________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति नावधारणकृतो दोषो नापि पूर्वस्तुल्यत्वापत्तिदोषः, अनेकविषयत्वात्तुल्यत्वस्य । ___ एवमप्येकत्वाद्विशेषाभावः । यथैव हि खपुष्पमनुपादानमबुद्धिसिद्धं निःसामान्यं निर्विशेषं च एवं कार्यस्योपादानं बुद्धिसिद्धत्वं सामान्यविशेषवत्त्वं 5 च न स्यात् ।
अथ सामान्यविशेषोपादानवुद्धिसिद्धत्वसद्भावासद्भावी कार्यखपुष्पयोरिष्येते खपुष्पवदभवदपि तदसदेव, निवृत्तमपि तह्यसत् सामान्यविशेषवत्त्वात् कारण
दविशेषात् कारणकाले यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति । ततः किं परिहृतमिति चेत् , नावधारणकृतो दोष इत्यवधारणदोषः परिहृतो भवति । 'कार्यमेवासत् , असदेव कार्यम्' इत्यवधार्यमाणे 10 खपुष्पसत्त्वं कार्यखपुष्पयोरविशेष इत्येतौ दोषौ तयोरविशेषाभ्युपगमान्न स्त इति । नापि पूर्वस्तुल्यत्वा१२०१ पत्तिदोषः कार्यस्यायत्यामनाविर्भावः खैपुष्पस्याविर्भाव इत्यविशेषः । अस्यापि तुल्यत्वापत्तिदोषस्या
भावोऽसतो विशेषाभावादनेकविषयत्वात् तुल्यत्वस्य, 'अयमनेनाभ्यामेभिरिमाविमे वार्थास्तुल्याः' इति हि तुल्यत्वमनेकविषयं दृष्टम् , न हि तदेव तेन तुल्यमिति ।
अत्रोच्यते - एवमप्येकत्वाद् विशेषाभाव इति, त्वयैव कार्यखपुष्पयोरसत्त्वाविशेषोऽभ्युपगत 15 एकरूपत्वादवस्तुन इति तदवस्थ एवाविशेषदोषः । तस्यैवेदानीमविशेषदोषस्यापादनार्थं विकल्प्यतेऽन्यदनिष्टापादनम् - यथैव हीत्यादि । यथैव खपुष्पस्योपादानं पूर्वदृष्टश्रुतानुभूतं बुद्धौ सिद्धं वाकारादिविशिष्टत्वं नास्तीत्यनुपादानमबुद्धिसिद्धं च खपुष्पम् , ततः किम् ? अनुपादानाबुद्धिसिद्धत्वाभ्यां तद् निःसामान्यं निर्विशेषं चेति सिद्धमेवं घटादेः कार्यस्य मृदाद्युपादानं बुद्धिसिद्धत्वं सामान्यविशेषवत्त्वं
च न स्यात् , तच्च मृद एव येनाकारेण भवनं देशकालनवपुराणकृष्णरक्तत्वादिघटभेदेऽपि तुल्यतया 20 सामान्यं विशेषश्च पटादिभ्यः । तँच्च खपुष्पस्योपादानबुद्धिसिद्धत्वसामान्यविशेषवत्त्वं च स्यात् , उभयोनिरुपाख्यत्वात् । न त्वेतदिष्टम् । तस्मादस्त्यनयोर्विशेष इति सत् कार्यम् ।
__ अथ सामान्यविशेषोपादानबुद्धिसिद्धत्वसद्भावासद्भावौ कार्यखपुष्पयोरिष्येते त्वया १२०-२ विशेषौ, खपुष्पवदभवदपि तदसदेव । खपुष्पवदिति येन प्रकारेण खपुष्पं न भवति नोत्पद्यते तेन
प्रकारेणाभवदपि अन्यथा भवदपि उत्पद्यमानं कदाचिदृश्यमानमपीत्यर्थः, उपादानबुद्धिसिद्धत्वसामान्यविशेषवत्त्वप्रकारेण भवदपि तत् कार्यमसदेवेष्यते, ततश्चैवं सति अयमपरो दोषः-निवृत्तमपि तीसत् 'कार्यम्' इति वर्तते, सोपादानबुद्धिसिद्धत्वसद्भावेऽपि । कस्मात् ? सामान्यविशेषवत्त्वात् कारणकालकार्यवत् , यथा कारणकाले कार्यमसत् त्वन्मतेन सामान्यविशेषवदपि सोपादानं बुद्धिसिद्धमपि तथोत्तर
१ दृश्यतां पृ० १६२ पं० २ ॥ २ दृश्यता पृ० १६१ पं० ५॥ ३ तुल्यस्य प्र०॥ ४ पादाबुद्धि य ॥ ५°विशेषत्वं च प्र०॥ ६ अत्र तेनाकारेण इत्यपि पाठः स्यात् ॥ ७वच्च प्र० । अत्र 'तच खपुष्पस्योपादानं बुद्धिसिद्धत्वं सामान्यविशेषवत्त्वं च स्यात्' इत्यपि पाठः स्यात् । ८°द्धत्वसद्भावौ कार्य प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |