________________
प्राप्तिप्रतिपाद्यप्रसिद्धौ दोषाः ]
द्वादशारं नयचक्रम्
१५३
प्राप्तिप्रतिपाद्यप्रसिद्धावग्निहोत्रे जुहोतिप्रयोगो दानादिप्रसिद्ध्युपरोधेन दाहन एव तावद्विधेय इति तथाऽप्रसिद्वेर विधायक एव, कुतस्तदनुवादः ?
तथाभूतार्थाभ्युपगमे च प्राप्तेर्व्युदासो जुहोतिप्रयोगादप्रमत्तप्रयुक्तत्वात् इषे त्वादिवदक्षरविद्यावत् ।
अहवनात्मकाग्निहोत्रत्वाच्चानग्निहोत्रत्वं प्रसक्तं छिदिनिर्वर्त्ययूपवत् । अत्र च 'एतदपि न वैषम्यात्' 5 इत्यादिग्रन्थो योज्यो यावत् " शैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यात्' इति । ततश्चानग्निहोत्रत्वप्रसङ्गाद् यदये होत्रं तदग्निहोत्रमिति तावन्मात्रार्थत्वात् प्रधानस्य स्वर्गसाधनताभिमतस्यानग्निहोत्रत्वाद् 'घृतेन जुहुयात्' इत्यनेनानुवादेन प्रधानस्वर्गकामानभिसम्बद्ध जुहोत्यर्थानुवादेन किं प्रयोजनम् ? इतिकर्तव्यता कर्तव्यतया प्रधानेन स्वर्गकामेन विना किं तया ? यथोक्तम् -
1
कातरस्तेण सूरं सूरसहस्सेण पंडितं भरसु । अलसं जेण व तेण व णवर कतग्धं परिहराहि ॥ [
इति प्रधानार्थमप्रधानत्यागदर्शनात् ।
प्राप्तिप्रतिपाद्यप्रसिद्धावग्निहोत्रे, प्राया प्रतिपाद्या प्रसिद्धिरस्य तदिदं प्राप्तिप्रतिपाद्यप्रसिद्धि, तस्मिन् प्राप्तिप्रतिपाद्यप्रसिद्धौ क ? अग्निहोत्रे, 'यदग्नये च प्रजापतये च सायं जुहोति' इत्यनया प्राप्त्या प्रतिपाद्यप्रसिद्धैौ तु तस्मिन् जुहोतिप्रयोगो दानादिप्रसिद्ध्युपरोधेन दाहन एव तावदू 15 विधेयः, तावच्छब्दः क्रमार्थे, 'जुहोति' इत्ययं धातुर्लोकप्रसिद्धदानादनार्थो न भवति, किं तर्हि ? 'दहनेनाग्निना दाहयेद् घृतादि द्रव्यम्' इत्युक्तं भवति 'अग्निहोत्रं जुहुयात्' इत्येतदिति परिभाव्य पश्चात् प्रसिद्धे दाहने "घृतेन जुहुयात्, घृतं दाहयेदैग्निम्, अग्निना घृतं दाहयेत्, अग्निर्घृतं दहेत्' इति १०९-१ ज्ञातार्थमनूद्य इतिकर्तव्यताविधिर्योक्ष्यते लोकप्रसिद्धिवैपरीत्येन व्युत्पादनात् नान्यथा । अन्यथा तु लोके दानादिष्वष्टत्वात् कथं दोहनमनूद्य घृतादीतिकर्तव्यता विधीयते ? [इति ] तथाऽप्रसिद्धेरविधायक 20 एव, कुतस्तदनुवादः? इतिशब्दों हेत्वर्थे इत्येतस्मात् कारणात् तथा तेन प्रकारेण दाहनार्थत्वेनाप्रसिद्धेः 'अग्निहोत्रं जुहुयात्' इत्यत्रैव तावज्जुहुयाच्छब्दो दाहनस्याविधायकः, दूरत एवानुवादः । अत्रैव 'नेनु सेवादिवत् कर्तव्यताप्रतिपत्तिरितिकर्तव्यताभ्यः' इत्युपक्रम्य ग्रन्थो योज्यो यावत् 'वेदवादा साधुता वा तद्वत्' इति । एवं तावज्जुहुयाच्छब्दस्य दाहनार्थत्वाभावादयुक्तत्वं होत्रशब्दस्य वा ।
तथाभूतार्थाभ्युपगमे "चेति, अभ्युपेत्यापि दाहनात्मकमेव दानमिति दोषं ब्रूमः कोऽसौ ? 25 प्राप्तेर्व्युदासः, येयं प्राप्तिः 'यदग्नये च प्रजापतये च सायं जुहोति' इति यया प्रापितमन प्रक्षेप दानमिति तस्याः प्राप्तेर्व्युदासः, कस्मात् ? 'घृतेन जुहुयात्' इत्यत्र जुहोतिप्रयोगात्, अन्यथा प्राप्तौ
१४२ टि०८ ॥
॥
१ च्चाग्निहों य० ॥ २ दृश्यतां पृ० १३७ पं० १ ॥ ३ दृश्यतां पृ० १३८ पं० ८ ॥ ४ त्वाप्रधानस्य स्वर्गासा प्र० ॥ ५ इतिकर्तव्यतया भा० ॥ ६ सतेन य० ॥ ७ दृश्यतां पृ० ८ तस्मिन्न प्र० ॥ ९ " हु दानादनयोः" इति पाणिनीयधातुपाठे १०८३ ॥ १० दहने प्र० भा० । दानं (नौ ? ) य० । १२त्पादनान्यथा य० । स्पादा (त्पादने ? ) नान्यथा भा० ॥ १४ द्वत एवा पा । हत एवा डे० लीं ० । हृत एवा वि० रं० ही ० ॥ १६ दृश्यतां पृ० १४० पं० २ ॥ १७ युक्तक्तं भा० । युक्तं य० ॥ १८ वेति डे०
११ दग्निं । १३ दह प्र० ॥
१५ दृश्यतां पृ० १३९ पं० १ ॥ लीं० रं० ही ० ॥
नय० २०
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org