________________
१५६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे कामरटनवत् 'जुहुयात्' इत्यर्थापन्नार्थानुवाद इतीयं व्याख्या न्याय्या आदिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति चेत्, तन्न, अर्थापन्नखशब्दार्थपुनरुक्तत्वादनुवादा
दुपायोऽस्ति कामप्राप्तौ क्रियातः क्रियया शब्देन वा तदर्थावगमनात् , यथा अन्धलकस्य वीथीमध्यपतितस्य हस्तं प्रसार्य कपर्दिका कपर्दिकां देहि देहि भो इति वा रारट्यमानस्य कामोऽवगमितः क्रियया शब्देन वा 5 प्रकरणविशेषसम्बन्धात्, सा च क्रिया नोपदेशमन्तरेण सिध्यति, अन्धलकावगमितकामरटनवत् 'अग्निहोत्रं स्वर्गकामः' इत्युक्ते 'कुर्यात्' इत्यर्थादापन्नो विध्यर्थोऽवगमितकामत्वात् , यथा तस्यान्धलकस्य याच्यार्थः । स च विशेषसम्बन्धो वाक्यन्यायेन भवति, यथा सब्रह्मचारिणा सहाधीत इति समानेन ब्रह्मचारिणा सहाधीते, केन सामान्येन समानेन ? प्रकृतविशेषणत्वात् प्रकृताध्ययनक्रियेणेति
गम्यते एवमिदमपि वाक्यम् , अनेन वाक्यन्यायेन प्रकृतस्वर्गकामाग्निहोत्रकर्मानुरूपविध्यर्थक्रियोपदेशताs__10 स्येति गम्यते, अतो हेतुहेतुमद्भावप्रतिपादितं प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्येत्यादि यावज्जुहुया१११-२ दित्यर्थार्पन्नार्थानुवादः 'अग्निहोत्रं स्वर्गकामः' इत्येतावता कुर्याद्वाक्यशेषेण वाक्येन गतार्थत्वात् ।
तदेवं 'जुहुयात्' इत्यनुवादो न "विधिरितीयं व्याख्या न्याय्या, व्यक्तार्थोपपत्तित्वात् प्रागभिहितव्याख्याविकल्पसमुत्थदोषाभावाच्च न्याय्येति मन्तव्या, यस्मादादिवाक्ये प्रधानश्रुत्यत्यागगुण
कृदपीति, यदभिहितं प्राक् 'अग्निहोत्रं जुहुयात्' इत्यस्य वाक्यस्य 'अग्निहोत्रं कुर्यात्' इत्यर्थव्याख्या15 विकल्पे विध्यर्थवाचित्वाभिमतश्रुतप्रधान होत्यर्थत्यागस्ततः पुरुषप्रमाणकता, तदत्यागे वाक्यभेदापत्तिः
पौनरुक्त्यादिदोषजातम् , तदप्यत्र नास्ति जुहुयाच्छब्दस्यानुवादत्वादेव, 'हवनं कुर्यात्' इत्यत्राप्यग्निहोत्रप्रधानत्याग इत्यादिदोषजातं तदपि नास्ति, तस्मादियं व्याख्या आदिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति, तस्य जुहोतेरनुवादत्वेन पौनरुक्त्य-त्याग-भेदाद्यभावात् । चेदित्याशङ्कायाम् , एवं चेन्मन्यस इत्येवं परं
पृष्ट्वाचार्य उत्तरमाह -तन्न, अर्थापन्नेत्यादि । एषापि व्याख्या नोपपद्यते, किं कारणम् ? पुनरुक्तत्वात 20 प्रयोगायोग्यत्वम् , ततश्चानुवादत्वासम्भवः, तस्मादनुवादासम्भवात् तन्नेत्यभिसम्बन्धः । इदं च पुनरुक्त
मर्थापनस्वशब्दार्थं पुनर्वचनलक्षणे पुनरुक्ते निग्रहस्थानविकल्पे । द्विविधं पुनरुक्तं निग्रहस्थानम् , तद्यथा११२-१ शब्दार्थयोः पुनर्वचनं पुनरुक्तम्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं च [ न्या० सू० ५। २।१४-१५ ] इति ।
तस्मादिदमदापन्नस्य पुनर्वचनम् , विशेषविधानमन्तरेणार्थापन्नार्थस्य स्वशब्देनोच्चारणात् । 'घृतेन जुहुयात्' इत्यत्र न स्यात् पुनरुक्तम् , घृतविशिष्टहवनविधानात् । इह तु स्वर्गकामानुरूपकर्मानुरूपक्रियाविशेषविध्यर्थ25 ताया उपदेशवृत्तेरेव गतार्थतयाभ्युपगतत्वाद् घृतविशिष्टहवनविधानजुहोत्यनुवादतायाश्च मूलवाक्यगतजुहोत्य
१ चा प्र०॥ २त्वातस्यान्धलकस्य याचार्थः पा० विना। त्वात्स्यान्धलकस्य याचार्थः पा० ॥ ३ णा अहाधीते भा० । णाऽधीते य० ॥ ४ नार्थोनुवादो प्र० ॥ ५विधे प्र० ॥ ६ दृश्यतां पृ० १३० पं० २॥ ७ दृश्यता पृ० १३० पं० ३ ॥ ८ दृश्यतां पृ० १३१ पं० ५॥ ९ दृश्यतां पृ० १५१ पं० १॥ १० दृष्ट्वा प्र०॥ ११ नस्वशब्दार्थपुन वि० २० ही० ॥ १२ चनं वेति प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org