________________
१५२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे त्यागाद्यापत्तेरग्निहोत्रोभयकरणार्थतयोरपि जुहोतित्यागाद्यापत्तेः । - शैलीप्रसिद्धौ छिदिवदहवनात्मकाग्निहोत्रत्वादनग्निहोत्रत्वप्रसङ्गात् प्रधानखर्गकामानभिसम्बद्धजुहोत्यर्थानुवादेन किं प्रयोजनम् ?
द्यापत्तेः 'अर्थाभावात्' इत्याद्यभिसम्बध्यते, क्रमोल्लङ्घनेन विकल्पद्वयोपन्यासस्तुल्योत्तरत्वात् , 'हवनं कुर्यात् , 5 अग्निहोत्राख्यमपूर्वं कुर्यात्' इत्येतयोरर्थविकल्पयोः प्रधानस्याग्निहोत्रशब्दस्य तदर्थस्य च त्याग आपद्यते । 'घृतेन जुहुयात्' इत्यादिषु अनुवादसफलीक्रियार्थम् 'अग्निहोत्रं जुहुयात्' इत्यत्र जुहुयाच्छब्दस्य स्वप्रकृत्यर्थस्य सार्थकत्वेऽग्निहोत्रशब्दः पौनरुक्त्यान्निरर्थक आपद्यते । अथ प्रधानत्वादग्निहोत्रस्य मा भूदग्निहोत्रशब्दो ***निरर्थक इति जुहुयाच्छब्दो* निरर्थक इष्यते ततो जुहुयाच्छब्दनैरर्थक्यात् प्रयोगो नोपपद्यते विहितार्था... भावेऽनुवादैत्वाभावात् । प्रधानत्वं चाग्निहोत्रस्य साक्षात् स्वर्गादिकाम्यपुरुषार्थसाधनत्वेन विधानात् , जुहोति10 प्राधान्ये च तदनुपपत्तिः । अत्र च न तु घटव दग्निहोत्रशब्दः काश्चिदपि कर्तव्यतां ब्रवीति' इत्यादिः
सर्वो ग्रन्थः पूर्वोत्तरपक्षप्रसङ्गतो योज्यो यावत् 'नापि घटादिकर्तव्यतायामिव काचित् क्रिया प्रसिद्धा ययाग्निहोत्राख्यता हवनस्यातिदिश्येत हवनाख्यता वाग्निहोत्रस्य' इति 'हवनं कुर्यात्' इत्ययमुक्तोत्तरोऽर्थविकल्पः । अपूर्वार्थपक्षेऽपि अग्निहोत्रशब्दस्य जुहुयाच्छब्दस्य चैकार्थत्वात् प्रधानापूर्ववाच्यग्निहोत्रशब्दस्य
त्यागस्तथैव । विशेषस्तु अथ 'अग्निहोत्रम्' इत्यपूर्वविशेषाभिधानार्थतैव कल्प्यते तथा सति अपूर्वाभिधानेन 15 कोऽर्थ इत्यादि यावत् 'तदनुष्ठातव्यम्' इति ग्रन्थश्च योज्यः । आदिग्रहणात् पुरुषप्रमाणकता शब्दप्रामाण्यत्याग इत्यादिदोषः । ततः प्रधानाग्निहोत्रश्रुतित्यागाद्यापत्तेराभावात् क्वेदमभिहितमित्यादि ।
अग्निहोत्रोभयकरणार्थतयोरपि जुहोतित्यागाद्यापत्तेः, 'अग्निहोत्रं कुर्यात् , अग्निहोत्रं हवनं कुर्यात्' इत्येतयोरपि विकल्पयोस्तुल्योत्तरत्वात् , उभयार्थविकल्पस्य 'अग्निहोत्रं कुर्यात् , हवनं कुर्यात्' इत्ये
तयोः पक्षयोरुक्तदोषदुष्टत्वात् समानोत्तरत्वादिति । अत्रापि 'अथ पुनरेवमनिर्वहति' इत्यादिग्रन्थो योज्यः 20 सप्रपश्चो यावत् त्वदभिप्रायवत्तु हवनानुवादविशिष्टाग्निहोत्राभ्युपगमेऽपि चाग्निहोत्रस्यात्मादिवस्तुतत्त्व वदप्रसिद्धस्वरूपत्वात् करणासिद्धिः ।
शैलीप्रसिद्धौ छिदिवदित्यादि, छिदाविव च्छिदिवत् , यथा छिदौ दृष्टलौकिकयूपमात्रफलत्वं नाहष्टालौकिकहवनात्मकौग्निहोत्रत्वं तथा, 'अग्निहोत्रं जुहुयात्' इत्यस्यापि तच्छैल्यैवाग्निहोत्रमहवनात्मकम् ,
१पत्तिः य० ॥ २ दृश्यतां पृ० १५१ पं० ३॥ ३ इत्ययद्यमि भा० । इत्ययद्यदभि य० ॥ ४ * * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥५°क उच्यते वि० । कथ्यते पा० । क ते डे० ली रं०ही० ॥ ६ च्छब्दे पा० २० ही० वि० ॥ ७ वादम्बाभावात् भा० । वादेवाभावात् य० ॥ ८ दृश्यतां पृ० १२२
९ इत्यादि य० ॥ १० दृश्यतां पृ० १२४ पं० ३॥ ११ त्तरार्थों यः॥ १२°ब्दस्यैकार्थत्वात य० ॥ १३वाच्याग्नि प्र०॥ १४ दृश्यतां पृ० १४० पं० ४ ॥ १५ दृश्यतां पृ० १४१ पं० ४ ॥ १६ प्रामाणत्या पा० डे० लीं। प्रामाणकत्या २० । प्रमाणकत्या ही० वि०॥ १७ दृश्यतां पृ० १५१ पं० ३,५॥ १८ अग्निहोत्र य० ॥ १९ त्वादिति पा० डे० लीं० २० ही० ॥ २० दृश्यतां पृ० १२६ पं० १॥ २१ दृश्यतां
तत्व भा० ॥ २३ कारप्र० ॥ २४°ग्निहोत्रत्वं तथाग्निहोत्रत्वं तथा भा० वि० । 'ग्निहोत्रत्वं प्रतथाग्निहोत्रत्वं तथा पा० डे० लीं० २० ही० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org