुवो गन्धो विद्यमानोऽपि न घ्राणेन्द्रियगोचरमागच्छत्य
व्यक्तत्वात् , सलिलसिक्तस्तूत्तरकालमभिव्यक्त उपलभ्यते, तथा मृदवस्थायामप्रत्यक्षो घटः कुलालप्रयत्नदण्डचक्रसूत्रादिकारणाभिव्यञ्जितः पश्चादुपलभ्यते, अतस्तस्य प्रत्यक्षत्वं भवतीति को दोषः ? अत एव च
प्रकरणचिन्तेति प्रकरणसमदोषोऽनेकान्तात् , उक्तमनैकान्तिकत्वमस्य हेतोः । यत एव प्रकरणचिन्ता स 20 निर्णयार्थमपदिष्टः सन् प्रकरणसमः [न्या०सू० १।२।७], इह हि घटादेः कार्यस्याप्रत्यक्षत्वादेव चिन्ता
समुत्पन्ना-किं घटादि कार्य सत् ? असत् ? इति, अप्रत्यक्षत्वस्य सति असति च दर्शनाद् मूलोदकादौ खरविषाणादौ चेत्यतो व्यभिचरत्येप्रत्यक्षत्वं तथा सत्त्वमपि प्रत्यक्षाप्रत्यक्षयोर्दर्शनात् सतोऽप्रत्यक्षस्य मेरूत्तरकुरुद्वीपग्रहगृहीतग्रहादेः खरविषाणादेश्चासत इत्यनेकान्तादिति । एवं तर्हि दर्शनादर्शनयोः प्रादुर्भावाप्रादुर्भावयोश्च समानः प्रकरणसमदोष इति चेत् , न, जन्मप्रकाशविषयविशेषस्योक्तत्वात् । उपादानादि25 मत्त्वाविशेषाच्च त्वत्पक्षे न समानो दोष इति ।
१ दृश्यतां पृ० १६५ पं० ३॥ २ अथोच्यतेत्यादि य० । अत्र 'अथोच्येतेत्यादि' इति पाठः स्यात् । दृश्यतां पृ० १६५ ५० ४ ॥ ३ दृश्यतां पृ० १६७ पं० २ ॥ ४°त्वात् घट प्र० ॥ ५ नात् एव हि भा० । नात् एवं हि य० ॥ ६ खननेनोत्तरकालं भा० ॥ ७°कान्तत्वात् य० । अत्र 'अनै कान्तिकत्वात्' इत्यपि पाठः स्यात् ॥ ८ ससोदसदिति अप्रत्यं य० । ससोदसति अप्रत्य भा०। ९ वेत्यतो पा० ही० २० भा० ॥ १० °त्यप्रत्यक्षणं तथा पा० २० ही० भा० । त्यप्रत्यक्षाणं तथा डे० लीं० वि०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org