________________
१५४
___ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् द्वितीये विधिविध्यरे एवं तर्हि प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति चेत्, न, तत्र विधिलिविषयस्थावृत्तेरज्ञातत्वात्।
व्यत्ययादस्य तद्विषयतेति चेत्, न, अज्ञातत्वादेवाननुवादत्वात् कोश
श्रुतेन जुहोतिनोक्तत्वात् तदर्थस्य गतत्वादप्रयोगार्हत्वात् पौनरुक्त्यमस्य स्यात्, प्रयुक्तस्तु अयम् , 5 अतो ज्ञायते प्राप्तिश्रुतजुहोतिरनर्थक इति । तस्मात् प्राप्तेढुंदासो जुहोतिप्रयोगात् । यदा वायं 'घृतेन
जुहुयात्' इति प्रयुज्यते तदा ह्ययमगतार्थ इति विज्ञायेत यद्यन्येन शब्देनास्यार्थोऽनभिहितः स्यात् । किं १०९-२ कारणम् ? अप्रमत्तप्रयुक्तत्वात् , अप्रमत्तेन हि वेदेन प्रमत्तात् पुरुषाद्विलक्षणेन रागाविद्यादियोग
रहितेन प्रयुक्तोऽयं त्वन्मतेन, लौकिकेनैव वा पुरुषेणाप्रमत्तेन विदुषा प्रयुक्तत्वादस्मन्मतेन, मा भूत्
सर्वपुरुषाप्रामाण्ये शब्दानां च पुरुषाधीनोपलब्धित्वादप्रामाण्यमेवेति । अयं हि 'घृतेन जुहुयात्' इत्यत्र 10 जुहोतिशब्दोऽप्रमत्तप्रयुक्तः, न येन केनचिद् बालगोपालादिप्रयुक्तकल्पेन तुल्यः काकरुतादिकल्पेन वा
तुल्यः । क इव ? इषे त्वादिवत् , यथा इथे त्वोर्जे त्वा वायवः स्थोपायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे [यजुर्वेद० ११] इत्यादिशब्दा अंगतार्थी इति विज्ञायन्ते तथायं 'घृतेन जुहुयात्' इति वाक्ये जुहोतिरप्रमत्तायुक्तत्वादगतार्थ इति विज्ञायेत, नान्यथा । अथवा अक्षरविद्यावत् , यथा द्वे विद्ये
वेदितव्ये -परा चापरा च । अथ परा यया तदक्षरमधिगम्यते यत् तददृश्यमग्राह्यमगोत्रमवर्णम15 चक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं पुरुषं पुराणं विश्वात्मानं तदव्ययं यद् भूतयोनि
परिपश्यन्ति धीराः [ मुण्डको० ॥१] इतीयमक्षरविद्या कचिदगतार्थेति विज्ञायतेऽप्रमत्तप्रयुक्तत्वात् तथाऽयमपि जुहोतिप्रयोगः, नान्यथा । तद्यदि प्राप्तिप्रापितदानार्थः 'अग्निहोत्रं जुहुयात्' इत्यत्र होत्रशब्दो
जुहोतिशब्दो वा ततोऽयं 'घृतेन जुहुयात्' इति पुनर्जुहोतिर्न प्रयुज्येत, प्रयुक्तरतु, तस्मात् प्राप्तिय॒दस्तेति । ११०-१ एवं तर्हि प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति चेत् । स्यान्मतम् - प्राप्तिवाक्ये 'अग्नये जुहोति' 20 इति श्रुतस्याग्निसम्प्रदानकस्य दानार्थस्य जुहोतेरनुवादोऽयं 'घृतेन जुहुयात्' इति जुहोतिरिति । एतच्च न,
तत्र विधिलिविषयस्यावृत्तेरज्ञातत्वात् । नैवमप्युपपद्यते, तत्र प्राप्तिवाक्ये 'जुहोति' इत्यस्याव्यापार्यमाणकर्तृसाधनदानार्थजुहोतिधातुप्रयोगस्य विधिलिङो विषये व्यापारणार्थे वृत्त्यभावात् अस्य च जुहुयाच्छब्दस्य विधिलिविषयस्य नियोगार्थस्य नियोगरहिते जुहोतिशब्दार्थे तत्रावृत्तेरयं विधानार्थो न विदित
एव, तस्मादज्ञातत्वात् प्राप्तिवाक्यवृत्तजुहोत्यर्थानुवादायोग्यता, प्रौप्तमनूद्यतेऽप्राप्तं विधीयते [ ] 25 इति वचनात् । तस्मादनुवादायोग्यत्वादयुक्तमुक्तम् - प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति ।।
व्यत्ययादस्य तद्विषयतेति चेत् । स्यान्मतम् - लक्षणशास्त्रेऽभिहितं व्यत्ययो बहुलम् [पा० ३। ११८५]।
१ यदायं भा०॥ २ युक्तैन येन भा० । युक्तेन येन य० ॥ ३ कल्पेन तुल्यः प्र० ॥ ४ वावय
पायवस्थ प्र० ॥ ५अवगतार्थी प्र० ॥ ६जहोतिप्रमत्त य०॥ ७ "तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्म तदव्ययं यदुः" इति मुण्डकोपनिषदि पाठः॥ ८ कस्यादानार्थस्याजुहोतिरनु प्र०॥ ९ इत्यथ्याव्यापाप्र०॥ १० व्यापारेणार्थे भा० । व्यापारेणार्थ य० ॥ ११ दृश्यतां पृ० १३१ पं० २॥ १२ विद्य(विधिव्य?)त्ययादस्य भा० । विध्यत्ययादस्य य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org