________________
१५८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे घटितविघटितप्रतिसमाधेये तत्प्रतिसमाधानार्थमुद्यतेन त्वया चिकित्सयैव गण्डस्योपरि स्फोट आपादितः।
लौकिकजुहोत्यर्थानुष्ठानप्रवृत्तोपदेशविषय एव त्वयं परमनुवादः स्यात्, स चानुपपन्ननियमार्थ उपदेशः प्राप्तिविहितेतिकर्तव्यतानतिरिक्तहवनक्रियानाम
5 किं कारणम् ? प्राप्तविशेषणपरार्थविषयत्वादनुवादस्य अप्राप्तविशेष्यस्वार्थविषयत्वाद्विधेरादिवाक्यगत एव तावज्जुहुयाच्छब्दोऽनुवादो न घटते प्राप्तत्वाद्यभावात् , तस्यानुवादस्तु 'घृतेन जुहुयात्' इत्यत्र जुहुयाच्छब्द इष्टः स्यात् तत्प्रतिरूपकस्तस्यार्थः प्रतिशब्दकस्येवेत्यापन्नोऽप्राप्ताविशेषगापरार्थत्वाद् विधिविषयविप्रकृष्टीभूतार्थश्चेति । ततश्च विधिविषयविप्रकृष्टीभूतार्थत्वान्न कर्तव्यताविषयत्वमितिकर्तव्यतायाः, यथा दशदाडिमादिश्लोकावयवानाम् । किञ्चान्यत्, इति [घटित विघटितेत्यादि यावद् गण्डस्योपरि स्फोट 10 आपादितः । इतिशब्दो हेत्वर्थे, यस्मादित्थं 'कर्तव्यविषयविप्रकृष्टत्वमितिकर्तव्यतायाः' इत्यादि दोषजातं विध्यनुवादत्वाभावात् तस्माद् घटितविघटितम् , प्रागीषद् घटितमासीत् 'सेवादिवदितिकर्तव्यतैव कर्तव्यता' इति, तदप्यनया 'प्राप्तिविहितस्वरूपसिद्धेः' इत्यादिकया कल्पनया विघटितमुक्तविधिनैव । ततश्च
प्रतिसमाधेये विरुद्धतरदोषापादनं विधिविषयविप्रकृष्टीभूतार्थत्वादिति । ततश्च प्रतिसमाधेये तस्मिन्नेव ११३-२ वाक्येऽनुवादत्वाभावादवाक्यत्वादिदोषदुष्टे तत्प्रतिसमाधानार्थमुंद्यतेन त्वया अहो परमविदुषा चिकि15 सकेनानपेक्षितपूर्वापरक्रियाविधिविपाकेन चिकित्सयैव गण्डस्योपरि स्फोट आपादितः। तस्मादप्रसिद्धार्थत्वान्न मौलो जुहोतिर्नोत्तरो वानुवादो घटते ।
___ यदि भवतो घृतेन जुहुयादित्यस्यानुवादत्वमिष्टं ततोऽहमेव ते बुद्धिसंविभागं करोमि, श्रूयताम् - लौकिकजुहोत्यर्थानुष्ठानप्रवृत्तोपंदेशविषय एव त्वयं परमनुवादः स्यात् , लौकिको हि दानादनार्थो जुहोतिः, तदर्थानुष्ठानप्रवृत्तोपदेशो यद्यस्य विषयः स्याद् 'दद्यात्, अद्यात्' इति तदर्थप्रसिद्धेस्तद्विषयो20 ऽनुवादो युज्यते विधिर्वा । यस्मै कस्मैचिद्यदि किञ्चिद्दद्यात् घृतं दद्यात् तेन जुहुयात् , यदि भुञ्जीत घृतेन
जुहुयादित्येतस्मिन्नर्थेऽनुवादो घटते । स चानुपपन्ननियमार्थ उपदेशः, समीकृत्य व्याख्यातोऽर्थोऽस्य शब्दस्य ते मया तथापि तु पुनस्त्वदिष्टविरुद्धार्थमेतदापद्यते, लोकेऽनुपपन्ननियमोपदेशार्थत्वदर्शनाद् विचित्रयो नभोजनयोः स्वपरप्रीतिहेतुत्वाद् यथोपपत्ति घृतेन पयसा दना गुडेन च भुञ्जीत तान्येव च बुभुक्षवे दद्यादिति । न तु यथा अक्षिवैद्यके त्रिफलां घृतेनैव भक्षयेत्, न गुडेन, गुडस्य चाक्षुष्यत्वात् । 25 यथोक्तम् -
प्रभूतकृमिमजासृङ्मेदोमांसकरो गुडः । [चरकसं० १।२७२३८]
चक्षुस्तेजोमयं तस्य विशेषाच्लेष्मणो भयम् । [चरकसं० १।५।१६] इति । १ वादो घटते य० ॥ २ स्यार्थप्रति प्र० ॥ ३ दृश्यतां पृ० १३९ पं० १ ॥ ४ दृश्यतां पृ० १५५ पं० ३ ॥ ५ विरुतर प्र० ॥ ६ दृश्यतां पृ० १५७ पं० ३ ॥ ७°मुच्यतेन य० ॥ ८ भवते य० । भवति भा० ॥ ९ प्रकृत्तो भा० । प्रकृतो य० ॥ १० पदेश एव य० ॥ ११ दद्यात्त भा० । द्दद्यान्न य० ॥ १२ “विशेषा. च्छेमतो” इति चरकसंहितायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org