________________
कारणमात्रकार्यदर्शने दोषाभिधानम् ] द्वादशारं नयचक्रम्
१४९ वक्षावृत्तिवाक्यभेददोषपरिकल्पनापरिश्लथता । श्रुतिभेदोऽपि वृथैवं साध्वसाधुत्वाभ्याम् , एकार्थत्वात्, घटकुटवत् । इदं चाज्ञातमपि सत् त्वया तत्त्वमेवैवं विवेक्तारं प्रति प्रदर्शितं घुणाक्षरवत् ।
अथोच्येत-कारणमात्रकार्यदर्शनमिह निर्मूलापविद्धक्रियावाक्यप्रबन्धमिति
श्लथता, यथासङ्ख्येन ज्ञातालम्बनोऽनुवादः, अज्ञातालम्बनो विधिः, तयोरर्थयोर्युगपद्वक्तुमिच्छा युगप-5 द्विवक्षा, एकस्मिन्नर्थे तस्या वृत्तिः, असौ द्वयर्थता वाक्यभेदः, देवदत्ताख्यानवाक्यस्यैव गवानयनचोदनायां देवदत्तान्वाख्यानवदनुवादो गवानयनविधानवाक्यस्य वा देवदत्ताख्यानवाक्यवद् देवदत्त- १०५-२ विधानमिति 'येयमेकस्य शब्दस्य युगपदर्थद्वयाभिधानशक्त्यभावाद्वाक्यभेददोषपरिकल्पना तस्याः परिश्लथता, अर्थभेदाभावात् । अतोऽसाधुतापि शब्दानां नास्ति, सर्वे साधवोऽसाधवो वा शब्दाः प्रसक्ता इति ।
10 क्रिश्चान्यत् , न केवलं वाक्यभेददोषो भेदाभावदोषश्चापदार्थात्मकः, श्रुतिभेदोऽपि वृथैवं साध्वसाधुत्वाभ्याम् । एवमिति कारणात्मककार्यवादाभ्युपगमप्रकारेणोक्तमतिदिश्य सङ्क्षिप्य साधनमाह सोदाहरणम् – एकार्थत्वाद् घटकुटवदिति, यथा प्रतीतार्थयोर्घटकुटशब्दयोरेकार्थत्वादन्यतरप्रयोगो वृथा साधुत्वाभिमतयोः, असाधुत्वाभिमतस्य गोशब्दमात्रस्य वाचा-दिशा-सानादिमदर्थेषु युगपत् प्रयुक्तस्य चैकार्थत्वात् 'अर्थभेददोषपरिकल्पनापरिश्लथता' इति वर्तते । तस्मात् पदवाक्यशब्दयोः साधुत्वासाधुत्वा- 15 विशेषाच्छिष्टेतरलोकव्यवहाराविशेषः । एवं ते जुहुयादुक्तेः पौनरुक्त्यस्ववचनविरोधौ स्वशब्दोक्तासत्कार्यवादत्यागः कारणात्मकसत्कार्यावादाभ्युपगमश्चेत्यप्रतिपूर्णतर्कता सदोषत्वादित्युक्तम् ।
युदप्येतत् त्वयाभ्युपगतं कारणात्मकसत्कार्यत्वं तदप्यसमीक्ष्याबुद्धिपूर्वकमेवोक्तमित्यतस्तत्प्रदर्शनार्थमाह - इदं चाज्ञातमपि सत् त्वया तत्त्वमेवैवं विवेक्तारं प्रति प्रदर्शितं घुणाक्षरवत् । यथा घुणः काष्ठमुत्किरन्नक्षराकारामपि रेखामुत्किरति यहच्छया तथा त्वयेदं तत्त्वमेवैवं कारणात्मकसत्कार्यत्वं 20 प्रदर्शितम् 'इतिकर्तव्यतैव कर्तव्यता' इति ब्रुवता । तत् पुनर्विवेक्तारं प्रति प्रदर्शितम् , 'इत्थमसत्कार्य १०६-१ भवति, इत्थं सत्कार्यम्' इति यो वाच्यवाचकसाधनस्वरूपैविवेकज्ञस्तं प्रत्येव प्रदर्शितं नात्मतुल्यबुद्धीन प्रति, दर्शयन्नपि स्वयं तद्विवेकं ने चेच्छति ।
अथोच्येत - कारणमात्रकार्यदर्शनमिहेत्यादि यावद्वचनच्छलादिति । अथ त्वयैवमुच्येत - न मया कारणमात्रकार्यदर्शनैकान्तोऽभ्युपगम्यते यतस्त्वयैते दोषा मां प्रत्यापाद्यन्ते । किं तर्हि ? मयाभ्युपगम्यते 25
१ येतयमेकस्य भा० । यद्ययमेकस्य पा० डे० ली० । यत्नयमेकस्य वि० । यज्ञयमेकस्य रं० ही० ॥ २°त्मकश्रुति पा० डे० ली० वि० भा० ॥ ३ वाचादिसानादिमदर्थे पा० डे० लीं० वि० । वाचादिसाग्नादियमदर्थे भा० । वाचादिग्नादितमदर्थे २० ही० ॥ ४ युगदप्रयुक्तस्य चैकार्थत्वात् भा० । युगपदप्रयुक्तचैकार्थत्वात् पा० डे० लीं । युगपदप्रयुक्तावैकार्थत्वात् १० ही। युगपदं प्रयुक्तं चैकार्थत्वात् वि०॥ ५ हारवि प्र०॥ ६ यद्यप्ये य० ॥ ७°कार्यात्व २० ही० पा० वि०॥ ८°त्मसत्का य० ॥ ९ दृश्यतां पृ० १४२ पं० १॥ १०विधिका प्र०॥ ११ न वे प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org