________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे वत् । विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात् सत्त्वं घटवदिति सामान्यमेव ।
अथैतत् साम्यमुभयासत्त्वान्मा भूदित्यन्यतरासत्त्वं कार्यसत्त्वाभ्युपगमपरिहारेण कार्यमेवासदिति, अत्र कार्यसमीप एवकार इत्यन्यत्र प्रतियोगिन्यसत्त्वे नियमः- असत्त्वं कार्ये एव नान्यत्रापीति । ततश्च न खपुष्पमसत् । तथा च सतो
5 यस्माच्चतुर्विधोऽसन्निष्यते प्राक्प्रधंसेतरेतरात्यन्ताभावाख्यो घटस्य मृत्पिण्डादिकपालादिपटादिखरविषाणादिवदिति । अत्रोच्यते - विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात् सत्त्वं घटवदिति । अपिशब्दोऽनभ्युपगमं दर्शयति, नैवाभावस्य खरविषाणवन्ध्यासुतादेः परस्परतो 'विशेषोऽस्त्यवस्तुत्वात् त्वन्मतेनैव, अस्मन्मतेन तु वस्तुत्वमभावस्यापि कस्यचित् प्रमेयत्वसामान्यविशेषवत्त्वादिहेतुभ्यस्त्वदभ्युपगतेभ्यः प्रमाणवत् । अतस्त्वन्मतेनैवाभावस्य भावाद् विशेषः परमार्थतो नास्ति । अभ्युपेत्यापि ब्रूमः - विशेषोन्नयनेऽपि तु येन 10 केनचित् प्रकारेण सदाश्रेयोऽसावभावस्त्वत्परिकल्पितश्चतुर्विधोऽपि विशेषत्वाद् रूपादिवद् घटवत् । ततश्च विशेषस्य सदाश्रयत्वात् सत्त्वं घटवत् , यथा घटः सन्तं पृथिव्याद्यर्थमाश्रित्य वर्तमानः सन्नेव वमेव वात्मा
नमाश्रित्य वृत्तेः सन्नेवं विशेषोऽपि सदाश्रयत्वात् सन्निति । इतिशब्दो हेतुदृष्टान्तदा न्तिकोपसंहारे, इत्थं ११८२ भावाभावयोः सामान्यमेव, न विशेष इति । एवं तावत् कार्यखपुष्पयोरुभयोरसत्त्वमेव वेति साम्यमापादितम्।
द्वितीयविकल्यो विचार्यते - अथैतत् साम्यमित्यादि । अथैतदापादितं सामान्यमनिच्छता कार्य15 सत्त्वपरिहारेण उभयासेत्त्वाभ्युपगमादायातमिदमन्यतरासत्त्वं कार्यसत्त्वपरिहारेणाभ्युपगम्यते प्रतिपक्षवादादन्यत् पूर्वोक्तद्वयान्यतरविशिष्टम् , किं तत् ? कार्यमेवासदिति, अवश्यं द्वयोरन्यतराभ्युपगमेऽवधारणमापद्यते, तच्चावधारणं यत एवकारस्ततोऽन्यत्रावधारणम् [ ] इति परिभाषितत्वाच्छास्त्रेषु लोके च दृष्टत्वादवधारणफलत्वाच्च वाक्यस्यैतदुपपद्यते - कार्यसमीप एवकार इति 'कार्यमेवासत्' इति कार्यशब्दसमीप एवकारप्रयोगात्, इतिशब्दस्य हेत्वर्थत्वात् , अन्यत्र प्रतियोगिनि असत्त्वे नियमः, 20 असच्छब्दवाच्येऽर्थे खपुष्पादौ नियमस्तत्र एवकाराभावात् , न कार्यशब्दार्थे । यथा वृक्षश्चत इत्यत्र चूतो नियमादृक्षः, वृक्षस्तु चूतोऽन्यो वा स्यादित्यनियमः, तथेहापि कार्यमेवासत् , न खपुष्पाद्यकार्यमसत् , किं तर्हि ? सेत् , न तु 'असदेव कार्यम्' इति नियम्यते, यदि सदपि कार्यं स्यादस्तु, को दोषः ? इति तद्दर्शयति - असत्त्वं कार्य एव, नान्यत्रापीत्यकार्ये खपुष्पादाविति । इतिशब्दो हेत्वर्थे, अस्मादवधारणाद्धेतोरित्यर्थः । एवं सति को दोष इति चेत्, उच्यते - ततश्च न खपुष्पमसदिति प्रसक्तं दृष्टेष्टविरुद्धं सत्त्वं खपुष्पस्येत्यर्थः
१ दृश्यतां पृ० १६७ पं० २६ ॥ २ प्राक्प्रध्वंसेतरात्यन्ता प्र०॥ ३ विशेषोस्यवस्तुत्वात् प्र० ॥ ४भावाभावाद भा०॥ ५ श्रयाभावस्त्व य०॥ ६ स्व(स्वी )यमेध प्र०॥ ७ अथैव तत्साम्य प्र० । दृश्यतां पृ० १६७ पं०२६, ३०६-२ ॥ ८°च्छत प्र० ॥ ९ सत्वभ्युप भा० । अत्र 'अथ कार्यसत्त्वपरिहारेण उभयासत्त्वाभ्युपगमादायातमेतदापादितं सामान्यमनिच्छता' इत्यन्वयविवक्षायाम् 'उभयासत्त्वाभ्युपगमात्' इति य०प्रतिपाठः साधुरेव । 'कार्यसत्त्वपरिहारेण उभयासत्त्वाभ्युपगमादायातमिदमन्यतरासत्त्वं कार्यसत्त्वपरिहारेण' इत्यन्वयविवक्षायां तु 'उभयासत्वानभ्युपगमात्' इत्येव पाठोऽत्र कल्पनीयः, स एव च शुद्ध इति ध्येयम् ॥ १० तर(रा?)वशिष्टम् भा० ॥ ११ वृक्षश्च इत्यत्र भूतो य० ॥ १२ सत्तच्चसदेव कार्यम् प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org