________________
१५०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे असत्कार्य विवक्ष्यते, अलब्धवृत्तित्वात् , खपुष्पवत् । तद् द्विविधम् - अनितिकर्तव्यतात्मकमितिकर्तव्यतात्मकं च । तत्रानितिकर्तव्यतात्मकं घटादि यूपादि च । इतिकर्तव्यतात्मकं पुनः प्राप्तिसंवादि, यथा सेवादि । तच्च न कारणमात्रम्, कुर्यात्प्रतिपादितादसत्कार्यवादादादौ मध्येऽन्ते च कर्तव्यताभ्युपगमाद् यदुच्यते त्वया 5 दोषजातं तद् वचनच्छलात् ।
न कारणमेव न कार्यमेव नोभयमेव नानुभयमेवेत्यविचार्य वस्तुतत्त्वैकान्तपरिग्रहमकृत्वा कारणं कार्यमुभयमनुभयं वाभ्युपगम्यते । अस्मिन् 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति वाक्ये यत् कारणमात्रकार्यप्रदर्शनमनुपात्तापरित्यक्तमिह विधिनये सदपि यत् तदत्र निर्मूलापविद्ध क्रियावाक्यप्रबन्धम् , निर्मूल
मपविद्धः क्रियाप्रबन्धो वाक्यप्रबन्धश्च यस्मिंस्तदिदं निर्मूलापविद्धक्रियावाक्यप्रबन्धम् । * इतिशब्दो हेत्वर्थे, 10 यस्मान्निर्मूलापविद्धक्रियावाक्यप्रबन्ध* तस्मात् कारणमात्रकार्यदर्शनस्य तद्दोषपरिहारार्थमिष्यते विवक्ष्यतेऽ
नवधारितैकान्तदर्शनत्वात् कारणमात्रत्वं त्यक्त्वा यत् कार्यासत्त्वं तदेव 'अग्निहोत्रं जुहुयात्' इति वाक्ये कारणमात्रकार्यदर्शनमेव सत् 'असत् कार्यम्' इति विवक्ष्यतेऽभ्युपगम्यते च । किं कारणम् ? अलब्ध
वृत्तित्वात् , अलब्धा वृत्तिरनेनेत्यलब्धवृत्ति कार्यम् , तस्मादलब्धवृत्तित्वात् खपुष्पवत् , यथा खपुष्प१०६-२ मलब्धवृत्तित्वादसत्तथा कार्य स्वर्गापूर्वादि अलब्धवृत्तित्वादसत् । लब्धवृत्तित्वे 'कुर्याजुहुयात्' इति न 15 चोद्येत, सिद्धौदनार्थं 'पचेत्' इत्यचोदनावत् । अतोऽसत् कार्यमागृह्य स्वर्गादि तत्प्राप्त्यर्थ क्रियाश्रीयते - अग्निहोत्रं कुर्यादिति । तद् द्विविधम् , तच्च कार्यं द्विविधम् – अनितिकर्तव्यतात्मकमितिकर्तव्यतात्मकं च । तत्रानितिकर्तव्यतात्मक कार्य घटादि पादि च लोके वेदे च दृष्टम्', मृदानयनमर्दनदण्डग्रहणचक्रभ्रमणादीतिकर्तव्यतात्मकं घटाख्यं कार्यं न भवति तदुपरमेऽपि पृथगुपलब्धेः, तथाष्टाश्रि
करणादीतिकर्तव्यतात्मको न भवति यूपः । इतिकर्तव्यतात्मकं पुनः कार्य प्राप्तिसंवादि, प्राप्त्या 20 संवदितुं शीलमस्य प्राप्तिसंवादि, यथा सेवादि, उपस्थानाञ्जलिकरणादिरूपैव सेवा ताभ्यः पृथगनुपलब्धः।
तेच्च कार्य न कारणमात्रं "नेतिकर्तव्यतात्मकं घटादियूपादिवत् , कुर्यात्प्रतिपादितादसत्कार्यवादात्, कुर्याच्छब्दप्रतिपादितात् 'अग्निहोत्रं कुर्यात्' इत्यत्र कुर्याच्छब्देन प्रतिपादितात् 'घटं कुर्यात्' इति प्रतिपादितघटासत्कार्यार्थवाक्यवदिदमपि वाक्यं स्फुटतरासत्कार्यार्थम् । किं कारणम् ? आदी मध्येऽन्ते च
कर्तव्यताभ्युपगमात्, अतोऽसत्कार्यवादस्य उपक्रमप्रभृत्यपवर्गपर्यवसानेषु क्रियाविशेषेष्वभ्युपगतत्वाद् 25 यदुच्यते त्वया दोषजातं तत् 'त्वद्वचनात् प्राप्तिप्रापितेतिकर्तव्यतैव कर्तव्यता' इति वचनच्छलात्,
कारणमात्रकार्यत्वापत्तिस्ततो विध्यनुपपत्तिरित्यादि सर्वं दोषजातं नास्तीति । १०७-० एतदपि नोपपद्यते, विधिविधिनयदर्शनोपपादयिष्यमाणकारणमात्रत्ववादात् । अभ्युपेत्यापि अस
१°नुयात्वापरि य० ॥ २ * * एतचिहान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ३ मिष्टतो विवक्षते प्र० ॥ ४°भ्युपगमे च प्र०॥ ५ नवत् भा० वि० डे० ली० ॥ ६त्मकं च कार्य य० ॥ ७ यूपादिव लोके प्र०॥ ८ ताभ्य इतिकर्तव्यताभ्य इत्यर्थः ॥ ९तत्कार्य य० ॥१० नेवेतिकर्त ९० लीं. रं. ही० ॥ ११ तरं वि०॥ १२ दृश्यतां पृ० १४२ पं० १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org