________________
[ द्वितीये विधिविध्यरे
प्रलापवत्, प्रत्यवेक्षाप्रामाण्ययोर्ज्ञानविषयत्वात् त्वन्मतात्तु वेदो न ज्ञानं ततोऽप्रमाणनियमो ऽनुपदेशकश्च, अचेतनत्वात्, आकाशवत् ।
१६०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
यदपि च प्रसह्य कारणेषु फलस्य खपुष्पवदसत्त्वमुच्यते एवंविधेष्वेकान्तेन तदपि चान्याय्यमेव । यदेतदसत्त्वं नाम त्वया क्वचिन्मन्यते ततोऽन्यत् कार्यम्,
5 इति, तथेदमपि विवेक्तुरप्यर्थप्रतिपादनसमर्थं न भवतीति । एवं विचार्यमाणमिदं वाक्यं दोषेभ्यो न मुच्यते । अथवा नैवायं दोषो न च विचारयोग्योऽयमुद्राहः प्रेत्यवेक्षाप्रामाण्येयोर्ज्ञानविषयत्वात्, ११५.१ ज्ञानं हि प्रमाणमप्रमाणं वेति विचार्यते प्रत्यवेक्ष्यते च तत्र प्रामाण्यस्य मुख्यत्वात् न ह्यत्र कुँदुपादिप्रामाण्यवत् प्रामाण्यमङ्गीक्रियते । तस्मात् प्रत्यवेक्षायाः प्रामाण्यस्य च ज्ञानविषयत्वात् त्वन्मतादेव वेद॑स्याज्ञानाभिमतत्वान्न विचारो न प्रमाणभावो वास्ति अज्ञानत्वाद्वेदस्य । त्वया हि प्रागेवोत्पततोक्तम् - न हि किचि - 10ज्ज्ञानं निश्चितं विशुद्धं चास्ति सर्वस्य संशयाद्यज्ञानानुविद्धत्वादिति । तद्दर्शयन्नाह - त्वन्मतात्तु वेदो न ज्ञानं न ज्ञानत इति, न यथा ज्ञानकार्यत्वाज्ज्ञानात्मात्मप्रयुक्तशब्दचैतन्यमपि कार्ये कारणोपचारादन्नकार्यप्राणान्नत्ववदिति वा । ततः किमिति चेत्, अप्रमाणनियमोऽनुपदेशकश्च वेदः, अचेतनत्वात्, आकाशवत् । यथा आकाशमचेतनत्वादप्रमाणं कूटस्थनित्यत्वाच्च न ज्ञानवद्वचनमेवं वेदोऽपीति प्रामाण्योपदेशाभावः ।
15 यदपि च प्रसह्येत्यादि । प्रसह्य बलात्कारेण परं कश्चित् पुरुषमंगणयता एकैवीरं मन्येनाक्रम्य परिभूयास्मन्मतं यदपि च 'अग्निहोत्रं जुहुयात्' इत्यत्र कारणेषु घृतादिध्वितिकर्तव्यतात्मसु स्वर्गादिफलस्य खपुष्पवद सत्त्वमुच्यते एवंविधेष्विति सर्वेतिकर्तव्यतानामादिमध्यावसानेषु तत् पुनरसत्त्वमेकान्तेन 'कथञ्चित् कार्यादिसत्त्वमपि' इत्येतत्पक्ष निरपेक्षं 'सर्वथा नास्त्येव' इति त्वयेष्टं तदपि चान्याय्यमेव । यतो यदेतदसत्त्वं नाम त्वया क्वचिन्मन्यते, नामेति मिथ्याकल्पितनाममात्रमेव तद् यत् त्वया कचित् 20 सत्त्वनिरपेक्षमसदिति चिन्त्यते । कथं पुनरन्याय्यं तदसत्त्वमिति चेत्, उच्यते, न्यायेन बाध्यत्वात् । कतमो न्याय इति चेत्, एवं तर्हि ब्रूमः - ततोऽन्यत् कार्यम्, असतोऽन्यदित्यर्थः । कुतः ? तदसमर्थविकल्पत्वात्, असङ्गतार्थोऽसमर्थोऽसम्बद्धो विकल्प:, तेनासता सह सम्बद्धो विकल्पोऽस्येति तदसमर्थविकल्पं कार्यम्, तस्य कार्यस्यासमर्थविकल्पत्वात् ततोऽन्यत्वम् । किमिव ? घटपटवत्, यथा घटविकल्पाः पृथुबुनोर्ध्वग्रीवादयो मृदुचतुरस्रादिभिः पट विकल्पैरसङ्गताः पटविकल्पाश्च तैरित्यन्यौ घटपटौ परस्परत एव25 मसद्विकल्पैरसङ्गतं कार्यं तस्मात् ततोऽन्यदिति ।
११५-२
१ प्रत्यये प्र० ॥ २ योर्निर्विषयत्वात् य० ॥
स्यात् ॥
३ नुदुपादि य० । अत्र 'कुडपादिवत्' इत्यपि पाठः ४ वेदस्य ज्ञाना य० ॥ ५ दृश्यतां पृ० ११३ पं० ६ ॥ ६ त्वन्मतात्तवेदो न ज्ञानन्न ज्ञानव इति asa इति भा० । त्वन्मतात्तदो न ज्ञानन्न ज्ञानव इति य० ॥ ७ त्वाज्ञानात्मप्रयुक्त य० ॥ ८ प्राणेन्नत्व भा० ॥ ९ मग य० । १० 'वीरम' प्र० । “आत्ममाने खश्च | ३ |२|८३ ॥ स्वकर्मके वर्तमानान्मन्यतेः सुपि खश् स्यात् । चाणिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः ।" - पा० सिद्धान्तकौ० ॥ ११ कान्तेन न कथंचित् य० ॥ १४ त्यनौ घट प्र० ॥
१२ तसमर्थ प्र० । दृश्यतां पृ० ४७८-२ ॥
१३ विकल्पतः तेना' य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org