________________
प्राप्तिप्रतिपाद्यप्रसिद्धौ दोषाभिधानम्] द्वादशारं नयचक्रम्
१५५ पानप्रत्याय्यार्थत्वाच्च, हवनाच्च भावनमेवमनवगमितमेवाभिप्रेतस्य स्यात् ।
प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य स्वर्गकामकर्मत्वाभिधानादवगमितकामानुरूपकर्मोक्तेस्तद्विधक्रियाविशेषगतेः क्रियाप्राप्यत्वाच कामस्य अन्धलकावगमित
सुप्तिङपग्रहलिङ्गनराणां कालहलचस्वरकर्तृयङां च ।
व्यत्ययमिच्छति शास्त्र कृदेषां तदपि च सिध्यति बाहुलकेन ॥ [पा० म० भा० ३।४५] । इति । तस्माज्जुहोत्यर्थे जुहुयाच्छब्दप्रयोगात् प्राप्तमेवानूद्यते तद्विषयत्वादेवास्यापीति । एतदपि न, अज्ञातत्वादेवाननुवादत्वात् , सव्यापारणार्थशब्ददर्शनान्न निर्व्यापारणार्थप्रतिपत्तियुक्ता व्यवस्थालोपप्रसङ्गात् । तस्मादज्ञातार्थत्वादननुवादतैव, अननुवादत्वान्नैतदपि युक्तमिति । किञ्चान्यत् , कोशपानप्रत्याय्यार्थत्वाच्च । इदं त्वया सन्निहितदेवताकोशपानेन प्रत्याय्यम् , विशेषलिङ्गाभावात् कुत एंव ज्ञायते जुहोत्यर्थे 10 जुहुयाच्छब्दः प्रयुक्तो न स्वार्थ एव, जुहोतिर्वा जुहुयादर्थे प्रयुक्त इति ? तस्मादविदितार्थत्वाद् विधित्वम् , ११०-२ विधित्वाच नानुवादः, अननुवादत्वाच्चैवमपि न युक्तम् । अभ्युपेत्यापि जुहोत्यर्थे जुहुयाच्छब्दस्य वृत्तिं दोष ब्रूमः - हवनाच्च भावनमेवमनवगमितमेवाभिप्रेतस्य स्यात् । विध्यर्थाभावात् पुरुषो हवनकर्मणि अनियोजित एव, ततो भावनं स्वर्गाख्यस्य विशिष्टसुखलक्षणस्य देशविशेषस्य वा विशिष्टसुखसाधनभूतस्याभिप्रेतस्यार्थस्य नावबोधकं स्याद् यदर्थमभिवृत्तमिदं वाक्यम् , स्वर्गाख्यफलसाधनेऽग्निहोत्रकर्मणि पुरुषं नियोक्ष्यामीति तदर्थं हि वाक्यम् 'अग्निहोत्रं जुहुयात्' इत्येतत् प्रवृत्तम् , एतेनैव कर्मणा स्वर्गो भाव्यते, 15. तस्मात् 'इदं कुरु' इति तदर्थज्ञापनाभावे किमनेन वाक्येन 'जुहोति जुहोति' इत्युक्तेन ?
___अत्राह - प्रागभिहिताग्निहोत्रकरणवाक्यार्थविकल्पगतदोषपरिहारार्थमियमर्थव्याख्याश्रीयते प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्येत्यादि । इदं तावद् व्यवस्थितं यदग्नये च प्रजापतये च सायं जुहोति इत्यनया प्राप्तया विहितमग्निहोत्रस्य स्वरूपं सिद्धम् , अतः प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य कर्मत्वेन च श्रवणात् , कस्य ? कर्तुः स्वर्गकामस्य कर्मत्वाभिधानात् । ततः किमिति चेत् , स्वर्गशब्दाभिहित-20 विशिष्टकर्मविषयकामाभिधायिशब्दश्रवणात् कर्मापि तदग्निहोत्राख्यं तदनुरूपं विशिष्टमेवेत्युक्तं भवति, अतः स्वर्गकामकर्मत्वाभिधानादवगमितकामानुरूपकर्मोक्तेः स्वर्गकामशब्दावबोधितकामानुरूपस्यैव कर्मण १११.१ उक्तत्वादेव तेंद्विधक्रियाविशेषगतेः, विशिष्टफलविषयकामः पुरुषः कर्ता, कर्मापि तदनुरूपत्वाद् विशिष्टमेव, तद्विधैव क्रियापि, अप्रसिद्धफलविषयकामसम्बन्धि कर्माप्रसिद्धं यथा तथा तदनुष्ठानव्यापारविशेषोऽपि विशिष्टोऽप्रसिद्ध एवेति गम्यते । किं कारणम् ? तत एव शब्दात् तस्य क्रियाविशेषस्य गते-25 क्यिान्तराभावात् तद्विशेषगतिः, अतः क्रियाविशेषगतेः क्रियाप्राप्यत्वाच्च कामस्य, न ह्यन्यः कश्चि
१°दर्शनान प्र० । अत्र दर्शने न इत्यपि पाठः स्यात् ॥ २ * * एतचिह्नान्तर्गतः र्थप्रतिपत्तिर्युक्ता इत्यत आरभ्य प्रत्याय्या इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ ३ अत्र ‘एवं ज्ञायते' इत्यपि पाठः स्यात् ॥ ४ वा प्रतिषु नास्ति ॥ ५ अत्र मीत्येतदर्थ हि इति पाठः समीचीनो भाति ॥ ६°त्तमंतेनैव पा० । 'त्तमतेनैव डे० ली. वि० २० ही० ॥ ७ दृश्यतां पृ० १४२ पं० १२ ॥ ८ कर्मोक्तः प्र० ॥ ९ तद्विध्य प्र० ॥ १० संबद्धि प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org