________________
असत्कार्यवादे दोषाभिधानम्] द्वादशारं नयचक्रम्
१६७ कालकार्यवत् । कार्यवच्चाभवदपि खपुष्पमसन्न स्याद् निःसामान्यनिर्विशेषत्वात् सामान्यविशेषवत्, कायोसत्त्ववैलक्षण्याद्वा कारणवत् । ___अथ न कार्योपादानादिमत्त्ववत् खपुष्पस्याप्युपादानादिमत्त्वमसच कार्यमिति निश्चितमित्यादि पूर्ववच्चक्रकद्वयप्रवर्तनम् । उपादानादिमत्त्वविशेषणकृतो विशेषः।
15
कालं निर्वृत्तमपि तदसदेव स्यात् कारणकालवदिति । कार्यवच्चाभवदपि खपुष्पमसन्न स्यात्, कार्य-5 प्रादुर्भावप्रकारेणाभवदपि तस्मिन्नभवनप्रकारविशेषे सत्यपि सत् प्राप्नोति खपुष्पं निःसामान्यनिर्विशेषत्वात् , तद्धि खपुष्पं निःसामान्यं निर्विशेषं चेति सिद्धम् , अतस्तस्य निःसामान्यनिर्विशेषत्वात् सत्त्वं स्यात् । को दृष्टान्तः ? सामान्यविशेषवत् । कार्यवदिति सिद्ध वैशेषिकमतालम्बनेन सामान्यविशेषदृष्टान्तो निःसामान्यनिर्विशेषाणां सामान्यविशेषाणां वस्तुत्वं खपुष्पतुल्यमेवेति काका दर्शितं भवति । प्रकृतार्थोपनयस्तु यथा सामान्यविशेषो घटत्वादिनिःसामान्यो निर्विशेषश्च संश्चेति सिद्धस्तथा खपुष्यमपि सत् 10 स्यात् । किञ्चान्यत् , कार्यासत्त्ववैलक्षण्याद्वा कारणवत् 'असन्न स्यात् खपुष्पम्' इति वर्तते । कार्यस्य घटादेरसत्त्वेन खपुष्पस्याप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषत्ववैलक्षण्यात् खपुष्पमपि सत् १२१-१ स्यात् कारणवत् । एतैश्च प्रकारैः सिद्धमेव कार्यासत्त्ववैलक्षण्यमिति सिद्धो हेतुः । निर्वृत्तत्वादिप्रकारेण च कारणस्य तद्वैलक्षण्यं सिद्धमिति साधर्म्य कारणखपुष्पयोः । कारणं वा खपुष्पवत् कार्यासत्त्ववैलक्षण्यादसत स्यात् कार्यस्यासत्त्वं वा त्याज्यमित्यभिप्रायः । ___अंथ न कार्योपादानादिमत्त्ववदित्यादि । अथ भवता खपुष्पसत्त्वप्रसङ्गदोषभयाद् युक्तप्रतिपादनमपि कार्योपादानादिमत्त्ववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते, आदिग्रहणाद् बुद्धिसिद्धसामान्यविशेषवत्त्वानि नेष्यन्ते, इदं कार्यस्यासाधयं खपुष्पेण सहेष्यते, असच्च कार्यमिति निश्चितमित्यादि पूर्ववच्चक्रकद्वयप्रवर्तनमिति ग्रन्थमतिदिशति तमेव । कथं पुनर्भाव्यते, यदि कार्योपादानादिमत्त्ववत् खपुष्पस्योपादानादिमत्त्वं नेष्यते कार्य चासदिति निश्चितम् , 20 तद्वैलक्षण्यादनुपादानादिलक्षण्याद् न तासत् खपुष्पम्, संदसद्विलक्षणत्वाद् घटवत्, इतर उदुम्बरपुष्पवत् । ननु घटासत्वं पटासत्त्वविलक्षणम्, न, सतो वैलक्षण्यात् । अथैवमपि चैलक्षण्ये खपुष्पासत्त्वविनिश्चयो न निवर्ततेऽनुपादानादिमत्त्वात्, न त पादानादिमत्त्वात् कार्यमसत्, असत्त्वे नोपादानादिमत् स्यात् खपुष्पवत्, एतदविपर्ययचक्रकम् । शेषं पूर्ववदेव विपर्ययेण । अतः सत् कार्यमु-१२१-२ पादानादिमत्त्वाद् निर्वृत्तघटवत्, वैधयेणाकाशवटवदित्यादिरपि यावत् सदाश्रयत्वात् सत्वं घटव 25 दिति, एतद्विपर्ययचक्रकमेवमुभयासत्त्वे । अन्यतरासत्त्वे तु अथैतत् साम्यमुभयासत्त्वान्मा भूदित्यन्यतरासत्त्वं कार्यसत्त्वाभ्युपगमपरिहारेण कार्यमेवासदिति, अत्र कार्यसमीप इत्यादि यावत् स्ववचनादि
१ दृश्यतां पृ० १६८ पं० ५॥ २ लम्बनसामान्य प्र० ॥ ३ षवैल प्र० ॥ ४ अन कार्यो प्र० ॥ ५ °युत्फप्रति भा०॥ तदसद्विल प्र० । दृश्यतां पृ० १६१ पं० ७॥ ७°मत्कार्यमसत् भा० ॥ ८ एतदपिपर्यय प्र०॥ ९ इत्यादिरपि ग्रन्थ इत्याशयः ॥ १० दृश्यतां पृ० १६४ पं० १॥ ११ दृश्यतां पृ० १६४ पं०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org