________________
१५९
वेदस्याप्रमाणत्वापादनम् ] द्वादशारं नयचक्रम् मात्रार्थः । तन्मात्रत्वात्तु तस्याः प्रकरणानुबन्धनाद्वित्वा जुहोतिप्रयोगबाहुल्यं कृप्रकृतिलिङ्कता प्रदर्शयितव्या-यदग्नये च प्रजापतये च सायं जुहोति तद् घृतादिना स्वर्गकामः कुर्यादिति ।
त्वद्वचनात्त्वप्रमाणनियमागमोऽनुपदेशकश्च विवेत्तुरपीति सम्भाव्येत, अप्रत्यवेक्षितार्थत्वात् पौर्वापर्ययोगाप्रतिसम्बद्धार्थत्वाद् घटितानुमतविध्वंसनादुन्मत्त-5
___किञ्चान्यत् , इदं चाग्निहोत्रं जुहुयात् [ काठकसं० ६।७] यदैग्नये च प्रजापतये च सायं जुहोति [ मै० सं० १।८७ ] घृतेन जुहुयात् [काठकसं० ६।३।५] शूर्पण जुहोति तेन ह्यन्नं क्रियते [तै० ब्रा० १॥६॥५] इत्येवमादिविध्यनुवादार्थवादवाक्यगतो जुहोतिः श्रूयमाण उपस्थानादीतिकर्तव्यतानतिरिक्तसेवनक्रियानामधेयमात्रार्थत्ववत् प्राप्तिविहितेतिकर्तव्यतानतिरिक्तहवनक्रियानाममात्रार्थः, विप्रकीर्णावयवकलापा-११४-१ कारा क्रियैवास्यार्थोऽसिद्धरूपः, न सिद्धरूपो यथा यूपघटादि । तन्मात्रत्वात् तु तस्याः क्रियायाः 10 प्रकरणानुबन्धनात् प्रकरणेन अनुबन्धयन वक्ता ब्रूते श्रोता च प्रतिपद्यते - क्रियामात्रमवश्यमनेन शब्देन कर्तव्यमित्येतावञ्चोद्यत इति । तस्मात् क्रियामात्रत्वात् प्रकरणानुबन्धनाद् हित्वा त्यक्त्वा जुहोतिप्रयोगबाहुल्यं सर्वजुहोतिप्रयोगान् , क्रियामात्रे प्रतिपाद्ये नान्तरीयकत्वात् कृप्रकृतिलिङ्कर्तृता प्रदर्शयितव्येति तत्प्रतिपादनार्थम् , अभिमतवाक्यार्थतास्य स्यादेवं कल्प्यमाने । तन्निदर्शयति- यदग्नये च प्रजापतये च सायं जुहोति तद् घृतादिना स्वर्गकामः कुयोदिति, एतावता तदर्थस्य सुगमत्वा-15 ज्जुहोतिप्रयोगबाहुल्यमप्रत्ययरटितमेव (नरन्यत्रान्यत्र 'जुहुयात् , जुहोति' इत्यादि ।
किश्चान्यत् , त्वद्वचनात्तु अप्रमाणनियमागमोऽनुपदेशकश्च विवेक्तुरपीति सम्भाव्येत । योऽप्यज्ञप्रयुक्तशब्दार्थोन्नयनसमर्थो विवेक्ता पुरुषः पदवाक्यप्रमाणज्ञस्तं प्रत्यप्ययं वाक्यप्रयोगोऽप्रमाणनियमागमोऽनुपदेशकश्च । अप्रमाणनियमागमः प्रत्यक्षानुमानगम्यार्थासंवादात् । अनुपदेशकस्त्वगमकत्वात् । तत् पुनः सम्भावयामि भवेदेवम्', मा मंस्था निष्ठुरम् 'अप्रमाणनियमागमोऽनुपदेशकश्च' इत्यवधायैवोच्यत इति । 20 कुतः ? अप्रत्यवेक्षितार्थत्वात् पौर्वापर्ययोगाप्रतिसम्बद्धार्थत्वाद् घटितानुमतविध्वंसनात् । अप्र-११४. त्यवेक्षितार्थता जुहोतिबाहुल्यप्रयोगनिर्विषयत्वादिभिः । पूर्वापरसम्बन्धरहितता पृथगाभिमतानां विध्यादिशेषाभावात् । घटितविध्वंसनम् ‘इतिकर्तव्यतैव कर्तव्यता' इति घटितस्य आदिवाक्यगतजुहोत्यनुवादाभ्युपगमाद् घटितानुमतविध्वंसनम् । इत्येतेभ्यो हेतुभ्योऽप्रमाणनियमागमोऽनुपदेशकश्च वाक्यप्रयोगः । दृष्टान्त उन्मत्तप्रलापवत् , यद्वाक्यमुन्मत्तादिप्रलपितं पुरुषोच्चारितशब्दसामान्यात् सद्वाक्यवदाभासमानमप्रमाण- 25 नियममगमकं च, यथा
शङ्खः कदल्यां कदली च भेर्यो तस्यां च भेर्या सुमहद् विमानम् । तच्छङ्खमेरीकदलीविमानमुन्मत्तगङ्गाप्रतिमं बभूव ॥ [ ]
१ वाग्नि पा० ॥ २ दृश्यतां पृ० १२३ टि० ३ ॥ ३ दृश्यतां पृ० १४२ टि० ८॥ ४ दृश्यतां पृ० १४२ टि० ९॥ ५ सूर्येण प्र०॥ ६ त्यक्त्वा होति प्र० ॥ ७°कर्तृता च दर्श य० ॥ ८ पुनरन्यत्र जुहु भा० ॥ ९ मतिवि प्र० ॥ १० त्यपेक्षिता जुहोति प्र० ॥ ११ दृश्यतां पृ० १४२ पं० १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org