________________
असत्कार्यवादनिराकरणम्] द्वादशारं नयचक्रम् तदसमर्थविकल्पत्वात् , घटपटवत् । विकल्पासामर्थ्य चासत्कार्ययोः सिद्धमेव । चतुर्पु विकल्पेषु कार्यखपुष्पयोरुभयोरसत्त्वं कार्यासत्त्वमेव वेत्येतद् विकल्पद्वयं स्यात्, उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एवेति वादाभावात् ।।
तद्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेवाविशेषे कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यादसत्कार्यवत् ।
अथ न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भावोऽसच्च कार्यमिति निश्चितम् , तद्वै- . लक्षण्यान्न तयसत् खपुष्पम् , सदसद्विलक्षणत्वाद् घटवत्, इतर उदुम्बरपुष्पवत् । ननु घटासत्वं पटासत्त्वविलक्षणम् , न, सतो वैलक्षण्यात् ।
___ स्यान्मतम् - असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धम् , तन्न, सिद्धमेव, यस्माद् विकल्पासामर्थ्य चासत्कार्ययोरसतः कार्यस्य च सिद्धमेवेति गृहाण, विकल्पचतुष्टये द्वयोरेव सम्भवात् । असत् खपुष्पम् , 10 कार्यमङ्करादि, तयोर्विकल्याश्चत्वारः-१ खपुष्पमसत् कार्यमप्यसत् , २ खपुष्पं सत् कार्यमसत् , ३ खपुष्पमसत् कार्यं सत्, ४ खपुष्पं सत् कार्यमपि सत्, इत्येषु चतुर्यु विकल्पेषु कार्यखपुष्पयोरुभयोरसत्त्वं कार्यासत्त्वमेव वेत्येतद्विकल्पद्वयं स्यात् सम्भवेत् । किं कारणम् ? उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव, सत्कार्यवादः प्रतिपक्षोऽसत्कार्यवादस्य, इतिशब्दो हेत्वर्थे, इत्यस्माद्धेतोर्वादाभावः, तस्माद् वादाभावादुमयाभावकार्याभावविकल्पावेव सम्भवेताम् , नेतरौ ।
__15 ___ततश्च तयोरुभयासत्त्वकार्यासत्त्वविकल्पयोस्तद् यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेवाविशेषः खपुष्पकार्ययोः, असत्त्वाविशेषादेवाविशेषे कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्या ११६-१ स्यात् , एष्यति कालान्तरेऽस्माद् वर्तमानात् क्षणादन्यस्मिन् क्षणे भवेत् । दृष्टान्तः - असत्कार्यवत् , बीजादकुरवत् । न चैतदृष्टमिष्टं वा 'खपुष्पप्रादुर्भावः' इति ।
अर्थतस्मादनिष्टापत्तिदोषाद् दृष्टेष्टंविरोधादयसर्पन ब्रूयास्त्वम् - न कार्यप्रादुर्भाववत् खपुष्प-20 प्रादुर्भाव इष्यते, असच्च कार्यमिति निश्चितम् । ततः को दोष इति चेत् , उच्यते - तद्वैलक्षण्यान्न तीसत् खपुष्पम् , असत्कार्यवैलक्षण्यान्नेदानीमसत् खपुष्पम् , किन्तु सदिति प्राप्तम् । असत्कार्यवैलक्षण्यं खपुष्पस्यायत्यामप्रादुर्भावः, तस्मादसत्कार्यवैलक्षण्यादायत्यामप्रादुर्भावान्न तसत् खपुष्पम् , किं तर्हि ? सत् , को हेतुः? असद्विलक्षणत्वात् , असता कार्येण सह विलक्षणत्वात् । दृष्टान्तो घटवत् , यथा घटोऽसद्विलक्षणत्वात् सन्नेवं खरविषाणमप्यायत्यां प्रादुर्भवता कार्येण वैलक्षण्यात् सत् प्रसक्तम् । इतर 25 उदुम्बरपुष्पवत् , इतर इति वैधHदृष्टान्तः, यदसत् तदसद्विलक्षणं न भवति यथोदुम्बरकुसुममिति परस्यानिष्टापादनार्थत्वाद सद्वैधयं खपुष्पस्येति । ननु घटासत्त्वं पैटासत्त्वविलक्षणम् । स्यान्मतम् - घटस्या
१ तत्र य०॥ २ सत्वमेवेत्येतद्वि प्र० । दृश्यतां पृ० ३०५-२ ॥ ३°कल्पाभाववेव संभवेतां नेतरो प्र० ॥ ४ विरुद्धाद भा० ॥ ५ इतरे प्र० ॥ ६ पक्षासत्व भा० । पुष्पसत्व य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org