________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे अथैवमपि वैलक्षण्ये खपुष्पासत्त्वनिश्चयो न निवर्ततेऽप्रादुर्भावात्मकं च तत्, न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसद् निवृत्तघटवत् । असत्त्व आयत्यां न प्रादुर्भवेत् , असत्त्वात् , खपुष्पवत् । शेषं पूर्ववदेव विपर्ययेण।
सत्त्वं पटात्मना, पटासत्त्वं घटात्मनेति तयोरितरेतराभावलक्षणासत्त्वं वैलक्षण्यं च परस्परतो दृष्टम् , तौ च 5 घटपटौ सन्तौ, तस्मादसवैलक्षण्यस्य सत्यपि दर्शनादनैकान्तिकतेति चेत्, उच्यते-न, सतो वैलक्षण्यात् । ११६-२ नानैकान्तिकतास्य हेतोः, सतो वैलक्षण्यात् । सत एव वैलक्षण्यम् , तद्धीतरेतराभावात्मकं वैलक्षण्यं सत
एव, नासतः । तस्मादसतो वैलक्षण्यं न भवति, किं तर्हि ? सद्वैलक्षण्यमपि तत् सत एवेतरापेक्षया तद्रूपेणासत्त्वात् । अयं तु कार्यस्यायत्यां प्रादुर्भावोऽसता खपुष्पेणात्य॑न्तविलक्षणोऽप्रादुर्भावश्च खपुष्यस्य
कार्येणासतेति नास्ति सतो वैलक्षण्यं सता तद्विशेषधर्मत्वाद् रूपादिविशेषधर्मावलक्षण्यवत् । अथवा 10 संतोऽवैलक्षण्यात् , सतः अवैलक्षण्यात् । सतस्तु घटादेः पटादिना सह वैलक्षण्यं नास्त्येव, सत्त्वान्धयाविशेषाद् देशकालाकारादिमात्रविशेषस्याविशेषत्वात् , अमुल्यादिविशिष्टाकाशाविशेषवत् ।
अथवा न तद्यसत् खपुष्पम् । कस्माद्धेतोः ? सदसद्विलक्षणत्वात् , सताऽसता च विलक्षणत्वात् । सच्च द्विविधम् - तुल्यजातीयं घटस्य घट एव, अतुल्यजातीयं पटादि । अंसच्च कार्यमायत्यां भावाद
ङ्करादि । खपुष्पमत्यन्ताप्रादुर्भावात् कार्येणासता विलक्षणं सता च घटपटादिना त्वन्मतेन इतरेतराभाव15 वैलक्षण्येन तुल्यजातीयेन [अंतुल्यजातीयेन ] च भावानां परस्परवैलक्षयवद्, दृष्टान्तो घटवदिति, यथा
घटस्तुल्यजातीयेभ्यो घटान्तरेभ्योऽतुल्यजातीयेभ्यश्च पटादिभ्यः सद्भयो विलक्षणोऽसतश्च खपुष्पादेः संश्च ११७-१ दृष्टस्तथा खपुष्पं घटवत् सदसद्विलक्षणत्वान्नासत् , सदेवेत्यर्थः, द्विः प्रतिषेधः प्रकृतिं गमयतीति कृत्वा ।
इतर उदुम्बरपुष्पवत् , यदसत् तन्न सदसद्विलक्षणम् , यथोदुम्बरपुष्पम् । त्वन्मत्यैवात्रापि वैधर्म्यदृष्टान्तः, खपुष्पखरविषाणोदुम्बरपुष्पादीनामसत्त्वाविशेषादनिष्टापादनसाम्यात् साध्यान्तःपाती । तस्माद् 20 वैधर्म्यदृष्टान्तेन नार्थः । अस्तु तदा सद्विलक्षणत्वमितरेतराभावापेक्षत्वात्, कथमसद्विलक्षणं खपुष्पमिति
चेत् , आयत्यां प्रादुर्भवता कार्येणासता वैलक्षण्यस्य त्वयैवाभ्युपगतत्वात् त्वन्मतनिवारणार्थत्वादस्य प्रयासस्य नास्माकं दोष इति ।
- अथैवमपीत्यादि । अथ ते प्रादुर्भावाप्रादुर्भाववैलक्षण्ये सत्यपि कार्यखपुष्पयोः 'असदेव खपुष्पम्' इत्ययं निश्चयः 'असद्वैलक्षण्याद् घटवत् सद् भवतु' इत्यस्मान्यायान्निवर्यमानोऽपि न निवर्तते, 'अप्रादु25 र्भावात्मकं च तत् खपुष्पम्' इत्येतच्च बैलक्षण्यमिष्यत एव, प्रादुः प्राकाश्ये जन्मनि च, तथाऽऽविः
१ नादिकैकान्तिकतेति वि० । 'नादेकैकान्तिकतेति वि० विना ॥ २ नामैकान्ति वि. विना ॥ ३ तत्सत्त डे० ली० । तत्सतं पा० । तदाक्षं २० ही० । तत्सत्वं वि० ॥ ४त्यन्तं वि वि० २० ही० ॥
येण सतेति प्र०॥६सतो प्र०॥ ७ कोगाविशेषवत वि. विना। प्रकांताविशेषवत वि० ।। ८ असच्चर कार्य प्र० ॥ ९ अतुल्यजातीयेन इति पाठो यद्यपि कुत्रापि प्रतिषु नास्ति तथाप्यावश्यक इति भाति ॥ १० °ण्यवद दृष्टांतो भा० वि० । ण्यवच दृष्टांतो पा० डे. ली. २० ही०॥ १२ भ्यश्च सद्भ्यो य० ॥ १२ नसत्यदेवेत्यर्थः प्र० ॥ १३ यदसत्तंत सद्विलक्षणम् प्र० ॥ १४ पाति प्र० । अत्र 'साध्यान्त पातित्वात्' इत्यपि पाठः स्यात् ॥ १५ तविचारणार्थ भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org