________________
प्राप्तिप्रतिपाद्यप्रसिद्ध दोषाभिधानम् ] द्वादशारं नयचक्रम्
सम्भवात् साक्षाच्छ्रुतविधिजुहुयात्त्यागेन चार्थापन्नार्थाश्रुतानूदितजुहुयात्कल्पनादू विधीयमानवाक्यार्थविषयानुवदनाच्च वाक्यभेदपुनरुक्तदोषाङ्गीकरणादनुवादानुवादस्य च प्राप्तविशेषणपरार्थविषयार्थत्वाद्विधिविषयविप्रकृष्टी भूतार्थत्वात् । इति
र्थासिद्धेरननुवादतैव । किञ्चान्यत्, जघन्यतरा चेयं व्याख्या । कस्मात् ? साक्षाच्छ्रुतंविधिजुहुयात्त्यागेन चार्थापन्नार्थाश्रुतानूदित जुहुयात्कल्पनात् स एव पुरुषप्रमाणकत्वदोषः शब्दाप्रामाण्यदोषश्च 15 'जुहुयात्' इत्यस्य क्रियाशब्दस्य विध्यर्थस्य साक्षाच्छ्रुतस्य प्रत्यक्षस्य त्यागं कृत्वा अर्थापनार्थस्य अर्थादान्नोऽर्थोऽस्येत्यर्थापन्नार्थः, कोऽसौ ? स एव जुहुयाच्छन्दोऽनुवादाभिमतः, तस्य अश्रुतस्यार्था पन्नार्थस्यानूदितविकल्पनादनुवादकल्पनात् 'तन्न' इति वर्तते । किञ्चान्यत्, विधीयमानवाक्यार्थ विषयानुवदनाच्च, विधीयमानो वाक्यार्थो विधीयमानवाक्यार्थः, स विषयोऽस्येति विधीयमानवाक्यार्थविषयः स एव जुहुया - च्छब्दः, तस्यैवानुवदनं स एवानुवादः, तस्माद् विधीयमानवाक्यार्थविषयानुवदनाच्च किं संवृत्तम् ? 10 वाक्यभेदस्य पुनरुक्तस्य चाङ्गीकरणम्, न हीदमेव वाक्यं स्वर्गकामाभिसम्बद्धाग्निहोत्रविधानं तदनुवदनं च कर्तुं शक्नोति स्वर्गकामकर्तृकस्याग्निहोत्रकर्मणो वाक्यान्तरेणाप्रापितत्वात् । यथा 'अयं देवदत्तः ' ११२-२ इत्यत्र न देवदत्त एवानूद्यते विधीयते च, प्रत्यक्षसिद्धस्तु इदमो विषयोऽनूद्यते, एवमिह प्रसिद्धार्थोऽपेक्ष्यः, स तु नास्ति । तस्मादुभयार्थकल्पनादेकस्य वाक्यस्य तदसम्भवाञ्च वाक्यभेददोषः । पौनरुक्त्यं तु विशेषविधानाभावात्, विशेषविध्यर्थो धनुवादो युक्तः, यथा 'अयं देवदत्तः' इति अयशब्द प्रत्यक्ष प्रसिद्धार्थमनूद्य देवदत्त - 15 विधानम्, न तु तथात्र कश्चिद् विशेषो विधीयते, तस्मादविशेषाभिधानात् पौनरुक्त्यम् । तस्मात् 'अग्निहोत्रं जुहुयात्' इत्यस्य वाक्यस्य प्रथमत्वादेकवाक्यगतत्वाच्चानयोर्विध्यनुवादयोरर्थापन्नाग्निहोत्रकर्मविधित्वे जुहोते दत्वे [r] वाक्यभेदपुनरुक्तदोषाङ्गीकरणाद् न इत्येवाभिसम्बध्यते । एवं तावत् 'अग्निहोत्रं जुहुयात्' इत्यत्र जुहुयाच्छब्दो नानुवादो घटते, न च 'अग्निहोत्रं स्वर्गकाम:' इति विधिः । किञ्चान्यत्, अनुवादानुवादस्य च प्राप्तविशेषणपरार्थविषयार्थत्वात् । अनुवादत्वं हि प्राप्त - 20 विषयार्थम्, यथा 'अयं देवदत्तः' इति 'अयं' शब्दार्थः प्राप्तार्थोऽप्राप्तो देवदत्तार्थोऽधुना प्रापणीयः । एवं प्रसिद्ध्यप्रसिद्धिभ्यां विशेषणविशेष्यौ, तावेवोपकारको पकार्यत्वाभ्यां परार्थस्वार्थी । न तथा 'अग्निहोत्रं जुहुयात्' इत्यत्र प्राप्तविशेषण पर र्थविषयत्वमं निहोत्रं जुहुयाच्छब्दयोः, अतोऽप्राप्ताविशेषणापर्थत्वात् साम्यादनुवादत्वाभावः । अभ्युपगम्यापि प्राप्तादि दोष उच्यते - यत् पश्चादुच्यते कर्तव्यताप्रसिद्ध्यर्थमिति - ११३-१ कर्तव्यतावाक्यं 'घृतेन जुहुयात्' इति तस्य विधिविषयविप्रकृष्टीभूतत्वं जुहुयाच्छब्दस्यानुवादाभिमतस्य । 25
1
१५७
१° विधे० ॥ २° जुहुया कल्पनात् प्र० । अत्र जुहुयाद्विकल्पनात् इत्यपि पाठः स्यात् ॥ ३ अत्र 'स एव वानुवादः' इत्यपि पाठः स्यात् ॥ ४ हीदमेव वा स्वर्ग प्र० ॥ ५ वाक्यस्य य० प्रतिषु नास्ति ॥ ६ अयंशब्दः प्रत्यक्ष प्र० ॥ ७ वादकत्वे डे० लीं० वि० रं० ही ० ॥ ८ प्रात्यर्थ प्राप्तो पाः डे० वि० । प्रात्यर्थः प्राप्तो लीं० । प्रात्यर्थ प्राप्तो रं० ही ० । प्रर्थप्राप्तो भा० । अत्र 'अयंशब्दार्थः प्राप्तः, देवदत्तार्थोऽधुना प्रापणीयः' इत्यपि पाठः स्यात् ॥ ९°निहोत्रजुहु भा० ॥ १० रार्थत्वासाम्या प्र० । अत्र रार्थत्वसाम्या इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org