________________
१६५
असत्कार्यवादनिराकरणम् द्वादशारं नयचक्रम् ऽसदिति असतश्च सदिति संज्ञा क्रियते, कार्यासत्त्वं खरविषाणविपरीतघटादीनामसत्त्वेन तुल्यम् , नाममात्रे विसंवादः । कार्यसत्त्वनिवृत्त्येकान्तत्यागाच खवचनादिविरोधापत्तिः । असदेवकारे त्वसदनवधृतेः पूर्वदोष एव ।
अथोच्येत - असत्त्वादेव तयोः कारणकाले न कश्चिद् विशेषोऽस्ति, यदेव
११९-१
तथा चेत्यादि यावद् नाममात्रे विसंवादः । एवं च कृत्या कार्यमसत् खरविषाणं सदिति सङ्गीत्या 5 सतोऽसदिति असतश्च सदिति संज्ञा क्रियते । कार्यासत्त्वमिति ततः खरविषाणविपरीता ये निर्वृत्ता घटादयस्तेषां घटादीनामसत्त्वेन तुल्यम् , कार्यस्यासत्त्वं सतामेवासत्त्वेन तुल्यं विपरीतं नाममात्रमग्नेर्मङ्गलनामवत्, न चात्र कश्चिदर्थस्य सत्त्वे विसंवादोऽसत् कार्यमिति । किञ्चान्यत् , कार्यसत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधापत्तिः। कार्यसत्त्वनिवृत्तिः कार्यासत्त्वम् , तदवधारणमेकान्तः, कार्यमेवासदिति तस्य त्यागोऽनन्तरोक्तविधिना प्राप्तः, ततश्च कार्यसत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधा-10 पत्तिः । स्ववचनविरोधस्तावत् तदेव कार्यमसदित्युक्त्वा तस्यैवकारसामर्थ्यात् सत्त्वापादनात् तदेव सत् तदेवासदिति ब्रुवतः । अथवा यदि कार्य कथमसत् ? अथासत् कथं कार्यम् ? क्रियते घटो घटतया व्यज्यते दीपेनेव क्रिययेति वक्ष्यति । तथाभ्युपगमादभ्युपगमविरोधः । तथा लोके प्रसिद्धत्वाल्लोकविरोधः । तत्त्व एव तथाभूतेरनुमानविरोधः । तथा मृत्पिण्डघटादिकारणकार्यदर्शनात् प्रत्यक्षविरोधः । एवं तावत् 'कार्यमेासत् , न खपुष्पादि' इत्यवधारणदोषः ।
15 'कार्यमेवासत् , न कारणम्' इत्यस्यावधारणस्य प्रतिपक्षवादापत्तेरथैवमवधार्यते 'कार्यमसदेव' इति । तत्रापि यत एवकारस्ततोऽन्यत्रावधारणमित्यसत्समीप एवकारात् कार्यमसत्त्वेनावधार्यते 'कार्य ११९-२ नियमादसत् , असत्तु कार्य वा स्यात् खपुष्पादि वा' इत्येवमेसदेवकारे त्वसदनवधृतेः पूर्वो दोषो योऽसत्त्वाविशेषादित्यादिः स एव, कार्यखपुष्पयोरसत्त्वे आयत्यामाविर्भावानाविर्भावकृतो विशेषो न स्यादित्यविशेषापत्तिदोषः प्रागुक्तः स एवात्रापि ।
20 अथोच्यतेत्यादि । अविशेषापत्तिदोषस्य च परिहारार्थमैथोच्यते त्वयेति परैमतमाशङ्कते, कथम् , असत्त्वादेव तयोः कार्यखपुष्पयोः कारणकाले विशेषासम्भवः, यथा खपुष्पमसत् तथा कारणकाले कार्यमप्यसदेवेति नानयोः कश्चिद् विशेषोऽस्ति, न ह्यसतो निरुपाख्यस्य खपुष्पस्य वृन्तफलकेसराद्यवयवसौरभादिविशेषाः खरविषाणकुण्ठतीक्ष्णत्वादिभ्यो भिन्नलक्षणाः सन्त्युभयेषामवस्तुत्वान्निरुपाख्यत्वाञ्चेत्यस्मा
१ संगत्या य० । दृश्यतां पृ० ५०९-१॥ २ चाव प्र.। ३ कारणसा भा० ॥ ४ प्रथमसत् वि० । प्रथमंसत् वि. विना ॥ ५ दीत्यमेव क्रियेति प्र० । दृश्यतां पृ० १२४-१ ॥ ६°वसत् य० ॥ ७ अवधारणकृतो दोष इत्यर्थः । तुलना पृ० १६६ पं० ९॥ ८ कार्यनयमासदत् भा० । कार्यनयमासत् य० ॥ ९ दृश्यतां पृ० १६८ ५० ५, ३०६-२, ५०९-२॥ १० दृश्यतां पृ० १६१ पं० ४ ॥ ११ दृश्यतां पृ० १६३ पं० ७ ॥ १२ अत्रोच्येत्येत्यादि सविशेषा य० । अत्रोच्येत्योदि सविशेषा भा० । दृश्यता पृ० ३०६-२ ॥ १२ मथोच्यतेत(तेऽत्र ?) त्वयेति भा० । 'मर्थोच्यतेतत्वयेति य०॥ १३ परमार्थमाशङ्कते य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org