________________
असत्कार्यवादनिराकरणम्] द्वादशारं नयचक्रम्
१६३ अतः कार्य सत्, आविर्भावात्मकत्वात् , निर्वृत्तघटवत् ; वैधय॒ण आकाशघटवत् । असच खपुष्पम् , अनाविर्भावात्मकत्वात्, खघटवत्; वैधयेण निवृत्तघटवत् ।
तुल्ये वाऽसत्त्वे विशेषो वक्तव्यः, अविशेषे वैलक्षण्यानुपपत्तेर्घटघटखात्म[ ], प्रादुर्भवति प्रकाशं भवति गृह्यते ज्ञायते उत्पद्यते जायत इति वा तैथाविर्भवतीति, एवं चाप्रादुर्भावात्मकस्य खपुष्पस्यासत्त्वेऽर्थादापन्नम् - न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसत् , सदेवेत्यर्थः । को दृष्टान्तः ? निवृत्तघटवत् , यथा निर्वृत्तो घटः प्रादुर्भावात्मकत्वात् प्रकाशात्मकत्वात् सन्नेव तथा कार्यमपि सत् । अस्याश्चार्थापत्तेरैकान्तिकत्वान्न जात्युत्तरता, यथा गेहे देवदत्तस्याभावे स्थितिमतो बहिर्भावानुमानमर्थापन्नमैकान्तिकत्वान्न जातिवादः । अस्माकं त्वत्राभिप्रायः - सदेव कदाचिदुपलभ्यते जायते ११७-२ वा नात्यन्तासदिति, दर्शनादर्शने च सद्विषये नात्यन्तासद्विषये इत्येतदुत्तरत्र दर्शयिष्यामो विचारस्यास्य तत्फल-10 त्वात् । अथैवमपि त्वया कार्यस्य सत्त्वं नेष्यते ततोऽसत्त्वे कार्यस्यायत्यां न प्रादुर्भवेत् कार्यमसत्त्वात् खपुष्पवत्, प्रादुर्भवति तु, तस्मात् सत् । शेषं पूर्ववदेव विपर्ययेणेत्यतीतग्रन्थमतिदिशति । विपर्ययेणेत्यर्थतः शब्दतस्तद्वयोर्विपर्ययेण योज्यः । तद्यथा-अथ न खपुष्पाप्रादुर्भाववत् कार्याप्रादुर्भावोऽसच्च कार्यमिति निश्चितम् , न त_सत् कार्यम् , सदेव तत्, असद्विलक्षणत्वाद् घटवत्, इतर उदुम्बरपुष्पवत् । ननु घटासत्त्वं पटासत्त्वविलक्षणम् , न, सतो वैलक्षण्यात् । अथैवमपि वैलक्षण्ये कार्यासत्त्वविनिश्चयो न 15 निवर्तते प्रादुर्भावात्मकं च तत् , न तर्हि प्रादुर्भावात्मकत्वादसत् कार्य निर्वृत्तघटवत् , असत्त्वे आयत्यां न प्रादुर्भवेदसत्त्वात् खपुष्पवदिति ।
तदुपसंहारार्थमाह - अतः कार्य सत् , आविर्भावात्मकत्वात् , निवृत्तघटवत् ; वैधयेण आकाशघटवत् , आकाशमेवाकाशस्याकाशे वा घट आकाशघटः, स त्वनाविर्भावात्मकत्वान्नास्ति, न तथा कार्यमनाविर्भावात्मकम् , तस्मात् तत् सदिति । असच्च खपुष्पम् , अनाविर्भावात्मकत्वात् , 20 खघटवत्; वैधhण निवृत्तघटवदिति तयोः सदसतोः कार्यखपुष्पयो(लक्षण्यं दर्शयति ।।
___ यदि भवन्मतेन कार्यखपुष्पयोरसत्त्वमेव तुल्यं तुल्ये वाऽसत्त्वे विशेषो वक्तव्यः- अस्माद् विशेषहेतोः कार्यमसत्त्वे सत्यपि प्रादुर्भवति न तु खपुष्पमिति । नोच्यते चेद् विशेषहेतुः, अविशेषोऽनयोः । ११४-१ अविशेषे च वैलक्षण्यानुपपत्तिः खपुष्पखरविषाणयोरियासतोः, दृष्टं च वैलक्षण्यमायत्यां प्रादुर्भावाप्रादुर्भावाभ्याम् , तत्तु अविशेषे तयोपिपद्यते । तस्माद्धेतोरविशेषे वैलक्षण्यानुपपत्तेर्घटघटस्वात्मवत् , यथा घट 25 एव घटस्वात्मेति तयोर्न वैलक्षण्यमविशिष्टत्वादेवमविशेषः स्यात् , न तु भवति दृष्टत्वादुक्तत्वाचाविर्भावानाविर्भावयोः । तस्मात् तयोर्यथासङ्ख्यं सत्त्वमसत्त्वं चावश्यमेषितव्यम् । इतर आह-नैवास्यविशेषोऽसतोऽपि,
१ प्रकाशां भा० ॥ २ उद्यते य०॥ ३ तेथावि पा० २० ही० । तेष्वावि वि० डे० ली० ॥ ४ कस्वपुष्प भा०॥ ५ पनम् प्र०॥ ६°मतो हिभावानु य० ॥ ७ नात्यन्तासद्विषये य० प्रतिषु नास्ति ॥ ८ सतत् भा० ॥ ९ तुलना पृ० १६१ पं०६॥ १० वात्स्वघटवत् भा०। त्वात् घटवत् य० ॥ ११ भवन्मने भा० । अत्र 'भवन्मते' इत्यपि पाठः स्यात् ॥ १२ कार्यमत्वे प्र०॥ १३ प्रादुर्भावात्य तत्तु भा० । प्रादुर्भवत्यां तत्तु य० ॥ १४ चाविर्भावयोः प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org