________________
१५१
असत्कार्यवादोक्तावप्यत्र दोषाः] द्वादशारं नयचक्रम्
असत्कार्यवादोक्तावपि नैवास्य वाक्यता, इतिकर्तव्यतावाक्यासिद्धी तदसिद्धेस्तत्सिद्धौ तत्सिद्धेः । इतिकर्तव्यतावाक्यमवाक्यम् , अननुवादत्वात् , उन्मत्तप्रलापवत् । 'जुहुयात्' इत्यस्योक्तवदेव सर्वप्रयोगपरीक्षायामर्थाभावादितिकर्तव्यतावाक्यप्रत्ययापि न कर्तव्यतागतिः। ___ केदमभिहितं 'जुहुयात्' इति ? हवनापूर्वकरणार्थतयोः प्रधानाग्निहोत्रश्रुति
कार्यवादोक्तावपि नैवास्य वाक्यता प्राप्यनुबन्धप्रापितेतिकर्तव्यताकर्तव्यतार्थस्याग्निहोत्रहवनकरणार्थस्य वाक्यस्य वाक्यता । कुतः ? इतिकर्तव्यतावाक्यासिद्धौ तदसिद्धेस्त सिद्धौ तत्सिद्धेः, तत् पुनरितिकर्तव्यतावाक्यम् , तदवाक्यत्वे तद्बलप्रतिष्ठाप्यकर्तव्यतावाक्यमप्यवाक्यम् । तत्र तावत् 'घृतेन जुहुयात्' इत्येतदितिकर्तव्यतावाक्यमवाक्यम् , अननुवादत्वात् , उन्मत्तप्रलापवत्। यथा कामोन्मत्तस्य 'पक्षी' इति दर्शने भ्रान्तेः 'हा प्रिये! हा प्रिये !' इत्यादिविप्रलापो न वाक्यं प्रसिद्धार्थानुवादाभावादेवं 'घृतेन 10 जुहुयात्' इत्यस्यापि तदभावात् तत्कर्तव्यतावाक्याभावः । अननुवादत्वं चास्य घृतसम्प्रदानकहवनविधानाद् विधिवाक्यस्य, विध्यनुवादयोश्चान्योन्यनिराकाङ्क्षयोरन्यतराभावः । स्यान्मतम् - विधिमात्रस्य 'द्वारं द्वारम्' इति अनुवादमात्रस्य 'उद्घाट्यताम्' इति दृष्टत्वाद् नापेक्षेतेति चेत् , न, तत्रापि बहिरङ्गस्थितप्रकरणादिभ्यस्तसिद्धेरपेक्षैव । तस्मादिह, 'इतिकर्तव्यतैव कर्तव्यता' इति वचनात् कर्तव्यतावाक्यस्यैवासिद्धेः 'घृतेन जुहुयात्' इत्यस्य प्रसिद्धार्थस्यानुवादत्वाभावादवाक्यत्वम् , तदवाक्यत्वात् तद्बलप्रतिष्ठाप्याग्निहोत्रहवन-15 कर्तव्यताविधिवाक्यासिद्धिः, अत आह-'जुहुयात्' इत्यस्य उक्तवदेवेत्यादि, 'जुहुयात् , अग्निहोत्रं कुर्यात् , हवनं कुर्यात् , अग्निहोत्रं हवनं कुर्यात्, प्राप्त्यनुबन्धप्रापितघृतादीतिकर्तव्यतात्मककर्तव्यताग्निहोत्रं कुर्यात् , अग्निहोत्रमपूर्वं कुर्यात्' इत्युक्तविकल्पेषु प्रागभिहितदोषसम्बन्धादेतैः सर्वैः प्रकारः प्रयोगस्य १०७-२ परीक्षायां निर्मूलार्थत्वमविषयत्वात् , अविषयत्वमपूर्वार्थत्वात् , अपूर्वार्थत्वमज्ञातार्थत्वात् , अज्ञातार्थत्वं प्रमाणान्तरेण वाक्यान्तरेण वा प्रागविहितत्वादिति । तमुपसंहृत्याह - इतिकर्तव्यतावाक्यप्रत्ययापि न 20 कर्तव्यतीगतिः।
क्वेदमभिहितं 'जुहुयात्' इति ? यदुच्यते त्वया 'यजुहुयात् तद् घृतादिना' इति हवनमनूद्य घृतादिना तद्विधानं क्रियेत यथा 'घटं कुर्यात्' इति प्रसिद्धं घटमनूद्य तत्करणविधानम् , तत्तु न प्रसिद्धम् । कथं न प्रसिद्धम् ? 'अग्निहोत्रं जुहुयात्' इत्यत्र हवनस्योक्तत्वादिहानुवदनं ननूपपन्नमिति चेत् , न, तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् । तत्र तावद् हवनापूर्वकरणार्थतयोः प्रधानाग्निहोत्र श्रुतित्यागा- 25
१व्यत्वार्थ प्र० । दृश्यतां पृ० १४६ पं० ११॥ २ कारणा प्र० ॥ ३ अनुवादत्वात् य० ॥ ४ दर्शनभ्रान्तेर्हाप्रिये इत्यादिप्रलापो य० ॥ ५ अनुवादत्वं य० ॥ ६ चाद्य( चोद्य ? चाग्नौ ? चाज्य ? )घृत भा० पा० डे० ली० । चावाद्यवृत वि० । चयद्यघृत रं० ही० ॥ ७ द्वारंमिति भा० ॥ ८ नेपेक्षेतेति य० । अत्र 'नापेक्षेति' इत्यपि पाठः स्यात् ॥ ९ दृश्यतां पृ० १४२ पं० १॥ १० वासिद्धे पा० डे० लीं. वि. भा० । वासिद्धो रं० ही० ॥ ११ प्रसिद्धार्थानुवादत्वाभावादिति भावः ॥ १२ कुर्याच्च य० । कुर्या भा० ॥ १३ प्रमाणा न्तरेण वा प्रागवि य०॥ १४ तामतिः भा० ॥ १५ दृश्यतां पं० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org